संस्कृत-शब्दकोशः

वर्चस्विन् वर्ज

वर्च्

वर्च दीप्तौ


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्चते

अर्थ−
१. प्रकाशित हुनु, चम्कनु ।

कृदन्तरूपमाला

  • 1“वर्च दीप्तौ” 2 वर्चकः-र्चिका, वर्चकः-र्चिका, विवर्चिषकः-षिका, वावर्चकः-र्चिका;
  • वर्चिता-त्री, वर्चयिता-त्री, विवर्चिषिता-त्री, वावर्चिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचर्चतिवत् 3 ऊह्यानि।
  • अस्य धातोः आत्मनेपदित्वात् शानचि- 4 वर्चमानः, क्विपि- 5 अवावर्क-वर्चौ-वर्चः, सुवर्ची, सुवर्चिका, सुवर्चला, वर्चस्कम्, ब्रह्मवर्चसम्-हस्तिवर्चसम्, ण्यति- 6 वर्च्यम्, 7 वर्चा, 8 असुन्प्रत्यये रूपमेवम्।
  • वर्चः = आशुतेजसी इत्यर्थः। वर्चः इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति बोध्यम्।
  • 9

प्रासङ्गिक्यः

  • ↑ (१५६१)
  • ↑ (१-भ्वादिः-१६२। अक। सेट्। आत्म।)
  • ↑ (५०५)
  • ↑ आ। ‘सुमङ्घिताः शिङ्घितपुष्पसौरभा यद्वर्चमानाः पशुपाः प्रसेचिरे।।’ धा। का। १। २२।
  • ↑ ७। ‘रात् सस्य’ (८-२-२४) इति नियमात् न संयोगान्तलोपः।
  • ↑ ८। ण्यति ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वं न भवति। ‘न क्वादेः’ (७-३-५९) इत्यत्र ‘क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्व- वचनात्’ इति वार्तिकम्। ये क्वादयोऽन्ये वा निष्ठायामनिटस्तेषां कुत्वम्, ये तु सेटस्तेषां नेति संग्रहार्थः। तेनात्र कुत्वं नेति ज्ञेयम्।
  • ↑ ९। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। क्तिनोऽपवादः।
  • ↑ १०। औणादिके [द। उ। ९-४९]
  • ↑ [पृष्ठम्१२०४+ २७]



Correction: