संस्कृत-शब्दकोशः

विजेय विज्जन

विज्

ओविजी भयसञ्चलनयोः


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- विजते, उद्विजते

अर्थ−
१. डराउनु,
२. डरले काँप्नु,
३. काँप्नु,,
४. आपद्ग्रस्त हुनु, विपत्तिमा पर्नु ।

कृदन्तरूपमाला

  • 1“ओ विजी भयचलनयोः” 2 प्रायेणायं उत्पूर्वः।
  • ‘-- उद्वेगे च’ इति पा।
  • धा।
  • समीक्षा।
  • ‘वेवेक्तीति पृथग्भावे विविक्ते च भये पुनः।।’ 3 विनक्ति विजते…।’ 4 इति देवः।
  • उद्वेजकः-जिका, उद्वेजकः-जिका, 5 उद्विविजिषकः-षिका, वेविजकः-जिका;
  • 6 उद्विजिता-त्री, उद्वेजयिता-त्री, विविजिषिता-त्री, वेविजिता-त्री;
  • 7 उद्वेजयन्-न्ती, उद्वेजयिष्यन्-न्ती-ती;
  • -- -- उद्विजमानः, उद्विजिष्यमाणः;
  • -- -- वेविज्यमानः, वेविजिष्यमाणः;
  • -- -- उद्विक्-उद्विग्-विजौ-विजः;
  • -- -- 8 उद्विग्नम् 9 -नः-नवान्, उद्वेजितः, विविजिषितः-वेविजितः-तवान्;
  • उद्वेगः, उद्वेगनः, उद्वेगः, विविजिषुः, वेविजः;
  • विजितव्यम्, वेजयितव्यम्, विविजिषितव्यम्, वेविजितव्यम्;
  • वेजनीयम्, 10 उद्वेजनीयः, वेजनीयम्, विविजिषणीयम्, वेविजनीयम्;
  • 11 उद्वेग्यम्, उद्वेज्यम्, विविजिष्यम्, वेविज्यम्;
  • विज्यमानः, वेज्यमानः, विविजिष्यमाणः, वेविज्यमानः;
  • ईषद्वेजः-दुर्वेजः-सुवेजः;
  • -- -- -- 12 उद्वेगः, 13 वेगितम्, उद्वेगः, उद्विविजिषः, उद्वेविजः;
  • 14 15 उद्विजितुम्, उद्वेजयितुम्, उद्विविजिषितुम्, उद्वेविजितुम्;
  • उद्वेक्तिः, उद्वेजना, विविजिषा, वेविजा;
  • उद्वेजनम्, उद्वेजनम्, उद्विविजिषणम्, वेविजनम्;
  • 16 विजित्वा, वेजयित्वा, विविजिषित्वा, वेविजित्वा;
  • उद्वेज्य, उद्वेज्य, उद्विविजिष्य, उद्वेविज्य;
  • वेजम् २, वेजित्वा २, वेजम् २, वेजयित्वा २, विविजिषम् २, विविजिषित्वा २, वेविजम् २;
  • वेविजित्वा २।

प्रासङ्गिक्यः

  • (१५९८)
  • (६-तुदादिः-१२८९। अक। सेट्। आत्म।)
  • [पृष्ठम्१२३०+ २४]
  • (श्लो। ६१-६२)
  • १। ‘रलो व्युपधात्--’ (१-२-२६) इति सन्नन्तात् क्त्वायामपि पाक्षिककित्त्वस्याप- वादत्वेन ‘विज इट्’ (१-२-२) इति सूत्रस्य प्रवृत्तत्वात् इडादेः प्रत्ययस्य सर्वस्यापि नित्यं ङित्त्वमित्यतोऽत्र एकमेव रूपम्। एवं क्त्वायामपीति बोध्यम्।
  • २। तृचि, ‘विज इट्’ (१-२-२) इति इडादिप्रत्ययस्य ङिद्वद्भावात् गुणो न भवति। एवं तव्यदादिषु च ज्ञेयम्।
  • आ। ‘ऋषन् अजुषत क्रमात् नगरगर्भमुद्वेजयन्…।।’ धा। का। २। ७२।
  • ३। निष्ठायाम्, ईदित्त्वात् ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति अनिट्त्वात् इण्निषेधे ओदित्त्वात् निष्ठातकारस्य नकारे चकारस्य कुत्वे च रूपमेवम्।
  • B। ‘तौ मुमुहतुरुद्विग्नौ वसुधायां च पेततुः।।’ भ। का। १४-४७।
  • ४। ‘उद्विजन्ति अस्मादिति उद्वेजनीयः खलः, बाहुलकादपादाने अनीयर्’ इति प्रक्रियासर्वस्वम्।
  • ५। निष्ठायामनिट्त्वात् ‘चजोः--’ (७-३-५२) इति कुत्वे रूपमेवम्। एवं घञ्यपि।
  • ६। ‘हलश्च’ (३-३-१२१) इति करणे घञ्।
  • ७। घञन्तात् वेगशब्दात् तारकादित्वात्, इतचि रूपमेवम्।
  • [पृष्ठम्१२३१+ २४]
  • आ। ‘नाऽयमुद्विजितुं कालः स्वामिकार्याद् भवादृशाम्।’ भ। का। ७-९२।
  • १। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधं बाधित्वा ‘विज इट्’ (१-२-२) इति नित्यं ङित्त्वम्।


विजी भयसञ्चलनयोः


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- विनक्ति

अर्थ−
१. डराउनु,
२. डरले काँप्नु,
३. काँप्नु,,
४. आपद्ग्रस्त हुनु, विपत्तिमा पर्नु ।

कृदन्तरूपमाला


विजिर् पृथग्भावे


गणः- जुहोत्यादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- वेवेक्ति–वेविक्ते

अर्थ−
१. पृथक् गर्नु, अलग गर्नु, छुट्याउनु,
२. पृथक् हुनु, अलग गर्नु,
३. छुट्टिनु, टुट्नु,
४. विवेक गर्नु ।

कृदन्तरूपमाला

  • 1“विजिर् पृथग्भावे” 2 ‘वेवेक्तीति पृथग्भावे विविक्ते च भये पुनः।।’ 3 इति देवः।
  • “‘विचिर्-’ इति सभ्याः” इति क्षीरस्वामी।
  • वेजकः-जिका, वेजकः-जिका, विविक्षकः-क्षिका, वेविजकः-जिका;
  • वेक्ता-त्री, वेजयिता-त्री, विविक्षिता-त्री, वेविजिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकणिजिर् 4 धातुवत् बोध्यानि।
  • शतरि-वेविजत् 5 इति।
  • शानचि-सुवेविजानः 6

प्रासङ्गिक्यः

  • (१५९७)
  • (३-जुहोत्यादिः-१०९४। सक। अनि। उभ।)
  • (श्लो। ६१)
  • (६७३)
  • १। शतरि शपः ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति श्लौ, तस्य ‘श्लौ’ (६-१-१०) इति द्वित्वे ‘निजां त्रयाणां गुणः श्लौ’ (७-४-७५) इत्यभ्यासस्य गुणे ‘नाभ्यस्ता- च्छतुः’ (७-१-७८) इति नुम्निषेधे च रूपमेवम्। एवं वेविजानः इत्यत्रापि गुणो ज्ञेयः।
  • B। ‘प्रणेनिजद्भिर्मतिमर्थतत्त्वं सुवेविजानैर्यदुभिः स विष्णुः।’ धा। का। २-५५।



Correction: