संस्कृत-शब्दकोशः

वावृतु वावृत्त

वावृत्

वावृतु वरणे


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वावृत्यते

अर्थ−
१. सेवा गर्नु, शुश्रूषा गर्नु, चाकरी गर्नु,
२. खोज्नु, मन पराउनु ।

कृदन्तरूपमाला

  • 1“वावृतु वरणे” 2 वरणम् = आवरणम्।
  • ‘वृतु वरणे’ इति धातुवृत्ति-धातुकाव्य-सि।
  • कौमुदी-काशकृत्स्नादयः।
  • सि।
  • कौमुद्यां ‘वृतु--’ इति पठित्वा पक्षान्तरे-वावृत्यते इति।
  • ‘वृतु--’ इति धा।
  • का।
  • व्याख्या 3 पाठः।
  • किञ्च तत्र ‘केचित् पूर्वत्र पठितं वाग्रहणमस्यादिं कृत्वा ‘वावृतु--’ इत्याहुः’ इत्युपात्तम्।
  • कर्मणि क्तप्रत्यये पक्षद्वयेऽपि प्रयोगा दृश्यन्ते।
  • क्षीरस्वामी स्वतन्त्रेण ‘वावृतु’ इति पठित्वा “अन्ये भ्वादेरेव वरणे दिवादित्वं वा मन्यन्ते।
  • तेन वरणे द्युतादिकार्यं न भवति।
  • वर्तिष्यते, विवर्तिषते” इति उक्तम्।
  • किं च भ्वादौ ‘वृतु वरणे’ 4 इत्येके’ इति तत्र दृश्यते।
  • कातन्त्रीयाः ‘तप ऐश्वर्ये, वावृतु वर्तने’ इति पठन्ति।
  • ये वा-शब्दं ‘तप ऐश्वर्ये वा’ इत्येवं संबध्नन्ति, काशकृत्स्नपाठानुरोधेन तेषां ‘वा’ पदं समुच्चायकं भवितुमर्हति, न विकल्पार्थकम्’ इति काशकृत्स्ने टिप्पण्या- मुक्तम्।
  • 5 ‘ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत।’ इति भट्टि 6 प्रयोगश्चात्र अनुकूलः।
  • ‘-- वर्तने च’ इति हेमचन्द्रः।
  • ‘-- संभक्तौ वरणे’ इति वोपदेवः।
  • वावर्तकः-र्तिका, वावर्तकः-र्तिका, विवावर्तिषकः-षिका, वरीवावर्तकः-र्तिका;
  • वावर्तिता-त्री, वावर्तयिता-त्री, विवावर्तिषिता-त्री, वरीवावर्तिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकगृध्यतिवत् 7 ज्ञेयानि।
  • शानचि 8 वावृत्यमानः, क्यपि- 9 वावृत्यम्, वावर्तितम् इमानि रूपाणि अस्य धातोः विशेषः।

प्रासङ्गिक्यः

  • (१५९०)
  • (४-दिवादिः-११६०। सक। सेट्। आत्म।)
  • (२। ६०)
  • (दिवादौ)
  • [पृष्ठम्१२२५+ ३०]
  • (४-२८)
  • (४२४)
  • १। ‘रीगृदुपधस्य च’ (७-४-८०) इति यङन्ते सर्वत्र अभ्यासे रीगागमः।
  • २। ‘ऋदुपधात्--’ (३-१-११०) इत्यादिना क्यप्प्रत्यये रूपमेवम्।



Correction: