संस्कृत-शब्दकोशः

रिःफ रिवि

रिफ्

रिफ कत्थनयुद्धनिन्दाहिंसादानेषु


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रिफति

अर्थ−
१. बोल्नु, भन्नु,
२. युद्ध गर्नु, लडाईँ गर्नु, झगडा गर्नु,
३. दोष लगाउनु, निन्दा गर्नु,
४. दुःख दिनु, सताउनु,
५. दिनु, दान गर्नु
६. आत्मप्रशंसा गर्नु, आफ्नो स्तुतिगान गर्नु ।,

कृदन्तरूपमाला

  • 1“रिफ कत्थनयुद्धनिन्दाहिंसादानेषु” 2 ‘ऋफ--’ इति क्षीरस्वामी।
  • “… ‘रिह इति द्रमिडाः--इति स्वामी।
  • अनिट्कारिकासु 3 वामनश्च-- ‘रिहिलुही धातुषु न पठ्येते।
  • कैश्चिदभ्युपगम्येते’ इति।
  • अत्र न्यासे-- ‘कैश्चिदिति।
  • आपिशलिप्रभृतिभिः।’ इति।
  • तस्मात् तावपि स्त एव।
  • प्रयुज्यते च -- ‘शिशुं न विप्रा मतिभी रिहन्ति।’ इति।” इति माधवधातुवृत्तिः।
  • अत्रोपात्तः स्वामी न क्षीरस्वामी, अपितु अन्य इति ज्ञेयम्।
  • 4 रेफकः-फिका, रेफकः-फिका, रिरेफिषकः-रिरिफिषकः-षिका, रेरिफकः-फिका;
  • रेफिता-त्री, रेफयिता-त्री, रिरेफिषिता-रिरिफिषिता-त्री, रेरिफिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 5 बोद्ध्यानि।
  • 6 रेफित्वा।
  • 7 रेफः।

प्रासङ्गिक्यः

  1. ↑ (१४०५)
  2. ↑ (६-तुदादिः-१३०६। सक। सेट्। पर।)
  3. ↑ (काशिका ७-२-१०)
  4. ↑ [पृष्ठम्१११९+ २६]
  5. ↑ (१९३)
  6. ↑ १। अत्र, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् रूपमेकमेवेति माधवधातु- वृत्तिः। ‘रलो व्युपधात् हलादेः संश्च’ (१-२-२६) इति कित्त्वविकल्पे तु रिफित्वा रेफित्वा इति रूपद्वयं भवेत्, तत्तु ‘नोपधात् थफान्ताद् वा’ (१-२-२३) इत्यत्र नोपधादेवेति नियमाश्रयणात् नेति माधवाशयः। वस्तुतस्तु ‘प्रकल्प्य चापवाद- विषयं तत उत्सर्गोऽभिनिविशते’ (परि। ६४) इति न्यायेन इकारोकारोपधधातुषु विषये परत्वात् अपवादत्वाच्च ‘रलो व्युपधात्--’ (१-२-२६) इत्यस्य प्रवृत्तेरनिवार्य- तया, रिफित्वा इति पाक्षिकरूपस्य सिद्ध्यर्थं च सन्नन्ते इव कित्त्वविकल्प एव न्याय्यः। नियमाश्रयणे च न किञ्चिद् बीजं दृश्यते। विस्तरस्त्वन्यश्रेत्यत्रालम्।
  7. ↑ २। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। रेफः = अधमः। धात्वर्थोऽत्र निन्दा।


Correction: