संस्कृत-शब्दकोशः

वुङ्ग् वृक

वृ

वृ संवरणे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वरति

अर्थ−
१. मन पराउनु, छान्नु,
२. नियोजित गर्नु,
३. आच्छादित गर्नु, ढाक्नु ।

कृदन्तरूपमाला


वृङ् सम्भक्तौ


गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वृणीते

अर्थ−
१. सेवा गर्नु, परिचर्या गर्नु ।

कृदन्तरूपमाला

  • 1“वृङ् संभक्तौ” 2 ‘भक्तौ वृणीते, वरणे वृणोति वृणुते वृञः।’ 3 इति देवः।
  • ‘तुदादौ वृङ् संभक्तौ व्रियते’ इति क्षीरस्वामी इति पुरुषकारेण उक्तम्।
  • प्रकृतक्षीरतरङ्गिण्यां तुदादौ न दृश्यते।
  • संभक्तिः = संसेवा इति क्षीरस्वामी।
  • ‘स्वीकारः’ इति धातुकाव्यव्याख्या 4
  • वारकः-रिका, वारकः-रिका, 5 विवरिषकः-विवरीषकः-वुवूर्षकः-र्षिका, 6 वेव्रीयकः-यिका;
  • 7 8 वरिता-वरीता-त्री, वारयिता-त्री, विवरिषिता-विवरीषिता-वुवूर्षिता-त्री, वेव्रीयिता-त्री;
  • -- वारयन्-न्ती, वारयिष्यन्-न्ती-ती;
  • -- वृणानः, वारयमाणः, विवरिषमाणः-विवरीषमाणः-वुवूर्षमाणः, वेव्रीयमाणः;
  • वरिष्यमाणः, वारयिष्यमाणः, विविरिषिष्यमाणः-विवरीषिष्यमाणः, वूवुर्षिष्यमाणः, वेव्रीयिष्यमाणः;
  • वृत्-वृतौ-वृतः;
  • -- -- -- वृतम्-तः, 9, वारितः, विविरिषितः-विवरीषितः-वुवूर्षितः, वेव्रीयितः-तवान्;
  • वरः, 10 वराकः-वराकी, वारः, विवरिषुः-विवरीषुः-वुवूर्षुः, वेव्रियः;
  • वरितव्यम्, वारयितव्यम्, विवरिषितव्यम्-विवरीषितव्यम्-वुवूर्षितव्यम्, वेव्रीयितव्यम्;
  • वरीतव्यम्, वारयितव्यम्, विवरिषितव्यम्-विवरीषितव्यम्-वुवूर्षितव्यम्, वेव्रीयितव्यम्;
  • वरणीयम्, वारणीयम्, विवरिषणीयम्-विवरीषणीयम्-वुवूर्षणीयम्, वेव्रीयणीयम्;
  • वर्यम्, वर्यः 11 12 13 वर्या, वार्याः 14 वृत्यम्, वार्यम्, विवरिष्यम्-विवरीष्यम्-वुवूर्ष्यम्, वेव्रीय्यम्;
  • ईषद्वरः-दुर्वरः-सुवरः;
  • -- -- -- वर्यमाणः, वार्यमाणः, विवरिष्यमाणः-विवरीष्यमाणः-वुवूर्ष्यमाणः, वेव्रीय्यमाणः;
  • वारः, 15 नीवारः, वारः, विवरिषः-विवरीषः-वुवूर्षः, वेव्रियः;
  • वरितुम् 16 -वरीतुम्, वारयितुम्, विवरिषितुम्-विवरीषितुम्-वुवूर्षितुम्, वेव्रीयितुम्;
  • 17 वृतिः, वारणा, विवरिषा-विवरीषा-वुवूर्षा, वेव्रीया;
  • 18 वरणम्, वारणम्, विवरिषणम्-विवरीषणम्-वुवूर्षणम्, वेव्रीयणम्;
  • वृत्वा, वारयित्वा, विवरिषित्वा-विवरीषित्वा-वुवूर्षित्वा, वेव्रीयित्वा;
  • निवृत्य, निवार्य, निविवरिष्य-निविवरीष्य-निवुवूर्ष्य, निवेव्रीय्य;
  • वारम् २, वृत्वा २, वारम् २, वारयित्वा २, विवरिषम् २ -विवरीषम् २ -वुवूर्षम् २, विवरिषित्वा २ -विवरीषित्वा-वुवूर्षित्वा २, वेव्रीयम् २;
  • वेव्रीयित्वा २;
  • 19 वर्वरीका, 20 वरेण्यः, 21 वरूषः, 22 वर्पः।

प्रासङ्गिक्यः

  • (१६२२)
  • (९-क्र्यादिः-१५०९। सक। सेट्। आत्म।)
  • (श्लो। ३२)
  • (३-९)
  • ५। ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पः। इडभावपक्षे ‘इको झल्’ (१-२-१९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इति उत्वे, रपरत्वे च ‘हलि च’ (८-२-७७) इति इक उपधाया दीर्घः। तेन सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।
  • ६। यङन्ते ‘रीङृतः’ (७-४-२७) इति ऋकारान्तस्याङ्गस्य रीङ् इत्यादेशे रूपमेवम्।
  • [पृष्ठम्१२४८+ २८]
  • १। ‘वॄतो वा’ (७-२-३८) इति इटः विकल्पेन दीर्घः। तेन तव्यतुमुन्नादिषु रूपद्वयं बोध्यम्।
  • २। सन्नन्ते इड्विकल्पनात् निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः।
  • ३। ‘जल्पभिक्षकुट्टलुण्टवृङः षाकन्’ (३-२-१५५) इति तच्छीलादिषु कर्तृषु षाकन्प्रत्ययः। तेन रूपमेवम्। स्त्रियां षित्त्वात् ङीष्प्रत्यये वराकी इति।
  • आ। ‘सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमः।।’ भ। का। ६-५१
  • [सहस्रेण]
  • ४। ‘अवद्यपण्यवर्याः--’ (३-१-१०१) इति अनिरोधेष्वर्थेषु वर्या इति निपात्यते। ण्यदपवादोऽयम्। वर्येति स्त्रियां निपात्यते। अनिरोधः = अप्रतिबन्धः। वृत्या अन्या। क्यब्विधौ वृञो ग्रहणम्, न तु वृङः। वार्याः = ऋत्विजः।
  • [ऋत्विजः,]
  • ५। ‘नौ वृ धान्ये’ (३-३-४८) इति निशब्द उपपदे धान्यविशेषेऽभिधेये धातोः घञ्प्रत्यये उपसर्गस्य--’ (६-३-१२२) इति दीर्घे च रूपमेवम्। अपोऽपवादः। नोवारो नाम व्रीहिः। अकृष्टपच्यधान्यम्। निवरा तु कन्या इति।
  • B। ‘… अवपरिमलगन्धः केन शक्यो वरीतुम्।।’ शि। व। ११-३४।
  • ६। ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधः। एवं क्त्वाप्रत्ययादिष्वपि ज्ञेयम्।
  • [पृष्ठम्१२४९+ २७]
  • १। ‘शॄपॄवृङां द्वे रुक् चाभ्यासस्य’ (द। उ। ३-३७) इति ईकन्प्रत्यये, अभ्यासस्य रुगागमे च रूपमेवम्। वर्वरीका = संवरणम्।
  • २। ‘वृङ एण्यः’ (द। उ। ८-३) इति एण्यप्रत्ययः। वृणीते व्रियते वा वरेण्यः = परब्रह्मधाम। परं ब्रह्म, वाचंयमः इति च केचित्।
  • ३। ‘अङ्गूषः’ (द। उ। ९-१९) इति ऊषन्प्रत्यये रूपमेवम्। वरूषः = भोजनम्।
  • ४। औणादिके (द। उ। ९-६१) असुन्प्रत्यये, पुडागमे च रूपमेवम्। रूपस्वाङ्गयो- रभिधेययोः व्रियते तदिति वर्पः = रूपम्।


वृञ् आवरणे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वारयति–ते

अर्थ−
१. मन पराउनु, नियोजित गर्नु,
२. नियमित गर्नु,
३. आच्छादित गर्नु, ढाक्नु ।
अप-
१. संरक्षण गर्नु, ढाक्नु ।
आ-
१. घेर्नु, लपेट्नु ।
नि, निर्-
१. पूरा गर्नु, समाप्त गर्नु,
२. निवारण गर्नु ।
परि-
१. घेर्नु, लपेट्नु, ढाक्नु, छोप्नु,
२. भरोसा गर्नु, विश्वास गर्नु ।
वि-
१. स्पष्ट गर्नु, स्पष्ट हुनु ।
सम्-
लुकाउनु ।
सामा-
१. लपेट्नु ।
अप-
१. छोड्नु,
२. दान दिनु ।

कृदन्तरूपमाला

  • 1“वृञ् आवरणे” 2 आधृषीयः।
  • तेन णिज्विकल्पः।
  • ‘वृञ आवरणे वा णौ वारयेद् वरते वरेत्।।’ 3 इति देवः।
  • वारकः-रिका, विवारयिषकः-षिका, वारकः-रिका, विवरिषकः-विवरीषकः- वुवूर्षकः-र्षिका, वेव्रीयकः-यिका;
  • वारयिता-त्री, विवारयिषिता-त्री, वरिता-वरीता-त्री, विवरिषिता-विवरीषिता- वुवूर्षिता-त्री, वेव्रीयिता-त्री;
  • 4 इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तं, तत्प्रकृतिकसन्नन्तं विना क्रैयादिक- वृणातिवत् 5 ज्ञेयानि।
  • ण्यन्ते तत्प्रकृतिकसन्नन्ते च यथासम्भवमूह्यानि।

प्रासङ्गिक्यः

  • (१६२७)
  • (१०-चुरादिः-१८१४। सक। सेट्। उभ।)
  • (श्लो। ३२)
  • [पृष्ठम्१२५५+ ३०]
  • (१६२२)


वृञ् वरणे


गणः- स्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वृणोति–वृणुते

अर्थ−
१. मन पराउनु, नियोजित गर्नु,
२. नियमित गर्नु,
३. आच्छादित गर्नु, ढाक्नु ।
अप-
१. संरक्षण गर्नु, ढाक्नु ।
आ-
१. घेर्नु, लपेट्नु ।
नि, निर्-
१. पूरा गर्नु, समाप्त गर्नु,
२. निवारण गर्नु ।
परि-
१. घेर्नु, लपेट्नु, ढाक्नु, छोप्नु,
२. भरोसा गर्नु, विश्वास गर्नु ।
वि-
१. स्पष्ट गर्नु, स्पष्ट हुनु ।
सम्-
लुकाउनु ।
सामा-
१. लपेट्नु ।
अप-
१. छोड्नु,
२. दान दिनु ।

कृदन्तरूपमाला

  • 1“वृञ् वरणे” 2 ‘भक्तौ वृणीते वरणे वृणोति वृणुते वृञः।
  • वृञ आवरणे वा णौ वारयेद् वरते वरेत्।।’ 3 इति देवः।
  • ‘वरणे--आवरणे’ इति काशकृत्स्नः।
  • ‘वरणम् स्वीकारश्च्छादनं वा’ इति धा।
  • का।
  • व्याख्या 4
  • 5 वारकः-रिका, वारकः-रिका, 6 विवरिषकः-विवरीषकः-वुवूर्षकः-र्षिका, 7 वेव्रीयकः-यिका;
  • वरिता-वरीता-त्री, वारयिता-त्री, विवरिषिता-विवरीषिता-वुवूर्षिता-त्री, वेव्रीयिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकवृणातिवत् 8 ऊह्यानि।
  • शतरि 9 विवृण्वन् 10 -ती, ण्यन्तात् क्विपि-वाः-वारौ-वारः 11 वारांनिधिः], 12 प्रावारः, 13 प्रवरः उत्तरासङ्गः, 14 यवेभ्यो गां वारयन्, 15 विवारी, 16 परिवारः-परीवाराः, 17 परिवारयमाणाः कण्टका वृक्षं स्वयमेव, 18 वृत्यम् 19, 20 वार्यम्, वर्यः, 21 पतिं- वरा 22, 23 वराकः, 24 वराकी, 25 वरः, 26 नीवारः, वारम्, 27 अश्ववाराः, निवरः, 28 वर्मा-वर्मी, वार्मिकायणिः, संवर्मयिता, चाक्रवर्मणः, वरितुम्- 29 आवरीतुम्, 30 आपहारवर्मणः, 31 वर्णः, वर्णी-ब्रह्मचारी, ब्राह्मणवर्णी, 32 वरुणः, वारुणी, 33 वरुणानी, मैत्रावरुणः, 34 वारि, 35 वर्णुः, 36 वृकः, 37 वर्गः, 38 वरण्डः, 39 वरणम्, वारणः, वरणा, 40 वरसानः, 41 वरूथः, 42 वर्वरः-वर्वरी, 43 वरत्रा, 44 वरुत्रम्, 45 वरूषः, 46 वृशः, सन्नन्तात् उप्रत्यये-विवरिषुः-विवरीषुः-वुवूर्षुः 47

प्रासङ्गिक्यः

  • (१६२६)
  • (५-स्वादिः-१२५४। सक। सेट्। उभ।)
  • (श्लो। ३२)
  • (२-६८)
  • [पृष्ठम्१२५२+ २५]
  • १। सन्नन्ते ‘इट् सनि वा’ (७-२-४१) इति इडागमविकल्पः। तस्य च ‘वॄतो वा’ (७-२-३८) इति वा दीर्घः। अनिट्पक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इति उत्वे, रपरत्वे च ‘हलि च’ (८-२-२७) इति (उपधायाः) इकः दीर्घे च रूपमेवम्।
  • २। यडन्ते ‘रीङ् ऋतः’ (७-४-२७) इति रीङादेशे रूपमेवम्।
  • (१६२२)
  • ३। शतरि, ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुप्रत्ययः। यणादेशः।
  • आ। ‘तेजः क्षात्रं विवृण्वन्तं दिधक्षन्तमिवानलम्।।’ भ। का। ६-४०।
  • [४। ण्यन्तात् क्विपि वाः--वारांनिधिः इति क्षीरस्वामिना उक्तम्।
  • ५। प्रोपसृष्टात् ‘वृणोत्तेराच्छादने’ (३-३-५) इति आच्छादनेऽर्थे घञ्प्रत्ययः। ‘उप- सर्गस्य घञि--’ (६-३-१२२) इति दीर्घे प्रावारः। आच्छादनादन्यत्र प्रवरः-उत्तरासङ्ग इति अबेव। ‘अन्यत्रापि बाहुलकात् क्तिन्विषये प्रवरा गौरिति अबेव भवति’ इति हरदत्तः।
  • B। ‘ययुर्विन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिव।’ भ। का। ७-५३।
  • ६। ‘वारणार्थानामीप्सितः’ (१-४-२७) इति वारणार्थे यवस्य अपादानसंज्ञा भवति। वारणम् प्रवृत्तिविघात इत्यर्थः।
  • ७। णिनिप्रत्यये रूपमेवम्।
  • ८। ‘द्वौ वारावद्य मे वारो गवां वारश्च सञ्चये। परिवारस्तु ण्यन्ताद् बाहुलकेन कर्तरि घञि।।’ इति भोजः इति प्रकिया- सर्वस्वे। परिवारस्तु--ण्यन्तात् बाहुलकेन कर्तरि घञ्। अन्यत्र परी- वाराः = कपयः इति।
  • [पृष्ठम्१२५३+ २७]
  • १। ‘एतिस्तुशास्वृ--’ (३-१-१०९) इति क्यप्प्रत्यये तुकि च रूपमेवम्।
  • आ। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः।’ भ। का। ६-५६।
  • २। ‘ण्यदपीष्यते’ इति क्षीरस्वामी। अस्य मूलं मृग्यम्। तन्मते ण्यति रूपमेवम्। वर्यः इत्यत्र तु ‘अवद्यपण्यवर्याः--’ (३-१-१०१) इति निपात्यते अनिरोधेऽर्थे। वार्योऽन्यः। स्त्रियां वर्या।
  • B। ‘विश्वंभरा साम रथन्तराख्यं पतिंवरा चापि धनञ्जयश्च।’ इति प्रक्रियासर्वस्वे।
  • ३। ‘संज्ञायां भृतॄवृजि--’ (३-२-४६) इति खच्। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुमागमे रूपमेवम्।
  • ४। ‘जल्पभिक्षकुट्टलुण्टवृञः--’ (३-२-१५५) इति षाकन्प्रत्ययः। स्त्रियां ङीष्प्रत्यये वराकी। स्त्रियां बाहुलकात् क्तिनं बाधित्वाऽयमेव भवति इति हरदत्तः।
  • C। ‘मृत्योरुपेतात् परिपालये सतीम् एतां वराकीमथ सोऽभ्युपैतु वा।’ वा। वि। १-५२
  • ५। ‘ग्रहवृदृ--’ (३-३-५८) इत्यप्प्रत्ययः। निवरः इत्यप्। निवरा कन्या। ‘लिङ्गकारिकायामबन्तस्य पुंस्त्वानुशासनं प्रायिकम्’ इति न्यासः (३-३-४८)। इति धातुवृत्तिः।
  • ६। ‘नौ वृ धान्ये’ (३-३-४८) इति निशब्द उपपदे धान्यविशेषेऽभिधेये घञ्प्रत्ययः। अपोऽपवादः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घः। अधान्ये निवरः।
  • ड्। ‘परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः।।’ शि। व। ३-६६।
  • ७। औणादिके मनिन्प्रत्यये रूपमेवम्। वर्मी--इत्यत्र वीह्यादित्वात् इनिप्रत्यये रूपमेवम्।
  • E। ‘आवरीतुमिवाकाशं वरितुं वीनिवोत्थितम्।’ भ। का। ९-२४।
  • ८। ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पः।
  • ९। ‘कॄवृ--’ (द। उ-५-४२) इति नप्रत्यये, गुणे रेफात्परस्य नकारस्य णत्वे च रूपमेवम्।
  • १०। ‘कॄवृ--’ (द। उ। ५-५२) इत्यादिना उनन्प्रत्यये गुणणत्वयोश्च रूपमेवम्।
  • [पृष्ठम्१२५४+ ३०]
  • १। णिजन्तात् औणादिके (द। उ। १-५३) इञ्प्रत्यये रूपम्। वार्यते तदिति वारि जलम्।
  • २। औणादिके (द। उ। १-१४८) णुप्रत्यये रूपमेवम्। वृणोति व्रियते वा वर्णुः = नदविशेषः।
  • ३। ‘सृवृभूशुषि--’ (द। उ। ३-१९) इति कप्रत्ययो भवति किच्च। वृकः--श्वापदः, क्षुद्रश्च।
  • ४। औणादिकः (द। उ। ३-६२) गन्प्रत्ययः। वर्गः = संघातः।
  • ५। औणादिके (द। उ। ५-९) अण्डन्प्रत्यये रूपमेवम्। वृणोति व्रियते वा वरण्डः = काष्ठादिसंघातः।
  • ६। ‘सुयुरुवृञो युच्’ (द। उ। ५-२०) इति युच्प्रत्ययः। वरणम् = कन्याप्रदानम्। ल्युटि सिद्धमपीदं पदं संज्ञार्थमुणादिष्वपि निष्पादितमिति ज्ञेयम्। ‘रूढिशब्दप्रकाराः ताच्छीलिकाः’ (भाष्यम् ३-२-५६) इत्यत्र स्पष्टमिदम्।
  • ७। औणादिके (द। उ। ५-२९) असानच्प्रत्यये रूपमेवम्। वरसानः = मनोरथः।
  • ८। औणादिकः (द। उ। ६-३१) ऊथन्प्रत्ययः। वरूथः = रथगुप्तिः।
  • ९। ‘कॄगॄशॄवृञ्चतिभ्यः ष्वरच्’ (द। उ। ८-४७) इति ष्वरच्प्रत्यये रूपमेवम्। वर्वरः = कामः। स्त्रियां तु ङीषि वर्वरी = नदी।
  • १०। ‘वृञश्चित्’ (द। उ। ८-५८) इति अत्रन्प्रत्ययो भवति। वरत्रा = चर्मरज्जुः।
  • ११। औणादिके (द। उ। ८। ९३) उत्रप्रत्यये रूपमेवम्। वरुत्रम् = अभिप्रेतम्।
  • १२। औणादिके (द। उ। ९-१९) ऊषन्प्रत्यये रूपमेवम्। वरूषः = भोजनम्।
  • १३। औणादिके (द। उ। १०-१५) शक्प्रत्यये रूपमेवम्। वृशः = आर्द्रकम्।
  • आ। ‘संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर्द्रुतम्’।ऽ भ। का। ९-२६।



Correction: