संस्कृत-शब्दकोशः

महौषधी मा

मंह्

मह पूजायाम्


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- महयति–ते

अर्थ−
१. पूजा गर्नु, सम्मान गर्नु ।

कृदन्तरूपमाला

  • 1“मह पूजायाम्” 2 अदन्तः, कथादिश्च।
  • ‘महयेत् महतीत्येते पूजायां णौ शपि क्रमात्।’ 3 इति देवः।
  • 4 महकः-हिका, मिमहयिषकः-षिका;
  • महयिता-त्री, मिमहयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचहयतिवत् 5 बोध्यानि।
  • 6 महः-मही, 7 मघवन्, इति रूपाणि विशेषेण भवन्ति इति ज्ञेयम्।
  • 8 णमुलि महम् २, महयित्वा २, इत्येकमेव रूपम्।

प्रासङ्गिक्यः

  • ↑ (१२३७)
  • ↑ (१०-चुरादिः-१८६८। सक। सेट्। उभ।)
  • ↑ (श्लो। १९६)
  • ↑ ५। अस्य धातोः अदन्तेषु पाठसामर्थ्यात् अल्लोपस्य स्थानिवद्भावेन णिच्परत्वा- भावात् ‘अत उपधायाः’ (७-२-११६) इति वृद्धिर्नेति ज्ञेयम्।
  • ↑ (५१५)
  • ↑ ६। ‘पुंसि संज्ञायां घः--’ (३-३-११८) इति घप्रत्यये रूपमेवम्। स्त्रियां गौरादिपाठात् (४-१-४१) ङीषि मही इति सिद्ध्यति।
  • ↑ ७। ‘श्वन्नुक्षन्…’ (द। उ। ६-५५) इति कनिन्प्रत्यये घकारेऽन्तादेशे वुगागमे च निपातिते रूपमेवम्।
  • ↑ [पृष्ठम्१०१३+ २७]


मह पूजायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- महति

अर्थ−
१. पूजा गर्नु, सम्मान गर्नु ।

कृदन्तरूपमाला

  • 1“मह पूजायाम्” 2 ‘महयेन्महतीत्येते पूजायां णौ शपि क्रमात्।’ 3 इति देवः।
  • क्षीरस्वामी नामुं धातुं पठति।
  • माहकः-हिका, माहकः-हिका, मिमहिषकः-षिका, मामहकः-हिका;
  • महिता-त्री, माहयिता-त्री, मिमहिषिता-त्री, मामहिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचहतिवत् 4 बोध्यानि।
  • 5 मही, 6 महिषः-महिषी, महिष्मान्, 7 महत्-महान्-महान्तौ-महान्तः, 8 माहिनम्-महिनम्, महिमा, इत्यादीनि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
  • कर्मणि क्तप्रत्यये 9 महितम्-तः इति।

प्रासङ्गिक्यः

  • ↑ (१२३६)
  • ↑ (१-भ्वादिः-७३०। सक। सेट्। पर।)
  • ↑ (श्लो। १९६)
  • ↑ (५१४)
  • ↑ १। पचाद्यजन्तात् महशब्दात् गौरादित्वात् (४-१-४१) स्त्रियां ङीषि रूपमेवम्।
  • ↑ २। ‘अविमह्योष्टिषच्’ (द। उ। ९-३) इति टिषच्प्रत्यये महिषः इति रूपम्। टित्त्वात् स्त्रियां महिषी इति भवति। महिषा अस्मिन् सन्तीति महिष्मान् = देशः। ‘महिषाच्चेति वक्तव्यम्’ (वा। ४-२-८७) इति ‘तदस्मिन्नस्तीति देशे तन्नाम्नि’ (४-२-६७) इति विषये ड्मतुप्प्रत्यये डित्त्वाट्टिलोपे च रूपमेवम्।
  • ↑ ३। ‘वर्त्तमाने पृषद्बृहन्महद्--’ (द। उ। ६-५) इति वर्तमानकाले कतिप्रत्यये शतृव- दित्यतिदेशान्नुमि, ‘सान्तमहतः संयोगस्य’ (६-४-१०) इत्यसंबुद्धौ सर्वनामस्थाने परतः उपधायाः दीर्घे च महान् इति रूपं सिध्यति।
  • ↑ ४। ‘महेरिनण् च’ (द। उ। ५। १९) इति इनण्प्रत्यये माहिनम् इति, चकारात् इनन्प्रत्यये महिनम् इति च रूपम्। महिनम् = राज्यम्।
  • ↑ आ। ‘चाहेनामहितस्य चास्य निधनोद्योगं रहस्यूचिवान्…।।’ धा। का। १। ९१।


महि वृद्धौ


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मंहति

अर्थ−
१. बढ्नु ।

कृदन्तरूपमाला

  • 1“महि वृद्धौ” 2 मंहकः-हिका, मंहकः-हिका, मिमंहिषकः-षिका, मामंहकः-हिका;
  • मंहिता-त्री, मंहयिता-त्री, मिमंहिषिता-त्री, मामंहिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 3 ज्ञेयानि।
  • कर्तरि क्तप्रत्यये मंहितः 4 इति, युचि-मंहनः इति च विशेषः।

प्रासङ्गिक्यः

  • ↑ (१२३८)
  • ↑ (१-भ्वादिः-६३४। अक। सेट्। आत्म।)
  • ↑ (१४९)
  • ↑ आ। ‘अक्रूर एत्य बहुधागतमंहितांहाः…।।’ धा। का। १। ८०।


महि भासायां भाषायां वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- मंहयति–ते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु, भन्नु ।

कृदन्तरूपमाला

  • 1“महि भाषार्थः” 2 आस्वदीयः।
  • ‘--भासार्थः’ इति क्षीरस्वामी।
  • मंहकः-हिका, मिमंहयिषकः-षिका, मंहकः-हिका, मिमंहिषकः-षिका, मामंहकः-हिका;
  • मंहयिता-त्री, मिमंहयिषिता-त्री, मंहिता-त्री, मिमं- हिषिता-त्री, मामंहिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुंश- यतिवत् 3 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (१२३९)
  • ↑ (१०-चुरादिः-१८००। सक। सेट्। उभ।)
  • ↑ (२३२)



Correction: