संस्कृत-शब्दकोशः

लिश लिष्ट

लिश्

लिश अल्पीभावे


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लिश्यते

अर्थ−
१. कम गर्नु, न्यून गर्नु ।

कृदन्तरूपमाला

  • 1“लिश अल्पीभावे” 2 ‘लिश्यते लिशतीत्येवमल्पीभावे गतौ क्रमात्।।’ 3 इति देवः।
  • लेशकः-शिका, लेशकः-शिका, लिलिक्षकः-क्षिका, लेलिशकः-शिका;
  • लेष्टा-ष्ट्री, लेशयिता-त्री, लिलिक्षिता-त्री, लेलिशिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकदिशतिवत् 4 बोध्यानि।
  • क्विपि-लिट्- लिड्-लिशौ-लिशः;
  • शानचि-लिश्यमानः 5 इति च विशेषः।
  • लिक्षा, अलिक्षम् = क्षुद्रजन्तुविशेषः।
  • 6

प्रासङ्गिक्यः

  • ↑ (१४८९)
  • ↑ (४-दिवादिः-११७९। अक। अनि। आत्म।)
  • ↑ (श्लो। १६५)
  • ↑ (८४१)
  • ↑ आ। ‘… शेषं व्यसृज्यत पटौघमलिश्यमानम्।।’ धा। का। २-६२।
  • ↑ [पृष्ठम्११६३+ २७]


लिश गतौ


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- लिशति

अर्थ−
१. जानु,,
२. आउनु ।

कृदन्तरूपमाला

  • 1“लिश गतौ” 2 ‘लिश्यते लिशतीत्येवमल्पीभावे गतौ क्रमात्।।’ 3 इति देवः।
  • 4 “तुदादिश्चायं 5 क्षीरस्वामिधनपालयोः।
  • ‘लिश गतौ’।
  • तुदादिः तयोरनुमतोऽयं पाठः।
  • द्विष्पाठस्त्वेवमर्थमेदान्नूनम्।
  • एवं तु ‘लिश गत्यल्पीभावयोः’ इत्यनुक्तिर्वैचित्र्यार्था” इति पुरुषकारोक्तमिहानुसन्धेयम्। लेशकः-शिका, लेशकः-शिका, लिलिक्षकः-क्षिका, लेलिशकः-शिका;
  • लेष्टा-लेष्ट्री, लेशयिता-त्री, लिलिक्षिता-त्री, लेलिशिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकदिशतिवत् 6 ऊह्यानि।

प्रासङ्गिक्यः

  • ↑ (१४९०)
  • ↑ (६-तुदादिः-१४२१। सक। अनि। पर।)
  • ↑ (श्लो। १६५)
  • ↑ [अ]
  • ↑ [‘--अल्पीभावे]
  • ↑ (८४१)



Correction: