संस्कृत-शब्दकोशः

मिह् मीङ्

मी

मीञ् हिंसायाम्


गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- मीनाति–मीनीते

अर्थ−
१. मार्नु, दुःख दिनु, सताउनु ।

कृदन्तरूपमाला


मी गतौ


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- माययति–ते, मयति

अर्थ−
१. बुझ्नु, जान्नु,
२. जानु ।

कृदन्तरूपमाला

  • 1“मी गतौ” 2 उभ।) आधृषीयः।
  • ‘--गतौ, मनने’ इति क्षीरस्वामी।
  • ‘मीञो मीनाति मीनीते हिंसायां मीयते ङितः।।
  • मिनोति मिनुते स्वादेः, गतौ मयति माययेत्।’ 3 इति देवः।
  • मायकः-यिका, मिमाययिषकः-षिका, मायकः-यिका, 4 मिमीषकः-षिका, 5 मेमीयकः-यिका;
  • माययिता-त्री, मिमाययिषिता-त्री, 6 मेता-त्री, मिमीषिता-त्री, मेमीयिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि ण्यन्तात् ण्यन्तप्रकृतिकसन्नन्ताच्च गोमयतिवत् 7 ज्ञेयानि।
  • आधृषीयत्वेन णिज्वि- कल्पः।
  • तेन णिजभावपक्षे शुद्धात्, शुद्धप्रकृतिकसन्नन्तात्, शुद्धप्रकृतिक- यङन्ताच्च भौवादिकनयतिवत् 8 सर्वाण्यपि रूपाणि 9 ज्ञेयानि।
  • णिजभावपक्षे तु--शतरि-- 10 मयन्-न्ती इति रूपम्।

प्रासङ्गिक्यः

  • ↑ (१२६७)
  • ↑ (१०-चुरादिः-१८२५। सक। सेट्। (अनि।)
  • ↑ (श्लो। १६-१७)
  • ↑ ६। ‘सनि मीमा--’ (७-४-५४) इत्यत्र अचौरादिकैर्धातुभिः सह साहचर्यात् नास्य ग्रहणम्। अतोऽत्र न ‘इस्’ भावादिकमित्यतः, ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्, ‘अज्झनगमां सनि’ (६-४-१६) इत्यनेन (पर्जन्यन्यायेन) दीर्घः। ‘श्विडीङिवर्णेष्वथ शीङ्श्रियावपि’ (व्याघ्रभूतिकारिका, भाष्ये, ७-२-१०) इति नियमाण्णिजभावपक्षे इडागमो नेत्यादिकं यथायथमूह्यम्।
  • ↑ [पृष्ठम्१०३०+ २८]
  • ↑ १। शुद्धे तृजन्ते इडभावात् गुणे रूपमेवम्।
  • ↑ (४३३)
  • ↑ (६८०)
  • ↑ (नयतेः प्रातिस्वि- करूपाणि विना)
  • ↑ २। णिजन्तस्थले धातोरस्योभयपदित्वेऽपि णिजभावपक्षे आत्मनेपदप्रवृत्तिनिमित्ताभा- वात्, ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदं शतेति ज्ञेयम्।


मीङ् हिंसायाम्


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मीयते

अर्थ−
१. मार्नु, देहत्याग गर्नु, मर्नु ।

कृदन्तरूपमाला

  • 1“मीङ् हिंसायाम्” 2 ‘मीञो मीनाति मीनीते, हिंसायां मीयते ङितः।।’ 3 4 मित्सकः-त्सिका, मेमीयकः-यिका;
  • मेता-त्री, माययिता-त्री, मिमीषिता-त्री, मित्सिता-त्री, मेमीयिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्षयतिवत् 5 ज्ञेयानि।
  • शतरि मीयन्-न्ती-ती इति रूपमिति विशेषः।
  • 6

प्रासङ्गिक्यः

  • ↑ (१२६८)
  • ↑ (४-दिवादिः-११३७। सक। अनि। आत्म।)
  • ↑ (श्लो। १६)
  • ↑ [इति देवः। ‘हिंसाऽत्र मृतिः।’ इति धा। का। व्याख्यायाम् (२। ५८)। मायकः-यिका, मायकः-यिका, मिमीषकः-षिका, ३। ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योरुभयोरपि ‘मी’ इत्यनेन ग्रहणम्-इति वृत्तिकारः। तेन नास्य ‘मी’ इत्यनेन ग्रहणमिति ज्ञायते। काश्यप- क्षीरस्वामि-वर्धमानप्रभृतयस्तु धातोरस्यापि तत्र ग्रहणमिति कृत्वा, इस्भावे, अभ्यासलोपादिके, सकारस्य तकारे च कृते ‘मित्सते’ इति सन्नन्ते रूपं प्रदर्शय- न्ति। “लाक्षणिकमीरूपस्य मिनोतेः अग्रहणशङ्कापनोदनपरा वृत्तिः; न त्वस्याग्र- हणपरा।” इति तेषामुपपादनं माधवधातुवृत्तिप्रतिपादितमिहानुसन्धेयम्। वस्तुतस्तु ‘इको झल्’ (१-२-९) इत्यत्र, ‘मीनातिमिनोत्योः--’ इति भाष्यो- क्त्या, ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योर्द्वयोरेव ग्रहणं न्याय्यम्; अन्यथा निरुक्तभाष्यस्योपलक्षणत्वापत्तेः। अस्य धातोरपि ग्रहणे उपलक्षकत्व- कल्पनायां च प्रमाणाभावाच्चेत्यलम्। अन्यत्र विस्तरः।
  • ↑ (३०२)
  • ↑ [पृष्ठम्१०३१+ २८]



Correction: