लजि
लज्जका
लज्
ओलजी व्रीडायाम्
गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लजते
अर्थ−
१. लज्जित हुनु, मुख छोप्नु, मुख लुकाउनु ।
कृदन्तरूपमाला
- 1“ओ लजी व्रीडायाम्” 2 ‘प्रकाशे लजयेद् व्रीळे3लज्जते लजते पदे।।’ 4 इति देवः।
- “अयं तवर्गपञ्चमादिः इति चान्द्राः” इति मा।
- धा।
- वृत्तिः।
- लाजकः-जिका, लाजकः-जिका, लिलजिषकः-षिका, लालजकः-जिका;
- लजिता-त्री, लाजयिता-त्री, लिलजिषिता-त्री, लालजिता-त्री;
- -- लाजयन्-न्ती, लाजयिष्यन्-न्ती-ती;
- -- -- लजमानः, लाजयमानः, लिलजिषमाणः, लालज्यमानः;
- लजिष्यमाणः, लाजयिष्यमाणः, लिलजिषिष्यमाणः, लालजिष्यमाणः;
- लक्-लजौ-लजः;
- -- -- -- 5 6 लग्नम्-लग्नः-लग्नवान्, लाजितः, लिलजिषितः, लालजितः-तवान्;
- लजः, लाजः, लिलजिषुः, लालजः;
- लजितव्यम्, लाजयितव्यम्, लिलजिषितव्यम्, लालजितव्यम्;
- लजनीयम्, लाजनीयम्, लिलजिषणीयम्, लालजनीयम्;
- लाज्यम्, लाज्यम्, लिलजिष्यम्, लालज्यम्;
- ईषल्लजः-दुर्लजः-सुलजः;
- -- -- लज्यमानः, लाज्यमानः, लिलजिष्यमाणः, लालज्यमानः;
- लाजः, लाजः, लिलजिषः, लालजः;
- लजितुम्, लाजयितुम्, लिलजिषितुम्, लालजितुम्;
- लक्तिः, लाजना, लिलजिषा, लालजा;
- लजनम्, लाजनम्, लिलजिषणम्, लालजनम्;
- प्रलज्य, प्रलाज्य, प्रलिलजिष्य, प्रलालज्य;
- लाजम् २, लजित्वा २, लाजम् २, लाजयित्वा २, लिलजिषम् २, लिलजिषित्वा २, लालजम् २;
- लालजित्वा २।
प्रासङ्गिक्यः
लज भासायाम्, भाषायाम् वा
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लाजयति–ते
अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु ।
कृदन्तरूपमाला
लज अपवारणे
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लाजयति–ते
अर्थ−
१. ढाक्नु, छोप्नु,
२. हटाउनु ।
कृदन्तरूपमाला
- 1“लज अपवारणे” 2 3 ‘जल--’ इति नन्दिसम्मताकारयोः पाठ इति क्षीरतरङ्गिणी-माधवधा- तुवृत्तितो ज्ञायते।
- चान्द्रा अपि ‘जल--’ इत्येव पठन्तीति च क्षीर- स्वामी। ‘प्रकाशे लजयेद् व्रीडे लज्जते लजते पदे।।’ 4 इति देवः।
- लाजकः-जिका, लिलाजयिषकः-षिका, लाजयिता-त्री, लिलाजयिषिता-त्री;
- इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचाटयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
लज प्रकाशने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लजयति–ते
अर्थ−
१. प्रकट हुनु, स्पष्ट हुनु ।
कृदन्तरूपमाला
- 1“लज प्रकाशने” 2 अदन्तः।
- 3 अत्र ‘लजि--’ इति मैत्रेयक्षीरस्वामिप्रभृतयः पठन्ति।
- ‘अदन्तेषु पाठ- बलादद4 न्तत्वे वृद्धिः इत्यपरे’ इति मा।
- धा।
- वृत्तिः।
- शाकटायनस्तु कथादीनां सर्वेषां ण्यन्ते पुकमाह।
- तन्मते लञ्जापयति इति रूपं भवति।
- ण्वुलि लञ्जापकः-पिका, तृचि-लञ्जापयिता-त्री इत्येवमादीनि रूपाणि ज्ञेयानि। ‘प्रकाशे लजयेद्, व्रीडे लज्जते लजते पदे।।’ 5 इति देवः।
- लजकः-जिका, लिलजयिषकः-षिका;
- लजयिता-त्री, लिलजयिषिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककलयतिवत् 6 ऊह्यानि।
- लजयन् 7 इति शतरि रूपम्।
- ल्यपि--संलजय्य, संलिलजयिष्य इति विशेषः।
प्रासङ्गिक्यः
लज भर्जने
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लजति
अर्थ−
१. भुट्नु, तार्नु ।
भर्त्सने-
१. अपमान गर्नु, धिक्कार्नु ।
कृदन्तरूपमाला
- 1“लज भर्त्सने” 2 ‘-- भर्जने’ इति मा।
- धा।
- वृत्तिः।
- पुरुषकारोऽप्यत्र अनुकूलः।
- ‘भर्जने चेति लीलाशुकः’ इति धा।
- का।
- १-३२। ‘लञ्जेत् लाञ्जेत् लजेत् लाजेत् इत्येते भर्त्सने शपि।’ 3 इति देवः।
- लाजकः-जिका, लाजकः-जिका, लिलजिषकः-षिका, लालजकः-जिका;
- लजिता-त्री, लाजयिता-त्री, लिलजिषिता-त्री, लालजिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकखदतिवत् 4 बोध्यानि।
- ‘लजु--’ 5 इत्यपि शाकटायनः।
- तन्मते क्त्वायां इड्विकल्पात् लजित्वा-लक्त्वा इति रूपद्वयमिति विशेषः।
- यदा तु भर्जनार्थकत्वम्, तदानीं संज्ञायां घञि लाजाः इति भवति।
- ‘लाजाः पुंभूम्नि चाक्षताः’ 6 इत्यनुशासनात् नित्यं बहुवचनान्तत्वं च इति ज्ञेयम्।
प्रासङ्गिक्यः