संस्कृत-शब्दकोशः

वर्ही वल

वर्ह्

वर्ह परिभाषणहिंसाच्छादनेषु


गणः- भ्वादिः
कर्मकः-अर्थानुगुण्येन सकर्मकोऽकर्मकश्च
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्हते

अर्थ−
१. बोल्नु, भन्नु,
२. मार्नु, दुःख दिनु, सताउनु,
३. आच्छादित गर्नु, ढाक्नु, छोप्नु ।

कृदन्तरूपमाला

  • 1“वर्ह परिभाषणहिंसाच्छादनेषु” 2 ‘-- परिभाषणहिंसादानेषु’ इति क्षीरस्वामिमैत्रेयद्रुमसायणा- दयः।
  • ‘-- प्राधान्यपरिभाषण… दानेषु’ इति कातन्त्रे।
  • चन्द्रकाश- कृत्स्नौ न पठतः।
  • “अत्र धनपालमैत्रेयौ परिभाषणादावोष्ठ्यादित्वम्, वृद्धौ दन्त्योष्ठ्यादित्वं चाहतुः।
  • ‘छादयत्यनेनेति वर्हः घञ्’ इति वदन् शाकटाय- नोऽप्यत्रैवानुकूलः।
  • यथा वयं तथा स्वामी।” इति मा।
  • धा।
  • वृत्तिः।
  • ‘परिभाषणमत्र वञ्चनवादः’ इति धा।
  • का।
  • व्याख्या 3
  • 4 वर्हकः-र्हिका, वर्हकः-र्हिका, विवर्हिषकः-षिका, वावर्हकः-र्हिका;
  • वर्हिता-त्री, वर्हयिता-त्री, विवर्हिषिता-त्री, वावर्हिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगर्हतिवत् 5 बोध्यानि।
  • युचि- 6 वर्हणः, 7 वर्हा इति विशेषः।

प्रासङ्गिक्यः

  • (१५६७)
  • (१-भ्वादिः-६४०। सक। सेट्। आत्म।)
  • (१-८१)
  • [पृष्ठम्१२०६+ २६]
  • (३८५)
  • १। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युचि रूपमेवम्।
  • २। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। क्तिनोऽपवादः।


वर्ह भासायां भाषायाम् वा


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वलते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु,
३. स्मरण गर्नु, सम्झनु ।

कृदन्तरूपमाला

  • 1“वर्ह भासार्थः” 2 इति क्षीरस्वामिशाकटायनौ इति पाणिनीयधातुपाठसमीक्षायामुपात्तम्।
  • प्रकृतक्षीरतरङ्गिण्यां तु ‘बर्ह’ इत्येव दृश्यते।
  • रूपाणि यथासम्भवं बोध्यानि।

प्रासङ्गिक्यः

  • (१५६७-आ)
  • (१०-चुरादिः-१८४३। सक। सेट्। उभ।)



Correction: