यमेश्वर
ययमपञ्चक
यम्
यम उपरमे
गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- यच्छति
अर्थ−
१. प्रतिबन्ध गर्नु, रोक्नु, अवरोध गर्नु ।
नि-
१. दौडाउनु, भगाउनु
२. कुलाचार गर्नु,
३. आकलन गर्नु, आकर्षण गर्नु, खिच्नु,
४. नियममा बाँध्नु ।
उद्- (उभयपदी, समुदाङ्भ्यो यमो ग्रन्थे. १/३/७५,)
१. यत्न गर्नु, उद्योग गर्नु,
२. माथि उठाउनु,
३. माथि चढ्नु ।
व्या- (आत्मनेपदी, आङो यमहनः १/३/२८)
१. कष्ट गर्नु, मिहिनेत गर्नु, परिश्रम गर्नु,
२. व्यवहार गर्नु,
३. आफ्नो उद्योग गर्नु ।
सन्नि- (परस्मैपदी)
१. प्रतिरोध गर्नु, रोक्नु ।
आ- (आत्मनेपदी, आङो यमहनः १/३/२८)
१. हात पसार्नु ।
आ- (परस्मैपदी)
१. जानु,
२. बलात् लिनु, खोसेर लिनु ।
सम्- (उभयपदी, समुदाङ्भ्यो यमो ग्रन्थे. १/३/७५,)
१. आफ्नो वस्तुहरू एकत्र गर्नु, थुप्र्याउनु, जम्मा पार्नु ।
सम्- (परस्मैपदी)
१. संयोग गर्नु, मिलाउनु ।
उप- (उभयपदी, समुदाङ्भ्यो यमो ग्रन्थे. १/३/७५,)
विवाह गर्नु, बिहे गर्नु,
२. मान्य गर्नु, स्विकार्नु,
३. विद्याले जित्नु, विद्याको बलले आफ्नो अधिन बनाउनु ।
कृदन्तरूपमाला
- 1“यम उपरमे” 2 3 ‘यमो गन्धने’ 4 इति सूत्रे गन्धनरूपस्य 5 अर्थस्याप्युपादानात्, धातोरस्योपसर्गवशात्, स्वभावाद् वा तत्राप्यर्थे वृत्तिरिति ज्ञेयम्।
- भ्वादिष्वेव पुरस्तात् 6 ‘यमोऽपरिवेषणे’ 7 इति यत् पठ्यते--तत्तु ‘यम उपरमे’ इत्युत्तरत्रात्रैव विकरणे पठितस्यार्थविशेषे घटादिपाठ--तन्निषेधार्थरूपप्रयोजनद्वय- बशादिति ज्ञेयम्।
- उत्तरत्र चैतद् व्यक्तीभविध्यति।
- ‘परिवेष्टने एव मित्’ इति काशकृत्स्नः।
- इति केचित्। ‘यमेरुपरमे यच्छेद् यमयेत् परिवेषणे।’ 8 इति देवः।
- यामकः-मिका, 9 यमकः-मिका, 10 आयामकः-मिका, 11 यियंसकः-सिका, 12 यंयमकः-यंंय्यमकः-मिका;
- 13 यन्ता-यन्त्री, यमयिता-आयामयिता-त्री, यियंसिता-त्री, यंयमिता-त्री;
- 14 15 यच्छन्-न्ती, नियमयन्-यामयन्-न्ती, यियंसन्-न्ती;
- -- यंस्यन्-न्ती-ती, नियमयिष्यन्-यामयिष्यन्-न्ती-ती, यियंसिष्यन्-न्ती-ती;
- -- 16 आयच्छमानः, 17 18 भार्याम्] उपयच्छमानः, 19 पाणिम्] आयच्छमानः, 20 21 संयच्छमानः, 22 उद्यच्छमानः, 23 आयच्छमानः, यमयमानः, नियमयमानः, 24 आयामयमानः, 25 आयियंसमानः, यंयम्यमानः;
- आयंस्यमानः, उपयंस्यमानः, संयंस्यमानः-उद्यंस्यमानः-आयंस्यमानः, आयामयिष्यमाणः, यमयिष्यमाणः-नियमयिष्यमाणः, आयियंसिष्यमाणः, यंयमिष्यमाणः;
- 26 27 रिपुयत्-रिपुयतौ-रिपुयतः;
- 28 वियत्-वियतौ-वियतः;
- 29 यतम्-यतः-यतवान्, नियमितः-आयामितः, यियंसितः, यंयमितः-तवान्;
- 30 यमः, 31 वाचंयमः 32, 33 यतिः, 34 आयामी, 35 वाग्यामः, यमः, नियमः-आयामः, 36 संयमनः, यियंसुः, यंयमः;
- यन्तव्यम्, यमयितव्यम्-आयामयितव्यम्, यियंसितव्यम्, यंयमितव्यम्;
- यमनीयम्, यमनीयम्-यामनीयम्, यियंसनीयम्, यंयमनीयम्;
- 37 यम्यम्, 38 अनियम्यम्-विनियम्यम्, नियाम्यम्, यम्यम्-आयाम्यम्, यियंस्यम्, यंयम्यम्;
- 39 ईषद्यमः-दुर्यमः-सुयमः;
- -- -- -- यम्यमानः, यम्यमानः-आयाम्यमानः, यियंस्यमानः, यंयम्यमानः;
- आयामः, 40 उद्यमः, 41 संयामः 42 -उपयमः-उपयामः-नियमः-नियामः, यमः-यामः, यियंसः, यंयमः;
- यन्तुम्, यमयितुम्-आयामयितुम्, यियंसितुम्, यंयमितुम्;
- 43 यतिः, 44 संयत्, यमना-आयामना, यियंसा, यंयमा;
- यमनम्, 45 यमनम्-आयामनम्, यियंसनम्, यंयमनम्;
- 46 यत्वा, यमयित्वा-यामयित्वा, यियंसित्वा, यंयमित्वा;
- 47 प्रयत्य-प्रयम्य, 48 प्रयमय्य-प्रयाम्य, प्रयियंस्य, प्रयंयम्य;
- 49 यामम् २, यत्वा २, 50 यमम् २-यामम् २-आयामम् २, यमयित्वा २-यामयित्वा २, यियंसम् २, यियंसित्वा २, यंयमम् २;
- यंयमित्वा २;
- 51 इत्युनन्प्रत्ययः।
- यमुना = नदीविशेषः। यमुना, 52 इति त्रप्रत्ययः।
- यच्छतीति यन्त्रम् = शरीरसाधनम्, पीडनञ्च। यन्त्रम्, 53 इति संज्ञायां क्वुनि रूपमेवम्।
- यमकम् = शब्दालङ्कारविशेषः। यमकम्।
प्रासङ्गिक्यः
यम परिवेषणे
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- यमयति–ते (परिवेषणात् अन्यत्र ज्ञानज्ञापनमारणतोषणनिशामनेषु - यामयति)
अर्थ−
१. स्वाधीन गर्नु, काबुमा राख्नु,
२. पोषण गर्नु, खान दिनु ।
कृदन्तरूपमाला
- 1“यम च परिवेषणे” 2 3 चुरादिषु ज्ञपादिपञ्चकधातुप्रकरणे ‘यम च परिवेषणे’ 4 इति पठ्यते।
- तस्यायमर्थः--परिवेषणे = परिवेष्टनेऽर्थे यमधातुश्चुरादिषु बोध्यः;
- तस्य च क्रमप्राप्तो मित्त्वादिस्तु भवतीति।
- परिवेषणभिन्नार्थे तु औत्स- र्गिके भ्वादिपाठे, तस्माद्धेतुमण्णिचि नियामयति, नियामकः इत्यादिकानि रूपाणि तिङन्तादिषु भवन्तीति ज्ञेयम्।
- ‘यम च--’ इति दुर्गादिसम्मतः पाठः।
- चकाररहितपाठस्तु क्षीरतरङ्गिणीदृष्टः।
- ‘अपरिवेषणे’ इत्यपि केषाञ्चित्पाठ इति क्षीरतरङ्गिण्यादितो ज्ञायते;
- स च पाठः पुरुषकार- माधवधातुवृत्तिप्रभृतिषु खण्डित इत्यलम्।
- परिवेषणम् = वेष्टनम्।
- भ्वादिषु पठितस्य ‘यमोऽपरिवेषणे’ इत्यस्य तु ‘परिवेषणम् = भोजनम्’ इत्यर्थ इति बोध्यम्। ‘यमेरुपरमे यच्छेत् यमयेत् परिवेषणे।’ 5 इति देवः।
- यमकः-यमिका, यियमयिषकः-षिका, यमयिता-त्री, यियमयिषिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचहयतिवत् 6 ज्ञेयानि।
- शतरि 7 सुयमयन्।
प्रासङ्गिक्यः