संस्कृत-शब्दकोशः

वर्षेश वर्ष्म

वर्ष्

वर्ष स्नेहने


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्षते

अर्थ−
१. भिज्नु ।

कृदन्तरूपमाला

  • 1“वर्ष स्नेहने” 2 ‘… स्नेहे तु वर्षते।।’ 3 इति देवः।
  • ‘पर्ष--’ इति क्षीरस्वामी।
  • चन्द्रकाशकृत्स्नकातन्त्रहेरम्बवोपदेवादयः न पठन्ति।
  • शाकटायनदेवमैत्रेयसायणभट्टोजिदीक्षितादयः ‘वर्ष स्नेहने’ इत्यभ्युपगच्छन्ति।
  • स्नेहनं = स्निग्धीभावः।
  • ‘पर्ष वर्ष’ इति पृथक्त्वेन मैत्रेयः पठति।
  • वर्षकः-र्षिका, वर्षकः-र्षिका, विवर्षिषकः-षिका, वावर्षकः-र्षिका;
  • वर्षिता-त्री, वर्षयिता-त्री, विवर्षिषिता-त्री, वावर्षिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककर्बतिवत् 4 ज्ञेयानि।
  • अवावर्ट्- 5 अवावर्ड्-वर्षौ-वर्षः, 6 प्रियवर्षी, धनवर्षी, निष्ठायाम्-वर्षितम्-तः-तवान्, इमानि रूपाणि विशेषेण भवन्ति।

प्रासङ्गिक्यः

  • (१५६६)
  • (१-भ्वादिः-६१३। अक। सेट्। आत्म।)
  • (श्लो। १७६)
  • (१७३)
  • १। क्विपि, ‘रात् सस्य’ (८-२-२४) इति नियमात् न संयोगान्तलोपः।
  • २। ताच्छीलिके णिनिप्रत्यये रूपमेवम्।



Correction: