संस्कृत-शब्दकोशः

वृजी वृञ्

वृज्

वृजी वर्जने


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वृङ्ते–वृक्ते

अर्थ−
१. छोड्नु, त्याग्नु ।

कृदन्तरूपमाला

  • 1“वृजी वर्जने” 2 सूत्रमिदं क्षीरस्वामी दौर्गपाठत्वेन पठति।
  • “इदित् इति आत्रेयमैत्रेय- दुर्गादयः।
  • तथा चाधीयते-- ‘चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’ इति।
  • तथा च शाबरभाष्ये ‘प्रवृञ्जनम्’ इति प्रयुज्यते।
  • तथा च स्वामी-- “वृज इति दौर्गाः, तेषां वृक्ते, वर्जिता इति।
  • शाकटायनस्यापीदित्त्वमेवेष्टम्” इति मा।
  • धातुवृत्तिरिहानुसन्धेया।
  • ‘वृज गतौ’ इति क्षीरस्वामी 3 पठित्वा वृजी इति दौर्गाः।
  • वृक्ते वर्जिता इत्याह’ इत्येवमुक्तम्।
  • यत्त्वत्र पुरुषकारेण ‘क्षीरस्वामिना वृजि इति पठित्वा’ इत्युक्तं तन्नोपलभ्यते क्षीरतरङ्गि- ण्याम्।
  • काशकृत्स्नोऽपि ‘वृजी--’ इत्येव पपाठ।
  • ‘--त्यागे वृत्तौ च’ इति वोपदेवः।
  • ‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 4 इति देवः।
  • वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, 5 वरीवृजकः-जिका;
  • वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री;
  • -- वर्जयन्-न्ती, वर्जयिष्यन्-न्ती-ती;
  • -- -- 6 वर्जमानः, वर्जयमानः, विवर्जिषमाणः, वरीवृज्यमानः;
  • वर्जिष्यमाणः, वर्जयिष्यमाणः, विवर्जिषिष्यमाणः, वरीवृजिष्यमाणः;
  • वृक्-वृग्-वृजौ-वृजः;
  • -- -- -- 7 वृक्तम्-क्तः-क्तवान्, वर्जितम्-तः, विवर्जिषितः, वरीवृजितः-तवान्;
  • वर्जः, वर्जः, प्रवर्जी, विवर्जिषुः, वरीवृजः;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
  • 9 वृज्यः, 10 वृजयः, वृजिकः, 11 वर्गः, वर्ग्यः, कवर्गीयः, वासुदेववर्ग्यः-वासुदेव- वर्गीणः, वासुदेववर्गीयः, 12 एकवर्जम्, 13 वृजिनम्, 14 वृजनम् इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।

प्रासङ्गिक्यः

  • (१६२३)
  • (२-अदादिः-१०२९। सक। सेट्। आत्म।)
  • (भ्वादौ)
  • (श्लो। ५९)
  • ५। ऋदुपधस्याङ्गस्य ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासे रीगागमः। एवं यङन्ते सर्वत्र बोध्यम्।
  • [पृष्ठम्१२५०+ २८]
  • १। निष्ठायाम्, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति अनिट्त्वम्, ततश्च ‘चोः कुः’ (८-२-३०) इति कुत्वे रूपमेवम्।
  • (४२२)
  • २। ‘ऋदुपधाच्च--’ (३-१-११०) इति क्यप्प्रत्यये रूपमेवम्।
  • ३। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्। वृजयो जनपदाः।
  • ४। घञि ‘चजोः कु--’ (७-३-५२) इति कुत्वम्।
  • ५। ‘द्वितीयायाञ्च’ (३-४-५३) इति द्वितीयान्त उपपदे परीप्सायां गम्यमानायां णमुल्प्रत्यये रूपमेवम्। परीप्सा = त्वरा। अत्र निदानं तु ‘अनुदात्तं पदमेकवर्जम्’ (६-१-१५८) इति निर्देश एव। परीप्सायामिति नानुवर्ततेऽत्र, इति हरदत्तः।
  • ६। ‘वृजेः किच्च’ (द। उ। ५-५३) इति इनच्प्रत्ययः, किच्च भवति। वृजिनम् = पापम्। कित्त्वान्न गुणः।
  • ७। ‘कॄपॄवृजि--’ (द। उ। ५-२६) इति छन्दसि विषये क्युप्रत्यये अनादेशे च रूपमेवम्। वृजनम् = निवारणम्, अन्तरिक्षं च।


वृजी वर्जने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वर्जयति–ते

अर्थ−
१. छोड्नु, त्याग्नु ।

कृदन्तरूपमाला

  • 1“वृजी वर्जने” 2 आधृषीयः।
  • तेन णिज्विकल्पः।
  • ‘-- त्यागे’ इति काशकृत्स्नवोपदेवौ।
  • वर्जकः-र्जिका, विवर्जयिषकः-षिका;
  • वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका;
  • वर्जयिता-त्री, विवर्जयिषिता-त्री, वर्जिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री;
  • इत्यादिकानि रूपाणि ण्यन्ते।
  • ण्यन्तप्रकृतिकसन्नन्ते तु चौरादिकछर्दयतिवत् 3 ज्ञेयानि।
  • शुद्ध-तत्प्रकृतिकसन्नन्ते यङन्ते च सर्वाणि रूपाणि भौवादिक- गर्जतिवत् 4 बोध्यानि।
  • 5 अपवृक्तः।

प्रासङ्गिक्यः

  • (१६२५)
  • (१०-चुरादिः-१८१३। सक। सेट्। उभ।)
  • (५७४)
  • (४२२)
  • B। ‘… स्थैर्यं सुदूरमपवृक्तवृतिप्रभावः।।’ धा। का। ३-४८


वृजी वर्जने


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वृणक्ति

अर्थ−
१. छोड्नु, त्याग्नु ।

कृदन्तरूपमाला

  • 1“वृजी वर्जने” 2 ‘-- त्यागे वृतौ च’ इति वोपदेवः।
  • ‘--त्यागे’ इति काशकृत्स्नोऽपि।
  • ‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 3 इति देवः।
  • ‘-- वरणे’ इति धनपालशाकटायनौ।
  • ‘वृजी--’ इति पठित्वा ‘वृची’ वरणे इति दौर्गाः--वर्कः 4’ इति क्षीरतरङ्गिण्यां दृश्यते।
  • ‘वृचि वरणे इति दुर्गादयः पठन्ति’ इति मा।
  • धा।
  • वृत्तिः।
  • काशकृत्स्नधातुपाठे ‘वृची हिंसायाम्’ इति स्वतन्त्रो धातुः दृश्यते।
  • तत्र रुधादौ इतः पूर्वं ‘वृजी वर्जने’ इति च पठितम्।
  • धातुकाव्यव्याख्याने 5 ‘वृची वरणे इति केचित्’ इत्युक्तम्।
  • 6 वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका;
  • वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री;
  • 7 वृञ्जन्-ती, वर्जयन्-न्ती, विवर्जिषन्-न्ती;
  • -- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
  • 9 वृक्तः, 10 11 प्रवर्ग्यम्, 12 वर्जित्वा, 13 वृजिनम्, वर्णः, 14 इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • (१६२४)
  • (७-रुधादिः-१४६१। सक। सेट्। पर।)
  • (श्लो। ५९)
  • (अदादौ वृक्ते)
  • (३। ३)
  • [पृष्ठम्१२५१+ २७]
  • १। शतरि, विकरणप्रत्ययस्य शपः ‘रुधादिभ्यः श्नम्’ (१-३-७८) इति श्नमि ‘श्नस्रोर- ल्लोपः’ (६-४-१११) इत्यकारलोपे, अनुस्वारपरसवर्णयोः कृतयोः णत्वे च रूपमेवम्।
  • (४२२)
  • २। ईदित्त्वात् ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिडागमनिषेधः।
  • आ। ‘संतक्तनद्धवसनाः परिवेगवृक्ताः…।।’ धा। का। ३-३
  • ३। ण्यति, ‘चजोः कु धिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।
  • ४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।
  • ५। ‘वृजेः किच्च’ (द। उ। ५-१३) इति इनच्प्रत्ययः किच्च भवति। कित्त्वान्न गुणः। वृज्यते वृणक्ति वा वृजिनम् = पापम्।
  • ६। वृणोति व्रियते वाऽसौ इति वर्णः = श्वेतादिगुणसंज्ञा, ब्राह्मणादीनां वा। औणादिके (द। उ। ८-४६) नन्प्रत्यये णत्वे च रूपम्।



Correction: