लुण्ठी
लुण्ड
लुण्ठ्
लुठि स्तेये
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुण्ठति
अर्थ−
१. चोर्नु ।
कृदन्तरूपमाला
- 1“लुण्ठ स्तेये” 2 ‘… स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
- धातुकाव्ये 4 ‘--अनादरे च द्रुमे’ इत्युपात्तम्।
- ‘लुण्ठ लुण्ट’ इति टवर्गप्रथमान्तः, द्वितीयान्त इति चात्र मतद्वयम्।
- ‘लुण्ड’ इत्यपि शाकटायनः।
- पुरुषकारे टान्तपाठ एव साधुः, ठान्तो- ऽप्रामाणिक इति साग्रहं क्षीरस्वामिमतनिरासपूर्वकं प्रतिपादितम्।
- माधव- प्रभृतयः ठान्तपाठमेव न्यासादिग्रन्थसंवादपुरस्सरं स्थापयामासुः।
- ‘जल्पभिक्ष- कुट्टलुण्ट--’ 5 इत्यत्र सूत्रकारैः टान्तोऽथ वा ठान्तः पठितोऽयं धातुरित्यत्र नियामकं किमपि न दृश्यते।
- उभयेऽपि स्वस्वमतानुसारेण टान्तं ठान्तं च सूत्रेऽपि पठन्ति।
- ईदृशस्थलेषु ‘प्रयोग एव भगवान् तान् व्यवस्थापयेत् पथि’ इत्युक्तदिशा शिष्टप्रयोगस्योभयधाऽप्युपलम्भाद् वयं तूष्णीकाः।
- लुण्ठकः-ण्ठिका, लुलुण्ठयिषकः-षिका, लोलुण्ठकः-ण्ठिका;
- लुण्ठयिता-त्री, लुलुण्ठयिषिता-त्री, लोलुण्ठिता-त्री;
- इत्यादीनि रूपाणि सर्वाण्यपि चौरादिक- कुस्मयतिवत् 6 बोध्यानि।
- 7--’ 8 इति षाकन्प्रत्यये रूपमेवम्।
- षित्त्वात् स्त्रियां ङीषि लुण्ठाकी इति रूपम्। लुण्ठाकः-ठाकी, लुण्टाकः- 9 टाकी।
प्रासङ्गिक्यः
लुठि आलस्ये प्रतिघाते च
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुण्ठति
अर्थ−
१. थाक्नु, अल्छी लाग्नु,
२. लङ्गडो हुनु, लन्ठ्याङ् लन्ठ्याङ् गर्नु,
३. रोक्नु ।
कृदन्तरूपमाला
- 1“लुठि आलस्ये प्रतिघाते च” 2 ‘श्लेषालस्योपघातेषु प्रतिघाते क्रमाल्लुठेत्।
- लुण्ठेत्, लोठति लोठेत किन्तु गत्यां च लुण्ठति।।’ 3 इति देवः।
- अत्र क्षीरतरङ्गिण्यां ‘रुठि आलस्ये गतिप्रतिघाते च’ इत्येव दृश्यते।
- अन्यत्र सर्वेषु कोशेषु ‘लुठि--’ इत्येव दृश्यते।
- लुण्ठकः-ण्ठिका, लुण्ठकः-ण्ठिका, लुलुण्ठिषकः-षिका, लोलुण्ठकः-ण्ठिका;
- लुण्ठिता-त्री, लुण्ठयिता-त्री, लुलुण्ठिषिता-त्री, लोलुण्ठिता-त्री;
- इत्यादीनि रूपाणि सर्वाणि भौवादिककुण्ठतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः
लुठि गतौ
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुण्ठति
अर्थ−
१. जानु, हल्लिँदै हिँड्नु ।
कृदन्तरूपमाला
- 1“लुठि गतौ” 2 ‘… गत्यां च लुण्ठति।।’ 3 इति देवः।
- लुण्ठकः-ण्ठिका, लुण्ठकः-ण्ठिका, लुलुण्ठिषकः-षिका, लोलुण्ठकः-ण्ठिका;
- लुण्ठिता-त्री, लुण्ठयिता-त्री, लुलुण्ठिषिता-त्री, लोलुण्ठिता-त्री;
- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुण्ठतिवत् 4 ज्ञेयानि।
- 5
प्रासङ्गिक्यः