संस्कृत-शब्दकोशः

वाशृ वाश्र

वाश्

वाशृ शब्दे


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वाश्यते

अर्थ−
१. शब्द गर्नु, आवाज निकाल्नु,
२. पक्षीझैँ चिरविराउनु,
३. बोलाउनु, गुहार्नु ।

कृदन्तरूपमाला

  • 1“वाशृ शब्दे” 2 3 ‘… वाशति…’ 4 इति प्रयोगदर्शनात् भौवादिकोऽपि अयं धातुः इति ऊह्यते।
  • ‘चीचीकूचीति वाशन्ति सारिकाः--’ 5 इति च। ‘वासृ--’ इति काशकृत्स्नः।
  • ‘वाशृ--’ इति कातन्त्राः, अन्ये च वैयाकरणाः।
  • वाशकः-शिका, वाशकः-शिका, विवाशिषकः-षिका, वावाशकः-शिका;
  • वाशिता-त्री, वाशयिता-त्री, विवाशिषिता-त्री, वावाशिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककाशतिवत् 6 ऊह्यानि।
  • शानचि- 7 उद्वाश्यमानः 8, 9 वाशनः 10, वाशा, वाशिका, वाशिरा, 11 वाशुरा, 12 वाशरः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
  • 13

प्रासङ्गिक्यः

  • (१५९२)
  • (४-दिवादिः-११६३। अक। सेट्। आत्म।)
  • [अ]
  • (ऋक् ५-५४-२)
  • (महाभारते १६-३८)
  • (१८६)
  • ३। उत्पूर्वकात् धातोः, लटः शानचि कर्तरि शपि, तस्य श्यनि च रूपमेवम्।
  • आ। ‘उद्वाश्यमानः पितरं सरामं लुठ्यन् सशोको भुवि रोरुदावान्।।’ भ। का। ३-३२
  • ४। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् ण्यन्तात् ल्युः प्रत्ययः।
  • B। ‘भृङ्गालीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण।’ भ। का। ६-७४
  • ५। ‘मन्दिवाशि--’ (द। उ। ८-२१) इत्यादिना उरच्प्रत्यये रूपमेवम्। वाश्यतेऽत्यर्थमिति वाशुरः--गर्दभः। ‘मन्दिवासि--’ इति नारायणश्वेत- वनवासिनौ। अत्र धातुवृत्तौ ‘मन्दिवाशि--’ इत्यादिना किरच्प्रत्यये वाशिरः इति दृश्यते। वृत्त्यादावपि वाशुरा इत्येवोदाह्रियते। तरङ्गिण्या- मपि एवमेव।
  • ६। ‘अर्त्तिकमिभ्रमिदेविवाशि--’ (द। उ। ८-६२) इत्यादिना अरन्प्रत्यये रूपमेवम्। वाशरः = कोकिलः। अत्राह मनोरमाकारः-- ‘केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा ‘वाशृ शब्दे’ वाश्यते इति वाशरः = कोकिलः इत्याहुः’ इति।
  • [पृष्ठम्१२२६+ २८]



Correction: