संस्कृत-शब्दकोशः

मिहिराण मी

मिह्

मिह सेचने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- मेहति

अर्थ−
१. भिजाउनु, सेचन गर्नु, प्रोक्षण गर्नु,
२. पिसाब गर्नु ।

कृदन्तरूपमाला

  • 1“मिह सेचने” 2 मेहकः-हिका, मेहकः-हिका, मिमिक्षकः-क्षिका, मेमिहकः-हिका;
  • मेढा- 3 मेढ्री, मेहयिता-त्री, मिमिक्षिता-त्री, मेमिहिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना आदादिकदेग्धिवत् 4 ज्ञेयानि।
  • 5 मेघः, 6 मेढ्रम्, 7 मीढ्वान्, 8 मेहः, 9 मिहिरः इमानि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१२६६)
  • ↑ (१-भ्वादिः-९९२। सक। अनि। पर।)
  • ↑ [पृष्ठम्१०२९+ २८]
  • ↑ (८४२)
  • ↑ १। धातोः इगुपधत्वेऽपि पचादिषु (३-१-१३४) पाठात् अच्प्रत्यये, गुणे, ‘न्यङ्क्वादीनां च’ (७-३-५३) इत्यत्र गणे पाठात् हकारस्य कुत्वेन घकारे च मेघ इति सिद्ध्यति। मेहति = वर्षति इति मेघः।
  • ↑ २। ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्यये गुणे, ‘हो ढः’ (८-२-३१) इति धातुहकारस्य ढत्वे, धत्वष्टुत्वढलोपेषु च प्रवृत्तेषु ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२१) इति न्यायेन दीर्घे च रूपमेवम् मिह्यतेऽनेनेति मेढ्रम्।
  • ↑ ३। धातोरस्मात् कर्तरि लिटः क्वसौ वेदे भाषायां चाविशेषेण ‘दाश्वान् साह्वान् मीढ्वां- श्च’ (६-१-१२) इति निपातनात्, द्वित्वाभावः, अनिट्त्वम्, ढत्वम्, उपधादीर्घ- श्चेति ज्ञेयम्। ‘मीढ्वस्तोकाय तनयाय मृडय--’ इति वैदिकः प्रयोगः।
  • ↑ ४। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि गुणे च रूपमेवम्। मेहः = मधुमेहः, रोगविशेषः।
  • ↑ ५। मेहति, मेहयति वाऽयमिति मिहिरः = सूर्यः। ‘इषिमदिमुदिखिदिच्छिदिभिदि- मन्दिचन्दितिमिमिहि--’ (द। उ। ८-२६) इत्यादिना किरच्प्रत्यये रूपमेवम्।



Correction: