संस्कृत-शब्दकोशः

यियासु युक्त

यु

यु जुगुप्सायाम्


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- यावयते

अर्थ−
१. अपमान गर्नु, दोष लगाउनु, निन्दा गर्नु ।

कृदन्तरूपमाला

  • 1“यु जुगुप्सायाम्” 2 आकुस्मीयः।
  • ‘यावयेत जुगुप्सायाम्, मिश्रणे यौति, बन्धने।
  • युनाति च युनीते च…।।’ 3 इति देवः।
  • “-- ‘युजु कुत्सायाम्’ इत्येके--योजयते” इति क्षीरस्वामी।
  • यावकः-विका, युयावयिषकः-षिका, यावयिता-त्री, युयावयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककोटयतिवत् 4 ज्ञेयानि।
  • ल्युटि--यावनम् 5।

प्रासङ्गिक्यः

  • ↑ (१३४६)
  • ↑ (१०-चुरादिः-१७११। अक। सेट्। आत्म।)
  • ↑ (श्लो। २४)
  • ↑ (२०५)
  • ↑ आ। ‘निर्यावनः कुयुधि कुस्मयमान आस्त।।’ धा। का। ३-३७।


यु मिश्रणामिश्रणयोः


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- यौति

अर्थ−
१. मिसाउनु, मिलाउनु,
२. सम्मिलित हुनु,
३. पृथक्-पृथक् गर्नु, छुट्याउनु ।

कृदन्तरूपमाला

  • 1“यु मिश्रणे” 2 ‘-- अमिश्रणे च’ इत्यपि क्वचित् पाठः।
  • ‘यावयेत जुगुप्सायाम्, मिश्रणे यौति, बन्धने।
  • युनाति च युनीते च-- …।।’ 3 इति देवः।
  • यावकः-विका, यावकः-विका, 4 यियविषकः-युयूषकः-षिका, 5 योयूयकः-यिका;
  • 6 यविता-त्री, यावयिता-त्री, यियविषिता-युयूषिता-त्री, योयूयिता-त्री;
  • 7 युवन्-ती, यावयन्-न्ती, यियविषन्-युयूषन्-न्ती;
  • -- यविष्यन्-न्ती-ती, यावयिष्यन्-न्ती-ती, यियविषिष्यन्-युयूषिष्यन्-न्ती-ती;
  • -- -- यावयमानः, -- योयूयमानः;
  • -- यावयिष्यमाणः, -- योयूयिष्यमाणः;
  • नियुत्-नियुतौ-नियुतः;
  • -- -- -- 8 युतम्-युतः-युतवान्, यावितः, यियविषितः-युयूषितः, योयूयितः-तवान्;
  • 9 यवः-यवानी, 10 यवनः-यवनानी, यवनी, 11 यवकः, यावः, यावकः, 12 यावकम्, यावः, यियविषुः 13 -युयूषुः- 14 यियावयिषुः, योयुवः;
  • यवितव्यम्, यावयितव्यम्, यियविषितव्यम्-युयूषितव्यम्, योयूयितव्यम्;
  • 15 प्रयवणीयम्, प्रणियवनीयम्-प्रनियवनीयम्, 16 प्रयावनीयम्-प्रयावणीयम्, यियविषणीयम्-युयूषणीयम्, योयूयनीयम्;
  • 17 18 याव्यम्, याव्यम्, यियविष्यम्-युयूष्यम्, योयूय्यम्;
  • ईषद्यवः-दुर्यवः-सुयवः;
  • -- -- -- 19 यूयमानः, याव्यमानः, यियविष्यमाणः-युयूष्यमाणः, योयूय्यमानः;
  • 20 प्रयवः, 21 संयावः, 22 उद्यावः, 23 उद्यावः, 24 यवः, 25 योत्रम्, 26 यौत्रम्, यावः, यियविषः, युयूषः, योयूयः;
  • यवितुम्, यावयितुम्, यियविषितुम्-युयूषितुम्, योयूयितुम्;
  • 27 यूतिः, यावना, यियविषा-युयूषा, योयूया;
  • यवनम्, यावनम्, यियविषणम्-युयूषणम्, योयूयनम्;
  • युत्वा, यावयित्वा, यियविषित्वा-युयूषित्वा, योयूयित्वा;
  • प्रयुत्य, 28 प्रयूय, प्रयाव्य, प्रयियविष्य-प्रयुयूष्य, प्रयोयूय्य;
  • 29 यावम् २, युत्वा २, यावम् २, यावयित्वा, यियविषम् २, यियविषित्वा २, योयूयम् २;
  • योयूयित्वा २;
  • 30 इति निप्रत्ययः।
  • युवन्त्यस्यामिति योनिः। योनिः, 31 इति कन्प्रत्ययः, धातोः दीर्घश्च भवति।
  • यूकः = क्षुद्रजन्तुः। यूकः-यूका, 32 इति थक्प्रत्यये निपात्यते।
  • निपातनादेव धातोर्दीर्घश्च।
  • यूथः = गजादिसंघातः। यूथः, 33 इति कनिन्प्रत्ययः।
  • यौति, यूयते वा इति युवा।
  • स्त्रियाम्, ‘यूनस्तिः’ 34 इति तिप्रत्यये युवतिः। युवा-युवतिः, 35 इति पप्रत्ययः दीर्घश्च।
  • यूपः = यज्ञपशुबन्धनकाष्ठः। यूपः, 36 इति ऊषन्प्रत्यये, धातूकारस्य लोपे च रूपम्।
  • यूषः = व्यञ्जनम्।
  • मण्डम् च इति केचित्। यूषः, 37 सप्रत्यये रूपम्।
  • योषा = योषित्। योषा, 38 इत्यागूच्प्रत्यये रूपम्।
  • यवागूः = पेया। यवागूः।

प्रासङ्गिक्यः

  • ↑ (१३४५)
  • ↑ (२-अदादिः-१०३३। सक। सेट्। पर।)
  • ↑ (श्लो। २४)
  • ↑ ७। ‘इमांस्तु सेटः प्रवदन्ति तद्विदः।… तथोर्णोतिमथो युणुक्ष्णवः।’ (भाष्ये- ७-२-१०) इति व्याघ्रभूतिकारिकायामुपात्तत्वादस्य सेट्त्वम्। सन्नन्ते तु, ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभर--’ (७-२-४९) इति इड्विकल्पः। इट्पक्षे, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्येकारः। इडभावपक्षे झलादित्वात् सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।
  • ↑ ८। यङन्ते सर्वत्रोत्तरखण्डे, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। पूर्व- खण्डे गुणः।
  • ↑ [पृष्ठम्१०७९+ २६]
  • ↑ आ। ‘पृक्ताग्रजः पृञ्जितगोपसूनुर्दृष्टोऽब्धिशायी स जनैर्युवद्भिः।।’ धा। का। २-४६।
  • ↑ १। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः। क्त्वा-क्तिन्प्रभृतिषु तु ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेध इति विशेषः।
  • ↑ २। पचादित्वात् (३-१-१३४) अच्प्रत्ययः। स्त्रियाम्, ‘इन्द्रवरुणभवशर्वरुद्रमृडहिमा- रण्ययव--’ (४-१-४९) इत्यादिना आनुगागमे ङीषि च यवानी इति सम्पद्यते। एतच्च, ‘यवाद् दोषे’ (वा। ४-१-४९) इति वचनाद् दुष्टे यवे स्त्रीत्वेन विवक्षित एवेति ज्ञेयम्। अन्यत्र तु टापि यवा इति।
  • ↑ ३। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। स्त्रियाम्, ‘इन्द्रवरुणभवशर्वरुद्रमृडहि- मारण्ययवयवन--’ (४-१-४९) इत्यादिना ‘यवनाल्लिप्याम्’ (वा। ४-१-४९) इति वचनेन यवनलिप्यां विवक्षितायामानुगागमो ङीष् च भवतः। पुंयोगलक्षणे ङीषि तु यवनी इति सम्पद्यते।
  • ↑ ४। यव एव यवकः, स्वार्थे कन्। प्रज्ञादित्वात् स्वार्थेऽण्प्रत्यये यावः।
  • ↑ ५। ‘संज्ञायाम्’ (३-३-१०९) इति ण्वुलि रूपमेवम्। यावकम् = रञ्जनसाधनीभूतो रसविशेषः। अत्र ण्वुलः स्त्र्यधिकारविहितत्वेऽपि ‘लिङ्गमविवक्षितं लोकाश्रितत्वा- ल्लिङ्गस्य’ इति न्यायेन नपुंसकलिङ्गमिति ज्ञेयम्।
  • ↑ B। ‘संयुयूषुं दिशो बाणैरक्षं यियविषुर्द्रुमैः।’ भ। का। ९-३५।
  • ↑ ६। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इति अभ्यासेकारः।
  • ↑ ७। ‘कृत्यचः’ (८-४-२९) इति णत्वम्। प्रणियवनीयम्-प्रनियवनीयम् इत्यत्र तु, ‘शेषे विभाषा--’ (८-४-१८) इति णत्वविकल्पः।
  • ↑ ८। ‘णेर्विभाषा’ (८-४-३०) इति णत्वविकल्पः।
  • ↑ [पृष्ठम्१०८०+ २६]
  • ↑ १। ‘आसुयुवपि--’ (३-१-१२६) इति ण्यत्। अजन्तलक्षणयतोऽपवादः। ‘धातोस्तन्निमित्तस्यैव’ (६-१-८०) इत्यावादेशः। आवश्यकार्थेऽपि, ‘ओरावश्यके’ (३-१-१२५) इति ण्यति एवमेव रूपम्।
  • ↑ २। यकि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।
  • ↑ ३। ‘ॠदोरप्’ (३-३-५७) इत्यप्प्रत्ययः भावे।
  • ↑ ४। ‘समि युद्रुदुवः’ (३-३-२३) इति सम्युपपदे करणे घञ्। संयावः = पिष्टविकारोऽपूपविशेषः।
  • ↑ ५। ‘उदि श्रयतियौतिपूद्रुवः’ (३-३-४९) इति घञ्।
  • ↑ ६। ‘अध्यायन्यायोद्यावसंहाराश्च’ (३-३-१२२) इति संज्ञायां करणाधिकरणयोर्घञि निपात्यते। उद्यावः = भक्ष्यविशेषः।
  • ↑ ७। यौति अत्र रसादिकमिति यवः = धान्यविशेषः। ‘पुंसि संज्ञायां घः--’ (३-३-११८) इति संज्ञायां घप्रत्ययः।
  • ↑ ८। ‘दाम्नीशसयुयुज--’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्ययः। यूयतेऽनेनेति योत्रम् = गोपालकानां करे स्थितो दण्डविशेषः।
  • ↑ ९। ‘उणादयो बहुलम्’ (३-३-१) इति ष्ट्रन्प्रत्यये, ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धिरिति काशिका (७-२-११५)।
  • ↑ १०। स्त्रियां क्तिनि, ‘श्र्युकः क्किति’ (७-२-११) इति इण्निषेधे, ‘ऊतियूतिजूति- सातिहेतिकीर्तयश्च’ (३-३-९७) इति निपातनात् दीर्घः, अन्तोदात्तत्वं च। यूतिः = संघः, एकत्र समेषां समागमः। गव्यूतिः = क्रोशयुगम्।
  • ↑ ११। छन्दसि विषये ल्यपि, ‘युप्लुवोदीर्घः--’ (६-४-५८) इति दीर्घ इति ज्ञेयम्। लोके तु तुकि प्रयुत्य इति भवति।
  • ↑ [पृष्ठम्१०८१+ २७]
  • ↑ १। ‘वहिश्रियु--’ [द। उ। १-२१]
  • ↑ २। ‘अजिसुयु--’ [द। उ। ३-२४]
  • ↑ ३। ‘तिथपृष्ठगूथयूथप्रोथाः’ [द। उ। ६-३७]
  • ↑ ४। ‘कनिन् युवृषि--’ [द। उ। ६-५१]
  • ↑ (४-१-७७)
  • ↑ ५। ‘कुसुयुभ्यश्च’ [द। उ। ७-५]
  • ↑ ६। ‘मूङ्य्व्योर्लोपश्च’ [द। उ। ९-१७]
  • ↑ ७। औणादिके [द। उ। ९-२१]
  • ↑ ८। ‘सृयु--’ [द। उ। १०-४]


युञ् बन्धने


गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- युनाति–युनीते

अर्थ−
१. बाँध्नु, बन्धन गर्नु,,
२. गाँस्नु, उन्नु ।

कृदन्तरूपमाला

  • 1“युञ् बन्धने” 2 ‘यावयेत जुगुप्सायाम, मिश्रणे यौति, बन्धने।
  • युनाति च युनीते च…।।’ 3 इति देवः।
  • यावकः-विका, यावकः-विका, 4 युयूषकः-षिका, 5 यियावयिषकः-षिका, योयूयकः-यिका;
  • योता-योत्री, यावयिता-त्री, युयूषिता-यियावयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककवतिवत् 6 ज्ञेयानि।
  • 7 8 युनन् 9 -ती, युनानः, इति सार्वधातुके रूपमिति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३५२)
  • ↑ (९-क्र्यादिः-१४७९। सक। अनि। उभ।)
  • ↑ (श्लो। २४)
  • ↑ ७। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृथूर्णुभरज्ञपिसनाम्’ (७-२-४९) इत्यत्र ऊर्णुञ्साहचर्यात्, ‘निरनुबन्धकग्रहणे न सानुबन्धकस्य’ (परि-८३) इति वचनबलाच्च नास्य धातो- र्ग्रहणमिति अनिट्त्वमेवास्येति बोध्यम्। तेन सन्नन्ते सर्वत्र सनः कित्त्वे दीर्घे च एवं रूपम्।
  • ↑ ८। णिजन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्येकारोऽत्रापि धातौ भवतीति प्रदर्शनार्थं तत्र रूपमुपात्तम्।
  • ↑ (१९८)
  • ↑ [पृष्ठम्१०८६+ ३०]
  • ↑ १। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, प्रत्ययस्य ङित्त्वेनाङ्गस्य गुणनिषेधे चैवं रूपम्। शान- जन्तेऽपि प्रक्रियैवमूह्या।
  • ↑ आ। ‘मोदस्कुतोऽथ कबरीं प्रयुनन् स रामः…।।’ धा। का। ३। ५।



Correction: