संस्कृत-शब्दकोशः

वृकोदर वृक्क

वृक्

वृक आदाने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्कते

अर्थ−
१. लिनु, मान्य गर्नु, स्वीकार गर्नु ।

कृदन्तरूपमाला

  • 1“वृक आदाने” 2 ‘-- अदने’ इति पाठान्तरमिति क्षी।
  • टीका।
  • वर्ककः-र्किका, वर्ककः-र्किका, विवर्किषकः-षिका, 3 वरीवृककः-किका;
  • वर्किता-त्री, वर्कयिता-त्री, विवर्किषिता-त्री, वरीवृकिता-त्री;
  • -- वर्कयन्-न्ती, वर्कयिष्यन्-न्ती-ती;
  • -- वर्कमाणः, वर्कयमाणः, विवर्किषमाणः, वरीवृक्यमाणः;
  • वर्किष्यमाणः, वर्कयिष्यमाणः, विवर्किषिष्यमाणः, वरीवृकिष्यमाणः;
  • वृकितम्-तः, वर्कितः, विवर्किषितः, वरीवृकितः-तवान्;
  • वृक्-वृकौ-वृकः;
  • -- -- -- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 4 ज्ञेयानि।
  • 5 वृकः 6 7 वर्कणः, 8 वृक्यम्, 9 वर्करः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • वृकोदरः = भीमः।

प्रासङ्गिक्यः

  • (१६२०)
  • (१-भ्वादिः-९२। सक। सेट्। आत्म।)
  • १। यङन्ते ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासस्य रीगागमः।
  • (४२२)
  • २। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कप्रत्ययः। वृकः मृगविशेषः, आयुधजीविसंघविशेषश्च।
  • [पृष्ठम्१२४७+ २५]
  • १। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युच्प्रत्ययस्ताच्छीलिकः।
  • २। ‘ऋदुपधाच्च--’ (३-१-११०) इति क्यप्प्रत्यये रूपमेवम्।
  • ३। बाहुलकाद् अरच्प्रत्यये रूपमेवम्। वर्करः = तरुणः पशुः। अजोऽपि।



Correction: