संस्कृत-शब्दकोशः

यमेश्वर ययमपञ्चक

यम्

यम उपरमे


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- यच्छति

अर्थ−
१. प्रतिबन्ध गर्नु, रोक्नु, अवरोध गर्नु ।
नि-
१. दौडाउनु, भगाउनु
२. कुलाचार गर्नु,
३. आकलन गर्नु, आकर्षण गर्नु, खिच्नु,
४. नियममा बाँध्नु ।
उद्- (उभयपदी, समुदाङ्भ्यो यमो ग्रन्थे. १/३/७५,)
१. यत्न गर्नु, उद्योग गर्नु,
२. माथि उठाउनु,
३. माथि चढ्नु ।
व्या- (आत्मनेपदी, आङो यमहनः १/३/२८)
१. कष्ट गर्नु, मिहिनेत गर्नु, परिश्रम गर्नु,
२. व्यवहार गर्नु,
३. आफ्नो उद्योग गर्नु ।
सन्नि- (परस्मैपदी)
१. प्रतिरोध गर्नु, रोक्नु ।
आ- (आत्मनेपदी, आङो यमहनः १/३/२८)
१. हात पसार्नु ।
आ- (परस्मैपदी)
१. जानु,
२. बलात् लिनु, खोसेर लिनु ।
सम्- (उभयपदी, समुदाङ्भ्यो यमो ग्रन्थे. १/३/७५,)
१. आफ्नो वस्तुहरू एकत्र गर्नु, थुप्र्याउनु, जम्मा पार्नु ।
सम्- (परस्मैपदी)
१. संयोग गर्नु, मिलाउनु ।
उप- (उभयपदी, समुदाङ्भ्यो यमो ग्रन्थे. १/३/७५,)
विवाह गर्नु, बिहे गर्नु,
२. मान्य गर्नु, स्विकार्नु,
३. विद्याले जित्नु, विद्याको बलले आफ्नो अधिन बनाउनु ।

कृदन्तरूपमाला

  • 1“यम उपरमे” 2 3 ‘यमो गन्धने’ 4 इति सूत्रे गन्धनरूपस्य 5 अर्थस्याप्युपादानात्, धातोरस्योपसर्गवशात्, स्वभावाद् वा तत्राप्यर्थे वृत्तिरिति ज्ञेयम्।
  • भ्वादिष्वेव पुरस्तात् 6 ‘यमोऽपरिवेषणे’ 7 इति यत् पठ्यते--तत्तु ‘यम उपरमे’ इत्युत्तरत्रात्रैव विकरणे पठितस्यार्थविशेषे घटादिपाठ--तन्निषेधार्थरूपप्रयोजनद्वय- बशादिति ज्ञेयम्।
  • उत्तरत्र चैतद् व्यक्तीभविध्यति।
  • ‘परिवेष्टने एव मित्’ इति काशकृत्स्नः।
  • इति केचित्। ‘यमेरुपरमे यच्छेद् यमयेत् परिवेषणे।’ 8 इति देवः।
  • यामकः-मिका, 9 यमकः-मिका, 10 आयामकः-मिका, 11 यियंसकः-सिका, 12 यंयमकः-यंंय्यमकः-मिका;
  • 13 यन्ता-यन्त्री, यमयिता-आयामयिता-त्री, यियंसिता-त्री, यंयमिता-त्री;
  • 14 15 यच्छन्-न्ती, नियमयन्-यामयन्-न्ती, यियंसन्-न्ती;
  • -- यंस्यन्-न्ती-ती, नियमयिष्यन्-यामयिष्यन्-न्ती-ती, यियंसिष्यन्-न्ती-ती;
  • -- 16 आयच्छमानः, 17 18 भार्याम्] उपयच्छमानः, 19 पाणिम्] आयच्छमानः, 20 21 संयच्छमानः, 22 उद्यच्छमानः, 23 आयच्छमानः, यमयमानः, नियमयमानः, 24 आयामयमानः, 25 आयियंसमानः, यंयम्यमानः;
  • आयंस्यमानः, उपयंस्यमानः, संयंस्यमानः-उद्यंस्यमानः-आयंस्यमानः, आयामयिष्यमाणः, यमयिष्यमाणः-नियमयिष्यमाणः, आयियंसिष्यमाणः, यंयमिष्यमाणः;
  • 26 27 रिपुयत्-रिपुयतौ-रिपुयतः;
  • 28 वियत्-वियतौ-वियतः;
  • 29 यतम्-यतः-यतवान्, नियमितः-आयामितः, यियंसितः, यंयमितः-तवान्;
  • 30 यमः, 31 वाचंयमः 32, 33 यतिः, 34 आयामी, 35 वाग्यामः, यमः, नियमः-आयामः, 36 संयमनः, यियंसुः, यंयमः;
  • यन्तव्यम्, यमयितव्यम्-आयामयितव्यम्, यियंसितव्यम्, यंयमितव्यम्;
  • यमनीयम्, यमनीयम्-यामनीयम्, यियंसनीयम्, यंयमनीयम्;
  • 37 यम्यम्, 38 अनियम्यम्-विनियम्यम्, नियाम्यम्, यम्यम्-आयाम्यम्, यियंस्यम्, यंयम्यम्;
  • 39 ईषद्यमः-दुर्यमः-सुयमः;
  • -- -- -- यम्यमानः, यम्यमानः-आयाम्यमानः, यियंस्यमानः, यंयम्यमानः;
  • आयामः, 40 उद्यमः, 41 संयामः 42 -उपयमः-उपयामः-नियमः-नियामः, यमः-यामः, यियंसः, यंयमः;
  • यन्तुम्, यमयितुम्-आयामयितुम्, यियंसितुम्, यंयमितुम्;
  • 43 यतिः, 44 संयत्, यमना-आयामना, यियंसा, यंयमा;
  • यमनम्, 45 यमनम्-आयामनम्, यियंसनम्, यंयमनम्;
  • 46 यत्वा, यमयित्वा-यामयित्वा, यियंसित्वा, यंयमित्वा;
  • 47 प्रयत्य-प्रयम्य, 48 प्रयमय्य-प्रयाम्य, प्रयियंस्य, प्रयंयम्य;
  • 49 यामम् २, यत्वा २, 50 यमम् २-यामम् २-आयामम् २, यमयित्वा २-यामयित्वा २, यियंसम् २, यियंसित्वा २, यंयमम् २;
  • यंयमित्वा २;
  • 51 इत्युनन्प्रत्ययः।
  • यमुना = नदीविशेषः। यमुना, 52 इति त्रप्रत्ययः।
  • यच्छतीति यन्त्रम् = शरीरसाधनम्, पीडनञ्च। यन्त्रम्, 53 इति संज्ञायां क्वुनि रूपमेवम्।
  • यमकम् = शब्दालङ्कारविशेषः। यमकम्।

प्रासङ्गिक्यः

  • ↑ (१३४०)
  • ↑ (१-भ्वादिः-८१९-९८४। सक। अनि। पर।)
  • ↑ [अ]
  • ↑ (१-२-१५)
  • ↑ (गन्धनम् = सूचनम्’ परदोषाविष्कार इति यावत्।)
  • ↑ (८१९ संख्यायां)
  • ↑ (ग। सू। भ्वादौ)
  • ↑ (श्लो। १४८)
  • ↑ १। ‘यमोऽपरिवेषणे’ (ग। सू। भ्वादौ) इति पठ्यते। तस्य चायमर्थः-- ‘न कम्यमिचमाम्’ (ग। सू। भ्वादौ) इत्यतो नेति वर्तते। उपरमार्थे पठितो यो यमधातुः स एव परिवेषणरूपार्थभिन्नार्थ एव घटादिपाठं न प्राप्नोति--अर्थात् परिवेषणार्थे घटादिः--इति। तथा च ‘नियमयन् ब्राह्मणान्’ इत्यादिषु परिवेषणार्थकत्वात् घटादित्वम्। तेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वे रूपमेवं सर्वत्र बोध्यम्। यदा तु परिवेषणभिन्नार्थकत्वं--तदानीं आयामयन् (= द्राघयन्, व्यापारयन् वा इत्यर्थः) इत्यादिषु मित्त्वनिषेधात् उपधावृद्धिरेवेति बोध्यम्। एवमुत्तरत्रापि।
  • ↑ २। मैत्रेयरक्षित-काशिकाकार-न्यासकार-धातुवृत्तिकार-सिद्धान्त- कौमुदीकारमतानुसारेणात्र प्रयोगे मित्त्वनिषेधात् रूपमेवम्। क्षीरस्वामी तु ‘यमोऽपरिवेषणे’ (ग। सू। भ्वादिः) इत्यत्र पूर्वस्मात् गणसूत्रात् ‘न’ इत्यननुवर्त्य आयमयन् इत्येव साधुरिति विपरीतेन साधयति--तथाहि-- “यमयति, नियमयति, परिवेषणे तु--यामयति श्राद्धेऽन्नम्, आयामयति चन्द्रम्।” इति। तदेतत् पुरुषकारादिषु बहुधा खण्डितमिति नेह प्रतन्यते।
  • ↑ ३। सन्नन्तात् द्वित्वादिके मकारस्य नत्वे, ‘नश्चापदान्तस्य--’ (८-३-२४) इति अनु- स्वारे च रूपमेवम्।
  • ↑ ४। यङन्तात् ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः, तस्य पदान्तवद्भावेन परसवर्णविकल्पः।
  • ↑ ५। तृजादिषु ‘यमिर्ञमन्तेष्वनिडेक इष्यते’ (व्याघ्रभूतिकारिका, भाष्ये ७-२-१०) इति वचनाद् धातोरनिट्त्वम्। मकारस्यानुस्वारे परसवर्णे चैवं रूपम्।
  • ↑ [पृष्ठम्१०७१+ २६]
  • ↑ १। शतरि, ‘इषगमियमां छः’ (७-३-७७) इति छकारेऽन्तादेशे तुकि, तस्य श्चुत्वेन चकारे च रूपमेवम्। एवं शानजन्तेष्वपि प्रक्रियोह्या।
  • ↑ २। ‘आङो यमहनः’ (१-३-२८) इति अकर्मकादस्मादाङ्पूर्वकादात्मनेपदं शानच्। अकर्मकादित्युक्तत्वात् आयच्छन् कूपाद् रज्जुम्’ इत्यत्र शतैव।
  • ↑ आ। ‘श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्।।’ भ। का। ८। ४६।
  • ↑ [३। ‘उपाद् यमः स्वकरणे’ (१-३-५६) इत्यात्मनेपदम्। स्वकरणम् = स्वीकरणम्। पाणिग्रहणमिति भट्टोजिप्रभृतयः। तत्तु भाष्याद्यनारूढत्वादुपेक्ष्यमिति शेखरकारादयः। स्वकरणभिन्नार्थे ‘देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छन्’ इत्यत्र शतैव।
  • ↑ [४। ‘स्वाङ्गकर्मकाच्च--’ (वा। १-३-२७) इति वचनादात्मनेपदम्।
  • ↑ [व्रीहीन्]
  • ↑ ५। ‘समुदाङ्भ्यो यमोऽग्रन्थे’ (१-३-७५) इति सम् उत् आङ् पूर्वकादस्मात् यमधातोः ग्रन्थभिन्नविषये वर्तमानात् आत्मनेपदम्। ‘अग्रन्थे’ इत्युक्तत्वात् ‘उद्यच्छन् चिकित्सां वैद्यः’ इत्यादिषु शतैव। ‘स्वान् व्रीहीन् संयच्छन्’ इत्यादिषु तु ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इति पक्षे शताऽपि साधुरेवेति ज्ञेयम्।
  • ↑ [भारम्]
  • ↑ [वस्त्रम्]
  • ↑ ६। ‘न पादम्याङ्यम--’ (१-३-८९) इति ण्यन्तात् परस्मैपदनिषेधः। ‘अणा- वकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति प्राप्तस्य परस्मैपदस्यापवादोऽयम्। केचित् तु कर्त्रभिप्रायक्रियाफलार्थतया अत्रात्मनेपदमिति न;\\n\\n परं तु परगामिनि क्रियाफले परस्मैपदमपीति वदन्ति।
  • ↑ ७। ‘पूर्ववत् सनः’ (१-३-६२) इति सनः प्रकृतेर्निदान एव सन्नन्तादत्रापि शानजिति ज्ञेयम्।
  • ↑ [पृष्ठम्१०७२+ ३०]
  • ↑ १। रिपून् यच्छति = उपरतं करोति इत्यर्थे कर्मण्युपपदे, ‘क्विप् च’ (३-२-७६) इति क्विप्। ‘गमादीनाम्--’ (वा। ६-४-४०) इति वचनादनुनासिकलोपे तुकि रूपमेवम्।
  • ↑ २। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति क्विपि रूपमेवम्। वियत् = विष्णुपदम्।
  • ↑ ३। निष्ठायाम्, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपे रूपम्। एवमेव क्त्वाक्तिन्प्रभृतिष्वपि रूपनिष्पत्तिर्ज्ञेया।
  • ↑ ४। यच्छतीति यमः। कर्तरि पचाद्यच्।
  • ↑ ५। ‘वाचि यमो व्रते’ (३-२-४०) इति वाग्रूपे कर्मण्युपपदे खच्प्रत्ययः। ‘वाचंयम- पुरन्दरौ च’ (६-३-६९) इत्यनेनामन्तत्वं निपात्यते। निपातनाद् द्वितीयायाः अलुक्। वाचंयमः = मौनव्रती।
  • ↑ आ। ‘वाचम्यमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१।
  • ↑ ६। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति कर्तरि संज्ञायां क्तिच्प्रत्ययः, बाहुलकात् ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति न प्रवर्तते। नितरां मन आदिकं यच्छतीति यतिः। अनुनासिकलोपोऽपि बाहुलकादेवेति ज्ञेयम्। केचित् तु ‘स्त्रियां क्तिन्’ (३-३-९४) इति क्तिन्, बाहुलकात् पुंंल्लिङ्गत्वमिति वदन्ति।
  • ↑ ७। तच्छीलादिषु कर्तृषु, ‘सम्पृचानुरुधाङ्यम--’ (३-२-१४२) इत्यादिना, आङ्पूर्वकादस्माद् घिनुण्प्रत्यये रूपमेवम्।
  • ↑ ८। व्रतभिन्नार्थे विवक्षिते, वाचं यच्छतीत्यर्थे ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्यये रूपमेवम्।
  • ↑ ९। ण्यन्तात्, नन्द्यादित्वात् (३-१-१३४) कर्तरि-ल्युप्रत्यये अनादेशे च रूपम्।
  • ↑ १०। ‘गदमदचरयमश्चानुपसर्गे’ (३-१-१००) इति हलन्तलक्षणण्यदपवादतया यत्प्रत्ययः। यद्यपि, ‘पोरदुपधात्’ (३-१-९८) इत्येवात्र यत् सिद्धः, तथापि स यत् अनुपसृष्टादेव धातोरिति समर्थनाय पृथक् यमधातोरुपादानमिति ज्ञेयम्। एवं निरूढत्वात्, उपसृष्टे तु नियाम्यम् इत्यादिकानि ण्यदन्तान्येव साधूनि।
  • ↑ ११। ‘--अनुपसर्गे’ (३-१-१००) इत्युक्तत्वात्, कथमत्र सोपसर्गस्थले यत्प्रत्ययस्योप- पत्तिरिति शङ्कित्वा, ‘तेन न तत्र भवेद् विनियम्यम्।’ इति व्याघ्रभूतिकारिकायां ‘विनियम्यम्’ इत्युक्तत्वात्, विपूर्वकात्, निपूर्वकाच्च यदेवेति व्याख्यातारः समर्थयन्ति। तेन, ‘अनियम्यस्य नायुक्तिः--’ (न्यायकुसुमाञ्जलिः ३-१९) ‘त्वया नियम्या ननु दिव्यचक्षुषा--’ इत्यादिप्रयोगा उपपन्ना इति ज्ञेयम्।
  • ↑ [पृष्ठम्१०७३+ २९]
  • ↑ १। उत्पूर्वकादस्माद् घञि, यद्यपि वृद्धौ सत्याम्--उद्यामः इति न्याय्यम्;\\n\\n तथापि ‘अड उद्यमे’ (भ्वादिः-अक। सेट्।) इत्यादिनिर्देशबलादत्र भावेऽबेवेति व्याख्यानेषु समर्थितम्
  • ↑ २। ‘यमः समुपनिविषु च’ (३-३-६३) इति वैकल्पिकोऽप्प्रत्ययः। पक्षे घञ्। तेन रूपद्वयमत्र सर्वत्रेति ज्ञेयम्। बाहुलकात्, संज्ञायां पुंसि घप्रत्यये वा यमः इत्यपि साधुः। यमोऽस्यास्तीति यमी।
  • ↑ आ। ‘संयामवन्तो यतिवत्, निनादानपरेऽमुचन्।।’ भ। का। ७। ५७।
  • ↑ ३। स्त्रियां भावादौ क्तिन्प्रत्ययेऽनुनासिकलोपे च रूपमेवम्। यतिः = वृत्तेषु विच्छित्ति- विशेषद्योतकोऽवसानविशेषः।
  • ↑ ४। ‘सम्पदादिभ्यः--’ (वा। ३-३-१०८) इति भावे स्त्रियां क्विपि, ‘गमादीनामिति वक्तव्यम्’ (वा। ६-४-४०) इत्यनुनासिकलोपे तुकि च रूपमेवम्। बाहुलकादत्र क्विबिति ज्ञेयम्। संयत् = युद्धम्। सुरूपिणी कन्या च।
  • ↑ B। ‘निशम्यया मञ्जुगिरा कदा नः स यामयेद्वा यमनादिकार्ये।।’ धा। का। २। १८।
  • ↑ ५। क्त्वायामनुनासिकलोपे रूपमेवम्। “उदिदिति श्रीभोजः। यत्वा, यमि- त्वा।” इति क्षीरस्वामी। तन्मते धातोरस्य वलाद्यार्धधातुकेषु सर्वत्र यमिता-यन्ता इत्यादिकानि रूपाणि ज्ञेयानि। परं तु भाष्ये (७-२-१०) अनिट्कारिकाप्रकरने यमधातोरस्योपसंग्रहणात् पक्षोऽयमप्रामाणिक इति, यमि- त्वा इत्यादयः प्रयोगा अपाणिनीया इति, यदि तेषां प्रामाणिकत्वं, तदा व्याकर- णान्तररीत्या, बाहुलकाद्वा निर्वाहः करणीय इति च ज्ञेयम्।
  • ↑ ६। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात्, मकारान्तानामनिटां विकल्पेनानुनासिकलोपः। तेनानुनासिकलोपपक्षे तुकि, तदभावपक्षे च रूपद्वय- मत्रेति ज्ञेयम्।
  • ↑ ७। ण्यन्ताल्ल्यपि, मित्त्वपक्षे उपधाह्रस्वे, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।
  • ↑ [पृष्ठम्१०७४+ २६]
  • ↑ १। ण्यन्तात् मित्त्वपक्षे, ‘चिण्णमुलोः--’ (६-४-९३) इति दीर्घविकल्पनाद्रूपद्वयमिति बोध्यम्।
  • ↑ २। ‘अजियमिशीङ्भ्यश्च’ [द। उ। ५-६१]
  • ↑ ३। ‘गृधृवीपचिवचियमि--’ [द। उ। ८। ८९]
  • ↑ ४। ‘क्वुन् शिल्पिसंज्ञयोः--’ [द। उ। ३। ५]


यम परिवेषणे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- यमयति–ते (परिवेषणात् अन्यत्र ज्ञानज्ञापनमारणतोषणनिशामनेषु - यामयति)

अर्थ−
१. स्वाधीन गर्नु, काबुमा राख्नु,
२. पोषण गर्नु, खान दिनु ।

कृदन्तरूपमाला

  • 1“यम च परिवेषणे” 2 3 चुरादिषु ज्ञपादिपञ्चकधातुप्रकरणे ‘यम च परिवेषणे’ 4 इति पठ्यते।
  • तस्यायमर्थः--परिवेषणे = परिवेष्टनेऽर्थे यमधातुश्चुरादिषु बोध्यः;
  • तस्य च क्रमप्राप्तो मित्त्वादिस्तु भवतीति।
  • परिवेषणभिन्नार्थे तु औत्स- र्गिके भ्वादिपाठे, तस्माद्धेतुमण्णिचि नियामयति, नियामकः इत्यादिकानि रूपाणि तिङन्तादिषु भवन्तीति ज्ञेयम्।
  • ‘यम च--’ इति दुर्गादिसम्मतः पाठः।
  • चकाररहितपाठस्तु क्षीरतरङ्गिणीदृष्टः।
  • ‘अपरिवेषणे’ इत्यपि केषाञ्चित्पाठ इति क्षीरतरङ्गिण्यादितो ज्ञायते;
  • स च पाठः पुरुषकार- माधवधातुवृत्तिप्रभृतिषु खण्डित इत्यलम्।
  • परिवेषणम् = वेष्टनम्।
  • भ्वादिषु पठितस्य ‘यमोऽपरिवेषणे’ इत्यस्य तु ‘परिवेषणम् = भोजनम्’ इत्यर्थ इति बोध्यम्। ‘यमेरुपरमे यच्छेत् यमयेत् परिवेषणे।’ 5 इति देवः।
  • यमकः-यमिका, यियमयिषकः-षिका, यमयिता-त्री, यियमयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचहयतिवत् 6 ज्ञेयानि।
  • शतरि 7 सुयमयन्।

प्रासङ्गिक्यः

  • ↑ (१३४१)
  • ↑ (१०-चुरादिः-१६२६। सक। सेट्। उभ।)
  • ↑ [अ]
  • ↑ (ग। सू। चुरादौ)
  • ↑ (श्लो। १४८)
  • ↑ (५१५)
  • ↑ आ। ‘चण्डातकं सुयमयन् चहको बभाषे।’ धा। का। ३-२५।



Correction: