संस्कृत-शब्दकोशः

लजि लज्जका

लज्

ओलजी व्रीडायाम्


गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लजते

अर्थ−
१. लज्जित हुनु, मुख छोप्नु, मुख लुकाउनु ।

कृदन्तरूपमाला

  • 1“ओ लजी व्रीडायाम्” 2 ‘प्रकाशे लजयेद् व्रीळे3लज्जते लजते पदे।।’ 4 इति देवः।
  • “अयं तवर्गपञ्चमादिः इति चान्द्राः” इति मा।
  • धा।
  • वृत्तिः।
  • लाजकः-जिका, लाजकः-जिका, लिलजिषकः-षिका, लालजकः-जिका;
  • लजिता-त्री, लाजयिता-त्री, लिलजिषिता-त्री, लालजिता-त्री;
  • -- लाजयन्-न्ती, लाजयिष्यन्-न्ती-ती;
  • -- -- लजमानः, लाजयमानः, लिलजिषमाणः, लालज्यमानः;
  • लजिष्यमाणः, लाजयिष्यमाणः, लिलजिषिष्यमाणः, लालजिष्यमाणः;
  • लक्-लजौ-लजः;
  • -- -- -- 5 6 लग्नम्-लग्नः-लग्नवान्, लाजितः, लिलजिषितः, लालजितः-तवान्;
  • लजः, लाजः, लिलजिषुः, लालजः;
  • लजितव्यम्, लाजयितव्यम्, लिलजिषितव्यम्, लालजितव्यम्;
  • लजनीयम्, लाजनीयम्, लिलजिषणीयम्, लालजनीयम्;
  • लाज्यम्, लाज्यम्, लिलजिष्यम्, लालज्यम्;
  • ईषल्लजः-दुर्लजः-सुलजः;
  • -- -- लज्यमानः, लाज्यमानः, लिलजिष्यमाणः, लालज्यमानः;
  • लाजः, लाजः, लिलजिषः, लालजः;
  • लजितुम्, लाजयितुम्, लिलजिषितुम्, लालजितुम्;
  • लक्तिः, लाजना, लिलजिषा, लालजा;
  • लजनम्, लाजनम्, लिलजिषणम्, लालजनम्;
  • प्रलज्य, प्रलाज्य, प्रलिलजिष्य, प्रलालज्य;
  • लाजम् २, लजित्वा २, लाजम् २, लाजयित्वा २, लिलजिषम् २, लिलजिषित्वा २, लालजम् २;
  • लालजित्वा २।

प्रासङ्गिक्यः

  • ↑ (१४६२)
  • ↑ (६-तुदादिः-१२९०। अक। सेट्। आत्म।)
  • ↑ [डे]
  • ↑ (श्लो। ६८)
  • ↑ [पृष्ठम्११५०+ २५]
  • ↑ १। ईदित्त्वान्निष्ठायामिण्निषेधे, ओदित्त्वात् निष्ठानत्वे कुत्वे च रूपमेवम्।


लज भासायाम्, भाषायाम् वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लाजयति–ते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु ।

कृदन्तरूपमाला


लज अपवारणे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लाजयति–ते

अर्थ−
१. ढाक्नु, छोप्नु,
२. हटाउनु ।

कृदन्तरूपमाला

  • 1“लज अपवारणे” 2 3 ‘जल--’ इति नन्दिसम्मताकारयोः पाठ इति क्षीरतरङ्गिणी-माधवधा- तुवृत्तितो ज्ञायते।
  • चान्द्रा अपि ‘जल--’ इत्येव पठन्तीति च क्षीर- स्वामी। ‘प्रकाशे लजयेद् व्रीडे लज्जते लजते पदे।।’ 4 इति देवः।
  • लाजकः-जिका, लिलाजयिषकः-षिका, लाजयिता-त्री, लिलाजयिषिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचाटयतिवत् 5 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (१४५७)
  • ↑ (१०-चुरादिः-१५४३। सक। सेट्। उभ।)
  • ↑ [अ]
  • ↑ (श्लो। ६८)
  • ↑ (४८८)


लज प्रकाशने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लजयति–ते

अर्थ−
१. प्रकट हुनु, स्पष्ट हुनु ।

कृदन्तरूपमाला

  • 1“लज प्रकाशने” 2 अदन्तः।
  • 3 अत्र ‘लजि--’ इति मैत्रेयक्षीरस्वामिप्रभृतयः पठन्ति।
  • ‘अदन्तेषु पाठ- बलादद4 न्तत्वे वृद्धिः इत्यपरे’ इति मा।
  • धा।
  • वृत्तिः।
  • शाकटायनस्तु कथादीनां सर्वेषां ण्यन्ते पुकमाह।
  • तन्मते लञ्जापयति इति रूपं भवति।
  • ण्वुलि लञ्जापकः-पिका, तृचि-लञ्जापयिता-त्री इत्येवमादीनि रूपाणि ज्ञेयानि। ‘प्रकाशे लजयेद्, व्रीडे लज्जते लजते पदे।।’ 5 इति देवः।
  • लजकः-जिका, लिलजयिषकः-षिका;
  • लजयिता-त्री, लिलजयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककलयतिवत् 6 ऊह्यानि।
  • लजयन् 7 इति शतरि रूपम्।
  • ल्यपि--संलजय्य, संलिलजयिष्य इति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१४५८)
  • ↑ (१०-चुरादिः-१९२०। अक। सेट्। उभ।)
  • ↑ [आ]
  • ↑ (न?)
  • ↑ (श्लो। ६८)
  • ↑ (१७६)
  • ↑ आ। ‘धाम्नोच्चैर्लजयन् विमिश्रितजने रङ्गे…।।’ धा। का। ३। ६१।


लज भर्जने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लजति

अर्थ−
१. भुट्नु, तार्नु ।
भर्त्सने-
१. अपमान गर्नु, धिक्कार्नु ।

कृदन्तरूपमाला

  • 1“लज भर्त्सने” 2 ‘-- भर्जने’ इति मा।
  • धा।
  • वृत्तिः।
  • पुरुषकारोऽप्यत्र अनुकूलः।
  • ‘भर्जने चेति लीलाशुकः’ इति धा।
  • का।
  • १-३२। ‘लञ्जेत् लाञ्जेत् लजेत् लाजेत् इत्येते भर्त्सने शपि।’ 3 इति देवः।
  • लाजकः-जिका, लाजकः-जिका, लिलजिषकः-षिका, लालजकः-जिका;
  • लजिता-त्री, लाजयिता-त्री, लिलजिषिता-त्री, लालजिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकखदतिवत् 4 बोध्यानि।
  • ‘लजु--’ 5 इत्यपि शाकटायनः।
  • तन्मते क्त्वायां इड्विकल्पात् लजित्वा-लक्त्वा इति रूपद्वयमिति विशेषः।
  • यदा तु भर्जनार्थकत्वम्, तदानीं संज्ञायां घञि लाजाः इति भवति।
  • ‘लाजाः पुंभूम्नि चाक्षताः’ 6 इत्यनुशासनात् नित्यं बहुवचनान्तत्वं च इति ज्ञेयम्।

प्रासङ्गिक्यः

  • ↑ (१४५६)
  • ↑ (१-भ्वादिः-२३८। सक। सेट्। पर।)
  • ↑ (श्लो। ६९)
  • ↑ (३३८)
  • ↑ [पृष्ठम्११४८+ २६]
  • ↑ (अमरः २-९-४७)



Correction: