संस्कृत-शब्दकोशः

वर्धिष्णु वर्ध्म

वर्ध्

वर्ध छेदनपूरणयोः


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वर्धयति–ते

अर्थ−
१. काट्नु, चिर्नु,
२. भर्नु, पूर्ण गर्नु ।

कृदन्तरूपमाला

  • 1“वर्ध छेदनपूरणयोः” 2 ‘छेदने पूरणे चार्थे वर्धेः वर्धयतीति णौ।।’ 3 इति देवः।
  • काशकृत्स्नेन ‘वृधु वर्धने’ इति पठित्वा वर्धकिः--तक्षकः इत्युक्तम्।
  • तत्र टिप्पण्यां तु ‘प्राङ् नाभिवर्धनात् पुंसः’ इति मनु 4 वचने छेदनार्थ एव दृश्यते।
  • वर्धकिप्रयोगेऽपि स एवार्थोऽभिप्रेतः।
  • अतः काशकृत्स्न- पाठे लेखकप्रमादात् भ्रष्टपाठः स्यात्, यद्वा वर्धनशब्दस्य छेदन एवात्रार्थो ग्रहीतव्यः’ इत्येवमुक्तम्।
  • वर्धकः-र्धिका, विवर्धयिषकः-षिका, वर्धयिता-त्री, विवर्धयिषिता-त्री, इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्चयतिवत् 5 ऊह्यानि।

प्रासङ्गिक्यः

  • ↑ (१५६४)
  • ↑ (१०-चुरादिः-१६५५। सक। सेट्। उभ।)
  • ↑ (श्लो। १२३।)
  • ↑ (२। २९।)
  • ↑ (५०७)



Correction: