संस्कृत-शब्दकोशः

वन्दीपाल वन्द्य

वन्द्

वदि अभिवादनस्तुत्योः


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वन्दते

अर्थ−
१. सत्कारपूर्वक कुशल प्रश्न सोध्नु,
२. प्रशंसा गर्नु, स्तुति गर्नु,
३. वन्दना गर्नु ।

कृदन्तरूपमाला

  • 1“वदि अभिवादनस्तुत्योः” 2 ‘प्रणतिपूर्वमाशिषो वाचनम् = अभिवादनम्’ इति मा।
  • धा।
  • वृत्तिः।
  • ‘-- नतिमात्रं वाऽभिवादनम्’ इति धा।
  • का।
  • व्याख्यायाम् 3।
  • ‘-- नुत्यभिवादयोः’ इति वोपदेवः।
  • वन्दकः-न्दिका, वन्दकः-न्दिका, विवन्दिषकः-षिका, वावन्दकः-न्दिका;
  • वन्दिता-त्री, वन्दयिता-त्री, विवन्दिषिता-त्री, वावन्दिता-त्री;
  • -- वन्दयन्-न्ती, वन्दयिष्यन्-न्ती-ती;
  • -- वन्दमानः, वन्दयमानः, विवन्दिषमाणः, वावन्द्यमानः;
  • इत्यादिकानि रूपाणि सर्वाण्यपि प्रातिस्विकरूपाणि विना भौवादिककन्दतिवत् 4 5 ऊह्यानि।
  • 6 वन्दारुः, 7 8 वन्दी, वन्दनः, 9 वन्दना, 10 वन्दा, 11 वन्दथः, 12 वन्द्रः, 13 वन्दाकः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • सन्नन्तात् उप्रत्यये-विवन्दिषुः 14 इति।

प्रासङ्गिक्यः

  • ↑ (१५४९)
  • ↑ (१-भ्वादिः ११। सक। सेट्। आत्म।)
  • ↑ (१-३)
  • ↑ [पृष्ठम्११९४+ ३०]
  • ↑ (१६३)
  • ↑ १। तच्छीलादिषु कर्तृषु ‘शॄवन्द्योरारुः’ (३-२-१७३) इति आरुप्रत्यये रूपम्।
  • ↑ आ। ‘वन्दारुवृन्दारकवन्दिबृन्दमन्दारमालामकरन्दबिन्दून्।’ (अनर्घ। ६-८३)।
  • ↑ २। णिनिप्रत्यये एवं रूपम्। अचि तु वन्दी इति तरङ्गिण्याम्। ‘वन्यते याच्यते वन्दी = हठाहृता स्त्री’ इत्यमरटीकायां क्षीरस्वामी।
  • ↑ ३। ‘घट्टिवन्दिविदिभ्यः उपसंख्यानम्’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्यये रूपमेवम्।
  • ↑ ४। बाहुलकात् स्त्रियां संज्ञायामकारप्रत्यये रूपमेवम्। वन्दा = वृक्षरुहा।
  • ↑ ५। ‘शीङ्शपिरुगमिवन्दि--’ (द। उ। ६-३८)। इत्यथप्रत्यये रूपम्। वन्दते वन्द्यते वा वन्दथः = स्तोता, स्तुत्यश्च।
  • ↑ ६। औणादिके (द। उ। ८-३१) रक्प्रत्यये वन्द्रः = हेतुः, कामो वा।
  • ↑ ७। औणादिके (द। उ। ३-३१) आकप्रत्यये रूपमेवम्। वन्दाकः = कामवृक्षः इति स्वामी। ‘वन्दाकश्चीवरभिक्षुः’ इति हेमचन्द्रः।
  • ↑ B। ‘औहिष्ट तान् वीतविरुद्धबुद्धीन् विवन्दिषून् दाशरथिः स्ववर्ग्यान्।।’ भ। का। ३-४८।



Correction: