वल्लूर
वल्वग
वल्ल्
वल्ल चलनसंवरणयोः
गणः- भ्वादिः
कर्मकः-सकर्मकः, चलनेऽकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वल्लते
अर्थ−
१. आच्छादित गर्नु, ढाक्नु,
२. जानु ।
कृदन्तरूपमाला
- 1“वल्ल संवरणे संचरणे च” 2 अमुं धातुं क्षीरस्वामी न पठति।
- ‘-- चलने च’ इति कातन्त्रः।
- ‘सौत्रोऽयं धातुः’ इति द।
- उ।
- वृत्त्याम् 3।
- काशकृत्स्नीये ‘-- संवरणे’ इति पठित्वा इतः पूर्वं 4 ‘वल्ल निष्पत्तौ’ इत्यपि पृथक् धातुः पठितः।
- वल्लकः-ल्लिका, वल्लकः-ल्लिका, विवल्लिषकः-षिका, वावल्लकः-ल्लिका;
- वल्लिता-त्री, वल्लयिता-त्री, विवल्लिषिता-त्री, वावल्लिता-त्री;
- -- वल्लयन्-न्ती, वल्लयिष्यन्-न्ती-ती;
- वल्लमानः, वल्लयमानः, विवल्लिषमाणः, वावल्ल्यमानः;
- इत्यादिकानि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिककड्डतिवत् 5 ज्ञेयानि।
- 6 7 वल्लरी-वल्लरिः, 8 इति इन्प्रत्यये, हिरण्यभिन्नार्थे वलिरित्यादेशे च रूपमेवम्।
- वल्लति वल्ल्यते वा वलिः = त्वङ्मांससंकोचः।
- वल्लिः इत्यस्य तु हिरण्यशलाका इत्यर्थः।
- वल्ली इत्यत्र ‘कृदिकारात्--’ 9 इति ङीष्।
- ‘सौत्रोऽयं धातुः’ इति द।
- उ।
- वृत्त्याम्। वलिः- 10 वल्लिः-वल्ली-लता, 11 इत्यभच्प्रत्यये रूपमेवम्।
- वल्लति वल्ल्यते वा वल्लभः = दयितः, प्राणप्रिय इति स्वामी।
- ‘वल्लभो दयितेऽध्यक्षे सल्लक्षण- तुरङ्गमे’ इति विश्वः। वल्लभः 12 13 वल्लकी, 14 वल्लवः वल्लूरः 15 इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः