मिलिन्दक
मिवि
मिल्
मिल श्लेषणे
गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- मिलति–ते
अर्थ−
१. मिल्नु, संयुक्त हुनु, जुट्नु ।
कृदन्तरूपमाला
- 1“मिल श्लेषणे” 2 3 चुरादिषु ‘बहुलम्;
- एतन्निदर्शनम्’ 4 इति पठ्यते।
- तस्यायमर्थः-- भ्वादिगणपठिता धातवो निदर्शनार्थाः।
- धातूनामसङ्ख्येयत्वात् बहुलमुपलम्भाच्च, अनुक्ता अपि धातवो यथासम्भवं तत्तद्विकरणेषु शिष्टप्रयोगानुसारेणोन्नेयाः इति।
- अत्रानुक्तेषु = अपठितेषु धातुष्वयमप्येक इति मत्वा भोजप्रभृतिभिः ‘मिलन्त्या- शासु जीमूताः, विक्लबन्ते दिवि ग्रहाः।’ इत्यादीनां बहूनां धातूनां सङ्ग्राहकाः श्लोकाः पठिताः।
- परं तु मिलधातोरस्य तुदादावेव द्विवारं पाठोऽधुनोपलभ्यते।
- क्षीरस्वा- मी तु भ्वादावपि मिलधातुं ‘मील--’ धातुस्थाने पाठान्तरत्वेन पपाठ।
- काव्याल- ङ्कारसूत्रवृत्तौ 5 वामनोऽपि-- “तत्र मिलि क्लबिक्षपिप्रभृतीनां कथं धातुत्वम्? गणापाठात्, गणपठितानामेव धातुसंज्ञाविधानात्।
- तत्राह धातुगणस्या- समाप्तेः।
- ‘वर्धते धातुगणः’ इति हि शब्दविद आचक्षते।
- तेनैषां गणपाठो- ऽनुमतः, शिष्टप्रयोगात्--इति।” इत्युक्तवान्।
- एतेन ज्ञायते--मिलप्रभृतीनां धातुपाठे औपदेशिकः पाठः प्राङ् नासीत् इति।
- भोजवामनग्रन्थदर्शिभिः पाश्चात्यैः पुनः एकस्यैव धातोः एकविकरणकेऽपि गणे द्विवारमपि पाठोऽत्यल्पप्रयो- जनकः प्रक्षिप्त इति।
- विद्वांसोऽत्र प्रमाणम्। 6 ‘श्लेषे मिलेत्, संगमे तु मिलते मिलतीति च।’ 7 इति देवः।
- मेलकः-लिका, मेलकः-लिका, मिमिलिषकः-मिमेलिषकः-षिका, मेमि- लकः-लिका;
- मेलिता-त्री, मेलयिता-त्री, मिमिलिषिता-मिमेलिषिता-त्री, मेमि- लिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 8 ज्ञेयानि।
प्रासङ्गिक्यः
मिल सङ्गमे
गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- मिलति–ते
अर्थ−
१. मिल्नु, संयुक्त हुनु, जुट्नु ।
कृदन्तरूपमाला
- 1“मिल संगमे” 2 ‘श्लेषे मिलेत्, संगमे तु मिलते मिलतीति च।’ 3 इति देवः।
- मेलकः-लिका, मेलकः-लिका, मिमिलिषकः-मिमेलिषकः-षिका, मेमि- लकः-लिका;
- मेलिता-त्री, मेलयिता-त्री, मिमिलिषिता-मिमेलिषिता- त्री, मेमिलिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 4 ज्ञेयानि।
- “-- ‘मिल संश्लेषणे’ इति पठितस्येह पुनः पाठः-- कर्त्रभिप्राये तङर्थः।
- इति आत्रेयः।” इति मा।
- धा।
- वृत्तिः।
- क्षीर- स्वामी त्वमुं धातुं न पठति।
- अस्य धातोरुभयपदित्वात् शानचि -- 5 मिलमानः, 6 मिलिष्यमाणः, मिमिलिषमाणः, मिमेलिषमाणः, मिमिलिषिष्य- माणः, इत्यादीनि तत्तत्प्रत्यये रूपाण्यूह्यानि।
- 7 मेलनम्।
- 8 मेला-कुम्भमेला।
- 9
प्रासङ्गिक्यः