संस्कृत-शब्दकोशः

विच्छेद्य विच्युत

विच्छ्

विच्छ भासायां भाषायाम्


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- विच्छयति–ते

अर्थ−
१. प्रकाशित हुनु, चम्कनु, बोल्नु भाषण गर्नु ।

कृदन्तरूपमाला

  • 1“विच्छ भाषार्थः” 2 आस्वदीयः।
  • ‘--भासार्थः’ इति क्षीरस्वामिशाकटायनहेमचन्द्रादयः।
  • ‘णौ विच्छयति भाषार्थे गतौ विच्छायतीति शे।।’ 3 इति देवः।
  • विच्छकः-च्छिका, विविच्छयिषकः-षिका;
  • विच्छयिता-त्री, विविच्छयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककुण्ठयति 4 वत् उह्यानि।
  • शतरि- 5 विच्छयन्।

प्रासङ्गिक्यः

  • (१५९६)
  • (१०-चुरादिः-१७७४। अक। सेट्। उभ।)
  • (श्लो। ५६)
  • (२१०)
  • आ। ‘तांस्त्वं धूपय विच्छयन् क इव न त्वच्चीवनात् पोथयेत्।।’ धा। का। ३-४४।


विच्छ गतौ


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- विच्छायति–विच्छति

अर्थ−
१. नजिक जानु, नजिक आउनु ।

कृदन्तरूपमाला

  • 1“विछ गतौ” 2 ‘णौ विच्छयति भाषार्थे, गतौ विच्छायतीति शे।।
  • विच्छेराये शतुर्वा नुं शे स्यादिति तुदादिता।’ 3 इति देवः।
  • 4 तरङ्गिण्याम्-- “विच्छेस्तुदादिपाठः-सार्वधातुकेऽप्यायानित्यत्वे लिङ्गम्… तथा च शपि नित्यमिति भाष्यम् 5
  • आर्याः शे विकल्पम् 6, द्रमिडास्तु पाठबलाद् आयव्यवायेऽपि कार्यमाहुः--विच्छायन्ती-विच्छायती” इत्युपात्तं वचनमिहात्रानुसन्धेयम्।
  • भाष्यकारो यदभिप्रैति तस्यानुकूलः सुधाकरोऽपि।
  • तथा च “तुदादिपाठात् नुम्विकल्पः संभवतीति तुदादिपाठ- स्येदमेव फलं न्याय्यम्।
  • एवं च नुम्विकल्पात् विच्छन्ती विच्छायतीत्यौत्सर्गिकः शबेवेति नित्यो नुम्” इति पुरुषकारः।
  • 7 विच्छायकः-यिका, विच्छकः-च्छिका, 8 विच्छायकः-यिका, विच्छकः-च्छिका, विविच्छायिषकः-षिका, विविच्छिषकः-षिका, वेविच्छकः 9 -च्छिका;
  • विच्छायिता-त्री, विच्छिता-त्री, विच्छाययिता-त्री, विच्छयिता-त्री, विविच्छा- यिषिता-त्री, विविच्छिषिता-त्री, वेविच्छिता-त्री;
  • 10 विच्छायन्-न्ती-ती, विच्छाययन्, विच्छयन्-न्ती-ती, विविच्छायिषन्-विविच्छिषन्-न्ती-ती;
  • -- विच्छायिष्यन्-विच्छिष्यन्-न्ती-ती, विच्छाययिष्यन्-विच्छयिष्यन्-न्ती-ती, विवि- च्छायिषिष्यन्-विविच्छिषिष्यन्-न्ती-ती;
  • -- -- विच्छाययमानः-विच्छायमानः,-- विविच्छायिषमाणः, विविच्छिषमाणः, वेविच्छ्यमानः;
  • -- विच्छाययिष्यमाणः, विच्छायिष्यमाणः, विविच्छायिषिष्यमाणः, विवि- च्छिषिष्यमाणः, वेविच्छिष्यमाणः;
  • 11 12 गोविट्-गोविच्छौ-गोविच्छः;
  • 13 विच्छाः-विच्छायौ-विच्छायः;
  • विच्छायितम्-तः;
  • विच्छितम्-तः, विच्छाययितम्-तः, विच्छायितः, विविच्छा- यिषितः-विविच्छिषितः, वेविच्छितः-तवान्;
  • विच्छायः-विच्छः, 14 विश्नः;
  • विच्छायः-विच्छः, विविच्छायिषुः-विविच्छिषुः, वेविच्छः;
  • विच्छायितव्यम्-विच्छितव्यम्, विच्छाययितव्यम्-विच्छायितव्यम्, विविच्छायि- षितव्यम्-विविच्छिषितव्यम्, वेविच्छितव्यम्;
  • विच्छायनीयम्-विच्छनीयम्, विच्छायनीयम्-विच्छनीयम्, विविच्छायिषणीयम्- विविच्छिषणीयम्, वेविच्छनीयम्;
  • विच्छाय्यम्-विच्छ्यम्, विच्छाय्यम्-विच्छ्यम्;
  • विविच्छायिष्यम्-विविच्छिष्यम्, वेविच्छ्यम्;
  • ईषद्विच्छायः-दुर्विच्छायः-सुविच्छायः, ईषद्विच्छः-दुर्विच्छः-सुविच्छः;
  • -- विच्छाय्यमानः-विच्छ्यमानः, विच्छाय्यमानः-विच्छ्यमानः, विविच्छायिष्यमाणः-- विविच्छिष्यमाणः, वेविच्छ्यमानः;
  • विच्छायः-विच्छः, विच्छायः-विच्छः, विविच्छायिषः-विविच्छिषः, वेविच्छः;
  • विच्छायितुम्-विच्छितुम्, विच्छाययितुम्-विच्छयितुम्, विविच्छायिषितुम्- विविच्छिषितुम्, वेविच्छितुम्;
  • विच्छाया-विच्छा, विच्छायना-विच्छना, विविच्छायिषा-विविच्छिषा, वेविच्छा;
  • विच्छायनम्-विच्छनम्, विच्छायनम्-विच्छनम्, विविच्छायिषणम्-विविच्छिषणम्, वेविच्छनम्;
  • विच्छायित्वा-विच्छित्वा, विच्छाययित्वा-विच्छयित्वा, विविच्छायिषित्वा-विविच्छि- षित्वा-वेविच्छित्वा;
  • प्रविच्छाय-प्रविच्छ्य, प्रविच्छाय्य-प्रविच्छ्य, प्रविविच्छायिष्य-प्रविविच्छिष्य, प्रवेविच्छ्य;
  • 15 विच्छायम् २ -विच्छम् २, विच्छायित्वा २ -विच्छित्वा २, विच्छायम् २ -विच्छम् २, विच्छाययित्वा २ -विच्छयित्वा २, विविच्छायिषम् २ -विविच्छिषम् २, विविच्छायिषित्वा २ -विविच्छिषित्वा २, वेविच्छम् २;
  • वेविच्छित्वा २।

प्रासङ्गिक्यः

  • (१५९५)
  • (६-तुदादिः-१४२३। सक। सेट्। पर।)
  • (श्लो। ५६-५७)
  • [पृष्ठम्१२२७+ २६]
  • (३-१-३१)
  • [नुम्]
  • १। ‘गुपूधूपविच्छि--’ (३-१-२८) इति आयप्रत्ययः। ‘आयादय आर्धधातुके वा’ (३-१-३१) इति आर्धधातुकविवक्षायाम् आयप्रत्ययो विकल्पेन भवति। तेन आयप्रत्ययाभावपक्षे विच्छकः इत्यादि। तेन आर्धधातुके सर्वत्र रूपद्वयं (शुद्धे) ज्ञेयम्। ‘छे च’ (६-१-७३) इति तुक्। तस्य चर्त्वेन चकारः। अयं तुक् अन्तरङ्गः। तेन सर्वत्र प्रथममस्य श्रवणं भवति। अतश्च शुद्धात् णिजन्तात् च आयप्रत्ययाभावपक्षे उपधावृद्ध्यादिकं न भवतीति बोध्यम्।
  • २। ण्यन्तेऽपि आर्धधातुकविषये सर्वत्र आयप्रत्ययबिकल्पः। तेन रूपद्वयं बोध्यम्।
  • ३। आर्धधातुकविवक्षायां आयप्रत्ययस्य वैकल्पिकत्वात् आयप्रत्ययान्तस्य अनेकाच्त्वात् यङन्ते आयप्रत्ययो न भवति। तेन एकमेव रूपम्।
  • ४। शतुः सार्वधातुकत्वेन नित्यमायप्रत्ययः।
  • [पृष्ठम्१२२८+ २८]
  • १। आयप्रत्यया भावपक्षे क्विपि ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति छकारस्य शकारे, षत्वे ष्टुत्वे च रूपमेवम्।
  • २। आयप्रत्ययान्तात् क्विपि वलि लोपे रूपमेवम्।
  • ३। ‘यजयाचयतविच्छ--’ (३-३-९०) इति भावे नङ्प्रत्ययः। ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधः। प्रत्ययस्य ङित्त्वेन न गुणः। ‘च्छ्वोः--’ (६-४-१९) इति सतुक्कस्य छस्य शकारः। ‘शात्’ (८-४-४४) इति निषेधात् न श्चुत्वम्।
  • [पृष्ठम्१२२९+ २४]



Correction: