वटोदका
वठ
वट्
वट ग्रन्थे
गणः- चुरादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वटयति–ते
अर्थ−
१. गाँस्नु, बाट्नु ।
कृदन्तरूपमाला
- 1“वट ग्रन्थे” 2 अदन्तः।
- ‘णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
- ‘-- वेष्टे भागे च’ इति वोपदेवः।
- ‘--वेष्टने इत्येके’ इति धा।
- का।
- व्याख्याने 4।
- ‘--वेष्टने’ इति क्षीरस्वामी इति मा।
- धा।
- वृत्तौ उक्तम्।
- क्षीरतरङ्गिण्यां तु “वट ग्रन्थे।
- ग्रन्थो = वेष्टनम्” इत्येव दृश्यते।
- 5 वटकः-टिका, विवटयिषकः-षिका;
- वटयिता-त्री, विवटयिषिता-त्री;
- इत्यादीनि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 6 ऊह्यानि।
- ल्युटि वटनम्।
प्रासङ्गिक्यः
वट परिभाषणे
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वटति
अर्थ−
१. वक्नु, वकवक गर्नु ।
कृदन्तरूपमाला
- 1“वट परिभाषणे” 2 घटादिः।
- ‘-- अवयवे’ इति काशकृत्स्नः।
- वाटकः-टिका, वटकः-टिका, विवटिषकः-षिका, वावटकः-टिका;
- वटिता-त्री, वटयिता-त्री, विवटिषिता-त्री, वावटिता-त्री;
- वटन्-न्ती, वटयन्-न्ती, विवटिषन्-न्ती;
- -- इत्यादिकानि रूपाणि ण्यन्तं विना सर्वाण्यपि भौवादिककखतिवत् 3 ऊह्यानि।
- अस्य धातोः घटादिपाठात् ण्यन्ते परं ‘घटादयो मितः’ 4 इति मित्त्वे ‘मितां ह्रस्वः’ 5 इति ह्रस्वे वटयन्-वटयिष्यन्-न्ती-ती, 6 वटयमानः, वटयिष्यमाणः, इत्यादिकानि ह्रस्वघटितानि रूपाणि भौवादिक- कखतिवत् 7 बोध्यानि।
- णमुलि- 8 वटम् २-वाटम् २, वटयित्वा २। इति विशेषः।
प्रासङ्गिक्यः
वट विभाजने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वटयति–ते
अर्थ−
१. विभाजन गर्नु, अलग्याउनु, छुट्याउनु ।
कृदन्तरूपमाला
- 1“वट विभाजने” 2 अदन्तः।
- मा।
- धातुवृत्ति, सि।
- कौमुद्याद्यनुसारेण अयं पाठो लिखितः।
- ‘णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
- अत्र क्षीरस्वामिना ‘वटि विभाजने’ इत्येव उक्तम्।
- किंच तत्र “4 नन्दिमते वण्टति” इति दृश्यते।
- मैत्रेयोऽपि एवमेव इति मा।
- धा।
- वृत्ति- दर्शनाज्ज्ञायते।
- सि।
- कौमुद्यां तु ‘वट--’ इति पठित्वा वटि--’ इत्येके’ इति।
- वटेः पुनःपाठोऽर्थभेदात् इति ज्ञेयम्।
- अयं धातुः कथाद्यन्तर्गणः इति शाकटायनमतम्।
- वटकः-टिका, विवटयिषकःषिका;
- वटयिता-त्री, विवटयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाणि चौरादिककलयतिवत् 5 ज्ञेयानि।
- शतरि--वटयन्।
- इदित्पाठपक्षे-वण्टकः-ण्टिका, विवण्टयिषकः-षिका;
- वण्टयिता-त्री, विवण्टयि- षिता-त्री;
- इत्यादीनि रूपाणि ऊह्यानि।
- 6 वण्टापयकः-यिका, इति अस्य घातोः विशेषः।
- इदित्त्वाण्णिज्विकल्पः इत्यपि ज्ञेयम्।
- 7
प्रासङ्गिक्यः
वट वेष्टने
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वटति
अर्थ−
१. घेर्नु, बाँध्नु, गाँस्नु, उन्नु, बटुल्नु, एकत्र गर्नु ।
कृदन्तरूपमाला
- 1“वट वेष्टने” 2 “णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
- ‘बटेत्यपि बहुषु कोशेषु दृश्यते’ इति पुरुषकारः 4।
- वाटकः-टिका, वाटकः-टिका, विवटिषकः-षिका, वावटकः-टिका;
- वटिता-त्री, वाटयिता-त्री, विवटिषिता-त्री, वावटिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककटतिवत् 5 ज्ञेयानि।
- वटः, 6 वटिः, वटकः-वटका, वटकिनी, वटिभः, वाटः-वाटी, 7 वटुः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः