संस्कृत-शब्दकोशः

मुसल्य मुस्त

मुस्

मुस खण्डने


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मुस्यति

अर्थ−
१. टुक्रा-टुक्रा गर्नु,काट्नु, फोर्नु, चिर्नु ।

कृदन्तरूपमाला

  • 1“मुस खण्डने” 2 “आत्रेयस्तु कातन्त्रे मूर्धन्यान्तोऽयम्।
  • तथा च ‘राघवस्यामुषः कान्ताम्’ 3 इति प्रयोगश्च, इति पाठान्तरमप्याह।” इति मा।
  • धा।
  • वृत्तौ।
  • मोसकः-सिका, मोसकः-सिका, मुमोसिषकः-मुमुसिषकः-षिका, मोमुसकः- सिका;
  • मोसिता-त्री, मोसयिता-त्री, मुमोसिषिता-मुमुसिषिता-त्री, मोमु- सिता-त्री;
  • इत्यादीनि सर्वाणि रूपाणि भौवादिककोसतिवत् 4 ज्ञेयानि।
  • 5 6 मुसलम्-मुसली, 7 मुस्ता, 8 9 मुस्तकम्, इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्ति।

प्रासङ्गिक्यः

  • ↑ (१२९१)
  • ↑ (४-दिवादिः-१२२०। सक। सेट्। पर।)
  • ↑ (भ। का। १५-१६)
  • ↑ (२३४)
  • ↑ [पृष्ठम्१०४२+ २६]
  • ↑ १। ‘वृषादिभ्यश्चित्’ (द। उ। ८-१०९) इति कलप्रत्यये मुसलम् इति रूपम्। गौरादिपाठान्ङीषि मुसली इति रूपम्। मुसली = गृहगोधिका।
  • ↑ २। बाहुलकात् औणादिके तन्प्रत्यये ‘तितुत्र--’ (७-२-९) इतीण्निषेधे रूपम्। अथवा, ‘व्रातालातसुतपुतचित्तनिमित्तमुस्त--’ इत्यादिना भोजेन क्तप्रत्यये निपातितः।’ इति धा। का। व्याख्यानात् (२-६६) एवं रूपमिति ज्ञेयम्।
  • ↑ आ। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसः…।।’ धा। का। २। ६६।
  • ↑ ३। ‘संज्ञायाम्’ (४-३-११७) इति कन्प्रत्यये रूपं भवति। अर्धर्चादिगणे (२-४-३१) पाठात् पुंनपुंसकलिङ्गत्वम्। ‘भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्त्तरे’ इति मेदिनी।



Correction: