संस्कृत-शब्दकोशः

रिष रिष्ट

रिष्

रिष हिंसायाम्


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रिष्यति

अर्थ−
१. मार्नु, दुःख दिनु, मार्ने प्रयास गर्नु ।

कृदन्तरूपमाला

  • 1“रिष हिंसायाम्” 2 3 “इह केचित् ‘रिष हिंसायां च’ इति पठन्ति।
  • ‘न रिष्यति न व्यथते’ इत्यादयश्च प्रयोगा दृश्यन्ते।
  • आत्रेयमैत्रेयादयस्तु न पेठुः” इति मा।
  • धा।
  • वृत्तिः।
  • क्षीरतरङ्गिण्याम् अयं धातुः दिवादिषु न दृश्यते।
  • परं तु भ्वादौ ‘दिवादौ रिष्यति।’ इति क्षीरस्वामिनैवोक्तम्।
  • तेन दिवादिषु पठितोऽप्य- धुना भ्रष्टः स्यादिति भाति।
  • सिःकौमुद्यादिषु तु स्वतन्त्रेण पठ्यते। रेषकः-षिका, रेषकः-षिका, रिरिषिषकः-रिरेषिषकः-षिका, रेरिषकः-षिका;
  • 4 रेषिता-रेष्टा-ष्टी, रेषयिता-त्री, रिरिषिषिता-रिरेषिषिता-त्री, रेरिषिता-त्री;
  • इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिकरेषतिवत् 5 बोध्यानि।
  • शतरि-रिष्यन्-न्ती-ती, इति विशेषः।

प्रासङ्गिक्यः

  1. ↑ (१४०९)
  2. ↑ (४-दिवादिः-१२३१। सक। सेट्। पर।)
  3. ↑ [अ]
  4. ↑ १। ‘तीषसहलुभरुषरिषः’ (७-२-४८) इत्यत्र विशेषाभावात् दैवादिकस्यास्यापि ग्रहणम्। तेनेड्विकल्पः। ‘यथालक्षणमप्रयुक्ते’ इति भाष्यन्यायमाश्रित्यैवमुक्तम्। ‘यथा- ऽलक्षणमप्रयुक्ते’ इति भाष्यपाठाश्रयणे तु (अप्रयुक्तस्थले लक्षणस्याभाव एवेत्य- धुनाऽर्थः।) इड्विकल्पाभाव एवेति बोध्यम्।
  5. ↑ (१४०८)

रिष हिंसायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रेषति

अर्थ−
१. मार्नु, दुःख दिनु, मार्ने प्रयास गर्नु ।

कृदन्तरूपमाला

  • 1“रिष हिंसार्थः” 2 रेषकः-षिका, रेषकः-षिका, 3 रिरिषिषकः-रिरेषिषकः-षिका, रेरिषकः-षिका;
  • 4 5 रेषिता-त्री- 6 रेष्टा-रेष्ट्री, रेषयिता-त्री, रिरिषिषिता-रिरेषिषिता-त्री, रेरिषिता-त्री;
  • रेषन्-न्ती, रेषयन्-न्ती, रिरिषिषन्-रिरेषिषन्-न्ती;
  • -- रेषिष्यन्-न्ती-ती, रेषयिष्यन्-न्ती-ती, रिरिषिषिष्यन्-रिरेषिषिष्यन्-न्ती-ती;
  • -- -- रेषयमाणः, रेषयिष्यमाणः, रेरिष्यमाणः, रेरिषिष्यमाणः;
  • रिट्-रिड्-रिषौ-रिषः;
  • -- -- -- 7 रिष्टम्-ष्टः, रेषितः, रिरिषिषितः-रिरेषिषितः, रेरिषितः-तवान्;
  • रेषः, 8 रेषणः, 9 अरिष्टः, 10 रेट्-रेषौ-रेषः, रेषः, रिषिषिषुः-रिरेषिषुः, रेरेषः;
  • रेषितव्यम्-रेष्टव्यम्, रेषयितव्यम्, रिरिषिषितव्यम्-रिरेषिषितव्यम्, रेरिषितव्यम्;
  • रेषणीयम्, रेषणीयम्, रिरिषिषणीयम्-रिरेषिषणीयम्, रेरिषणीयम्;
  • रेष्यम्, रेष्यम्, रिरिषिष्यम्-रिरेषिष्यम्, रेरिष्यम्;
  • ईषद्रेषः-दूरेषः-सुरेषः;
  • -- -- -- रिष्यमाणः, रेष्यमाणः, रिरिषिष्यमाणः-रिरेषिष्यमाणः, रेरिष्यमाणः;
  • रेषः, रेषः, रिरिषिषः-रिरेषिषः, रेरिषः;
  • रेषितुम्-रेष्टुम्, रेषयितुम्, रिरिषिषितुम्-रिरेषिषितुम्, रेरिषितुम्;
  • रिष्टिः, रेषणा, रिरिषिषा-रिरेषिषा, रेरिषा;
  • रेषणम्, रेषणम्, रिरिषिषणम्-रिरेषिषणम्, रेरिषणम्;
  • 11 रिषित्वा-रेषित्वा-रिष्ट्वा, रेषयित्वा, रिरिषिषित्वा-रिरेषिषित्वा, रेरिषित्वा;
  • प्ररिष्य, प्ररेष्य, प्ररिरिषिष्य-प्ररिरेषिष्य, प्ररेरिष्य;
  • 12 रेषम् २, रिषित्वा २, रेषित्वा २, रिष्ट्वा २, रेषम् २ रेषयित्वा २ रिरिषिषम् २ -रिरेषिषम् २, रिरिषिषित्वा २ -रिरेषिषित्वा २, रेरिषम् २;
  • रेरिषित्वा २।

प्रासङ्गिक्यः

  1. ↑ (१४०८)
  2. ↑ (१-भ्वादिः-६९४। सक। सेट्। पर।)
  3. ↑ ३। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पः। तेन रूपद्वयम्।
  4. ↑ [पृष्ठम्११२०+ २४]
  5. ↑ १। ‘तीषसहलुभरुषरिषः’ (७-२-४८) इति तकारादावार्धधातुके इड्विकल्पः। इडभाव- पक्षे ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारः।
  6. ↑ आ। ‘रेष्टारं रेषितुं व्यास्यत् रोष्टाऽक्षः शस्त्रसंहतीः।।’ भ। का। ९। ३१।
  7. ↑ २। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः।
  8. ↑ ३। बाहुलकेन नन्द्यादित्वकल्पनात् कर्तरि ल्युप्रत्ययः।
  9. ↑ ४। ‘क्तिच्क्तौ च--’ (३-३-१७४) इति संज्ञायां क्तः। अरिष्टः = अनिष्टादिकम्।
  10. ↑ ५। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विच्। गुणः।
  11. ↑ ६। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। ‘तीषसहलुभरुषरिषः’ (७-२-४८) इति इड्विकल्पश्च। तेनात्र रूपत्रयम्।
  12. ↑ [पृष्ठम्११२१+ २५]


Correction: