संस्कृत-शब्दकोशः

मौहूर्तिक म्रक्ष

म्ना

म्ना अभ्यासे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- मेनति

अर्थ−
१. विचार गर्नु, मनन गर्नु, अभ्यास गर्नु ।

कृदन्तरूपमाला

  • 1“म्ना अभ्यासे” 2 प्रायेणायमाङ्पूर्वक एव प्रयुज्यते।
  • ‘अभ्यासः = पारम्पर्येण वृत्तिः।’ इति क्षीरस्वामी।
  • म्नायकः-यिका, म्नापकः-पिका, मिम्नासकः-सिका, माम्नायकः-यिका;
  • म्नाता-त्री;
  • म्नापयिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि 3 विना भौवादिकधमतिवत् 4 ज्ञेयानि।
  • 5 आमनन्-ती, 6 व्यत्यामनमानः, 7 निम्नम्, 8 द्युम्नम्, 9 सुम्नम्, 10 आम्नायः इतीमानि रूपाण्यस्येति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३२०)
  • ↑ (१-भ्वादिः-९२९। अक। अनि। पर।)
  • ↑ [पृष्ठम्१०५९+ २९]
  • ↑ (९२४)
  • ↑ १। शतरि, शपि ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमन--’ (७-३-७८) इत्यादिनाऽस्य मनादेशे पररूपे च रूपमेवम्।
  • ↑ २। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानचि, शपि मनादेशे रूपमेवम्।
  • ↑ ३। नीचभावमभ्यस्तीति निम्नम्। ‘सुपि--’ (३-२-४) इति योगविभागात्, ‘आतश्चोपसर्गे’ (३-१-१३६) इति वा कप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे च रूपमेवम्। अत्र धातुवृत्तौ तु --“ --‘आतोऽनुपसर्गे कः’ (३-२-३) इति वा कः। नेर्नीचभाववचनत्वेन मन्य (न?) त्यर्थस्याविशेषणान्न तं प्रतीहोपसर्गत्वम्।” इत्युक्तम्। तदिहावधेयम्।
  • ↑ ४। दिने आम्नायते इति द्युम्नम्। द्युशब्दो दिनवचनः। अत्रापि कप्रत्यये रूपम्।
  • ↑ ५। सुतरामाम्नायते इति सुम्नम् = सुखम्। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति घञर्थे कप्रत्यये रूपम्।
  • ↑ ६। आ = समन्तात् म्नायते इति आम्नायः = वेदः। घञि ‘आतो युक्--’ (७-३-३३) इति युगागमे च रूपमेवम्।



Correction: