विच्छेद्य
विच्युत
विच्छ्
विच्छ भासायां भाषायाम्
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- विच्छयति–ते
अर्थ−
१. प्रकाशित हुनु, चम्कनु, बोल्नु भाषण गर्नु ।
कृदन्तरूपमाला
- 1“विच्छ भाषार्थः” 2 आस्वदीयः।
- ‘--भासार्थः’ इति क्षीरस्वामिशाकटायनहेमचन्द्रादयः।
- ‘णौ विच्छयति भाषार्थे गतौ विच्छायतीति शे।।’ 3 इति देवः।
- विच्छकः-च्छिका, विविच्छयिषकः-षिका;
- विच्छयिता-त्री, विविच्छयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककुण्ठयति 4 वत् उह्यानि।
- शतरि- 5 विच्छयन्।
प्रासङ्गिक्यः
विच्छ गतौ
गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- विच्छायति–विच्छति
अर्थ−
१. नजिक जानु, नजिक आउनु ।
कृदन्तरूपमाला
- 1“विछ गतौ” 2 ‘णौ विच्छयति भाषार्थे, गतौ विच्छायतीति शे।।
- विच्छेराये शतुर्वा नुं शे स्यादिति तुदादिता।’ 3 इति देवः।
- 4 तरङ्गिण्याम्-- “विच्छेस्तुदादिपाठः-सार्वधातुकेऽप्यायानित्यत्वे लिङ्गम्… तथा च शपि नित्यमिति भाष्यम् 5।
- आर्याः शे विकल्पम् 6, द्रमिडास्तु पाठबलाद् आयव्यवायेऽपि कार्यमाहुः--विच्छायन्ती-विच्छायती” इत्युपात्तं वचनमिहात्रानुसन्धेयम्।
- भाष्यकारो यदभिप्रैति तस्यानुकूलः सुधाकरोऽपि।
- तथा च “तुदादिपाठात् नुम्विकल्पः संभवतीति तुदादिपाठ- स्येदमेव फलं न्याय्यम्।
- एवं च नुम्विकल्पात् विच्छन्ती विच्छायतीत्यौत्सर्गिकः शबेवेति नित्यो नुम्” इति पुरुषकारः।
- 7 विच्छायकः-यिका, विच्छकः-च्छिका, 8 विच्छायकः-यिका, विच्छकः-च्छिका, विविच्छायिषकः-षिका, विविच्छिषकः-षिका, वेविच्छकः 9 -च्छिका;
- विच्छायिता-त्री, विच्छिता-त्री, विच्छाययिता-त्री, विच्छयिता-त्री, विविच्छा- यिषिता-त्री, विविच्छिषिता-त्री, वेविच्छिता-त्री;
- 10 विच्छायन्-न्ती-ती, विच्छाययन्, विच्छयन्-न्ती-ती, विविच्छायिषन्-विविच्छिषन्-न्ती-ती;
- -- विच्छायिष्यन्-विच्छिष्यन्-न्ती-ती, विच्छाययिष्यन्-विच्छयिष्यन्-न्ती-ती, विवि- च्छायिषिष्यन्-विविच्छिषिष्यन्-न्ती-ती;
- -- -- विच्छाययमानः-विच्छायमानः,-- विविच्छायिषमाणः, विविच्छिषमाणः, वेविच्छ्यमानः;
- -- विच्छाययिष्यमाणः, विच्छायिष्यमाणः, विविच्छायिषिष्यमाणः, विवि- च्छिषिष्यमाणः, वेविच्छिष्यमाणः;
- 11 12 गोविट्-गोविच्छौ-गोविच्छः;
- 13 विच्छाः-विच्छायौ-विच्छायः;
- विच्छायितम्-तः;
- विच्छितम्-तः, विच्छाययितम्-तः, विच्छायितः, विविच्छा- यिषितः-विविच्छिषितः, वेविच्छितः-तवान्;
- विच्छायः-विच्छः, 14 विश्नः;
- विच्छायः-विच्छः, विविच्छायिषुः-विविच्छिषुः, वेविच्छः;
- विच्छायितव्यम्-विच्छितव्यम्, विच्छाययितव्यम्-विच्छायितव्यम्, विविच्छायि- षितव्यम्-विविच्छिषितव्यम्, वेविच्छितव्यम्;
- विच्छायनीयम्-विच्छनीयम्, विच्छायनीयम्-विच्छनीयम्, विविच्छायिषणीयम्- विविच्छिषणीयम्, वेविच्छनीयम्;
- विच्छाय्यम्-विच्छ्यम्, विच्छाय्यम्-विच्छ्यम्;
- विविच्छायिष्यम्-विविच्छिष्यम्, वेविच्छ्यम्;
- ईषद्विच्छायः-दुर्विच्छायः-सुविच्छायः, ईषद्विच्छः-दुर्विच्छः-सुविच्छः;
- -- विच्छाय्यमानः-विच्छ्यमानः, विच्छाय्यमानः-विच्छ्यमानः, विविच्छायिष्यमाणः-- विविच्छिष्यमाणः, वेविच्छ्यमानः;
- विच्छायः-विच्छः, विच्छायः-विच्छः, विविच्छायिषः-विविच्छिषः, वेविच्छः;
- विच्छायितुम्-विच्छितुम्, विच्छाययितुम्-विच्छयितुम्, विविच्छायिषितुम्- विविच्छिषितुम्, वेविच्छितुम्;
- विच्छाया-विच्छा, विच्छायना-विच्छना, विविच्छायिषा-विविच्छिषा, वेविच्छा;
- विच्छायनम्-विच्छनम्, विच्छायनम्-विच्छनम्, विविच्छायिषणम्-विविच्छिषणम्, वेविच्छनम्;
- विच्छायित्वा-विच्छित्वा, विच्छाययित्वा-विच्छयित्वा, विविच्छायिषित्वा-विविच्छि- षित्वा-वेविच्छित्वा;
- प्रविच्छाय-प्रविच्छ्य, प्रविच्छाय्य-प्रविच्छ्य, प्रविविच्छायिष्य-प्रविविच्छिष्य, प्रवेविच्छ्य;
- 15 विच्छायम् २ -विच्छम् २, विच्छायित्वा २ -विच्छित्वा २, विच्छायम् २ -विच्छम् २, विच्छाययित्वा २ -विच्छयित्वा २, विविच्छायिषम् २ -विविच्छिषम् २, विविच्छायिषित्वा २ -विविच्छिषित्वा २, वेविच्छम् २;
- वेविच्छित्वा २।
प्रासङ्गिक्यः