रेवृ
रेष
रेव्
रेवृ प्लवगतौ
गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- रेवते
अर्थ−
१. उडेर जानु, उफ्रेर जानु,
२. तैरिएर पारी तर्नु, पौडिएर जानु,
३. नदीझैँ बहनु ।
कृदन्तरूपमाला
- 1“रेवृ प्लवगतौ” 2 3 “अत्र मैत्रेयः ‘प्लव’ इति धात्वन्तरमाह, तच्चिन्त्यम्, यदि हि स्यात् आप्लाव- शब्दस्यास्मात् घञि सिद्धौ तदर्थं ‘विभाषाऽऽङि रुप्लुवोः’ 4 इति प्लुवः पक्षे घञ्विधानमनर्थंकं स्यात्।
- तथा प्लुङो णौ वृद्ध्यावादेशयोश्चङि णौ कृतस्य स्थानिवत्त्वात् प्लुशब्दस्य द्विरुक्तावपुप्लुवदिति नित्ये प्राप्ते पक्षे अपिप्ल- वदिति सिद्ध्यर्थं ‘स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा’ 5 इति उकारस्येत्त्वविधानमनर्थकं स्यादिति।
- सति ह्यस्मिन्ननेनैवापिप्लवत् इति भविष्यति।
- अत एव किलापरितुष्यन् मैत्रेयोऽपि “प्लव इत्येके’ इत्याह” इति माधवधातुवृत्तिवाक्यमिहानुसन्धेयम्। ‘प्लवगतिः = प्लुतिगतिः =’ इति मा।
- धा।
- वृत्तौ।
- ‘-- प्लुतिगतौ’ इति क्षीरस्वामी।
- रेवकः-विका, रेवकः-विका, रिरेविषकः-षिका, रेरेवकः-विका;
- 6 रेविता-त्री, रेवयिता-त्री, रिरेविषिता-त्री, रेरेविता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 7 ज्ञेयानि।
- 8 रेवः-रेवा, 9 रेवणः इमानि अधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः