संस्कृत-शब्दकोशः

लुण्ठी लुण्ड

लुण्ठ्

लुठि स्तेये


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुण्ठति

अर्थ−
१. चोर्नु ।

कृदन्तरूपमाला

  • 1“लुण्ठ स्तेये” 2 ‘… स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
  • धातुकाव्ये 4 ‘--अनादरे च द्रुमे’ इत्युपात्तम्।
  • ‘लुण्ठ लुण्ट’ इति टवर्गप्रथमान्तः, द्वितीयान्त इति चात्र मतद्वयम्।
  • ‘लुण्ड’ इत्यपि शाकटायनः।
  • पुरुषकारे टान्तपाठ एव साधुः, ठान्तो- ऽप्रामाणिक इति साग्रहं क्षीरस्वामिमतनिरासपूर्वकं प्रतिपादितम्।
  • माधव- प्रभृतयः ठान्तपाठमेव न्यासादिग्रन्थसंवादपुरस्सरं स्थापयामासुः।
  • ‘जल्पभिक्ष- कुट्टलुण्ट--’ 5 इत्यत्र सूत्रकारैः टान्तोऽथ वा ठान्तः पठितोऽयं धातुरित्यत्र नियामकं किमपि न दृश्यते।
  • उभयेऽपि स्वस्वमतानुसारेण टान्तं ठान्तं च सूत्रेऽपि पठन्ति।
  • ईदृशस्थलेषु ‘प्रयोग एव भगवान् तान् व्यवस्थापयेत् पथि’ इत्युक्तदिशा शिष्टप्रयोगस्योभयधाऽप्युपलम्भाद् वयं तूष्णीकाः।
  • लुण्ठकः-ण्ठिका, लुलुण्ठयिषकः-षिका, लोलुण्ठकः-ण्ठिका;
  • लुण्ठयिता-त्री, लुलुण्ठयिषिता-त्री, लोलुण्ठिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि चौरादिक- कुस्मयतिवत् 6 बोध्यानि।
  • 7--’ 8 इति षाकन्प्रत्यये रूपमेवम्।
  • षित्त्वात् स्त्रियां ङीषि लुण्ठाकी इति रूपम्। लुण्ठाकः-ठाकी, लुण्टाकः- 9 टाकी।

प्रासङ्गिक्यः

  • ↑ (१५०७)
  • ↑ (१०-चुरादिः-१५६३। सक। सेट्। उभ।)
  • ↑ (श्लो। ७४)
  • ↑ (३-१६)
  • ↑ (३-२-१५५)
  • ↑ (२३६)
  • ↑ १। तच्छीलादिषु कर्तृषु ‘जल्पभिक्षकुट्टलुण्ठ[ट]
  • ↑ (३-२-१५५)
  • ↑ आ। ‘त्रिभुवनतमोलुण्टाकीनामहो मिहिरत्विषा…।’ अनर्घराघवे २-७७।


लुठि आलस्ये प्रतिघाते च


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुण्ठति

अर्थ−
१. थाक्नु, अल्छी लाग्नु,
२. लङ्गडो हुनु, लन्ठ्याङ् लन्ठ्याङ् गर्नु,
३. रोक्नु ।

कृदन्तरूपमाला

  • 1“लुठि आलस्ये प्रतिघाते च” 2 ‘श्लेषालस्योपघातेषु प्रतिघाते क्रमाल्लुठेत्।
  • लुण्ठेत्, लोठति लोठेत किन्तु गत्यां च लुण्ठति।।’ 3 इति देवः।
  • अत्र क्षीरतरङ्गिण्यां ‘रुठि आलस्ये गतिप्रतिघाते च’ इत्येव दृश्यते।
  • अन्यत्र सर्वेषु कोशेषु ‘लुठि--’ इत्येव दृश्यते।
  • लुण्ठकः-ण्ठिका, लुण्ठकः-ण्ठिका, लुलुण्ठिषकः-षिका, लोलुण्ठकः-ण्ठिका;
  • लुण्ठिता-त्री, लुण्ठयिता-त्री, लुलुण्ठिषिता-त्री, लोलुण्ठिता-त्री;
  • इत्यादीनि रूपाणि सर्वाणि भौवादिककुण्ठतिवत् 4 ऊह्यानि।

प्रासङ्गिक्यः

  • ↑ (१५०५)
  • ↑ (१-भ्वादिः-३४३। सक। सेट्। पर।)
  • ↑ (श्लो। ७८)
  • ↑ (२०९)


लुठि गतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुण्ठति

अर्थ−
१. जानु, हल्लिँदै हिँड्नु ।

कृदन्तरूपमाला

  • 1“लुठि गतौ” 2 ‘… गत्यां च लुण्ठति।।’ 3 इति देवः।
  • लुण्ठकः-ण्ठिका, लुण्ठकः-ण्ठिका, लुलुण्ठिषकः-षिका, लोलुण्ठकः-ण्ठिका;
  • लुण्ठिता-त्री, लुण्ठयिता-त्री, लुलुण्ठिषिता-त्री, लोलुण्ठिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुण्ठतिवत् 4 ज्ञेयानि।
  • 5

प्रासङ्गिक्यः

  • ↑ (१५०६)
  • ↑ (१-भ्वादिः-३४६। सक। सेट्। पर।)
  • ↑ (श्लो। ७८)
  • ↑ (२०९)
  • ↑ [पृष्ठम्११७२+ २७]



Correction: