वृजी
वृञ्
वृज्
वृजी वर्जने
गणः- अदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वृङ्ते–वृक्ते
अर्थ−
१. छोड्नु, त्याग्नु ।
कृदन्तरूपमाला
- 1“वृजी वर्जने” 2 सूत्रमिदं क्षीरस्वामी दौर्गपाठत्वेन पठति।
- “इदित् इति आत्रेयमैत्रेय- दुर्गादयः।
- तथा चाधीयते-- ‘चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’ इति।
- तथा च शाबरभाष्ये ‘प्रवृञ्जनम्’ इति प्रयुज्यते।
- तथा च स्वामी-- “वृज इति दौर्गाः, तेषां वृक्ते, वर्जिता इति।
- शाकटायनस्यापीदित्त्वमेवेष्टम्” इति मा।
- धातुवृत्तिरिहानुसन्धेया।
- ‘वृज गतौ’ इति क्षीरस्वामी 3 पठित्वा वृजी इति दौर्गाः।
- वृक्ते वर्जिता इत्याह’ इत्येवमुक्तम्।
- यत्त्वत्र पुरुषकारेण ‘क्षीरस्वामिना वृजि इति पठित्वा’ इत्युक्तं तन्नोपलभ्यते क्षीरतरङ्गि- ण्याम्।
- काशकृत्स्नोऽपि ‘वृजी--’ इत्येव पपाठ।
- ‘--त्यागे वृत्तौ च’ इति वोपदेवः।
- ‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 4 इति देवः।
- वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, 5 वरीवृजकः-जिका;
- वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री;
- -- वर्जयन्-न्ती, वर्जयिष्यन्-न्ती-ती;
- -- -- 6 वर्जमानः, वर्जयमानः, विवर्जिषमाणः, वरीवृज्यमानः;
- वर्जिष्यमाणः, वर्जयिष्यमाणः, विवर्जिषिष्यमाणः, वरीवृजिष्यमाणः;
- वृक्-वृग्-वृजौ-वृजः;
- -- -- -- 7 वृक्तम्-क्तः-क्तवान्, वर्जितम्-तः, विवर्जिषितः, वरीवृजितः-तवान्;
- वर्जः, वर्जः, प्रवर्जी, विवर्जिषुः, वरीवृजः;
- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
- 9 वृज्यः, 10 वृजयः, वृजिकः, 11 वर्गः, वर्ग्यः, कवर्गीयः, वासुदेववर्ग्यः-वासुदेव- वर्गीणः, वासुदेववर्गीयः, 12 एकवर्जम्, 13 वृजिनम्, 14 वृजनम् इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
वृजी वर्जने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वर्जयति–ते
अर्थ−
१. छोड्नु, त्याग्नु ।
कृदन्तरूपमाला
- 1“वृजी वर्जने” 2 आधृषीयः।
- तेन णिज्विकल्पः।
- ‘-- त्यागे’ इति काशकृत्स्नवोपदेवौ।
- वर्जकः-र्जिका, विवर्जयिषकः-षिका;
- वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका;
- वर्जयिता-त्री, विवर्जयिषिता-त्री, वर्जिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री;
- इत्यादिकानि रूपाणि ण्यन्ते।
- ण्यन्तप्रकृतिकसन्नन्ते तु चौरादिकछर्दयतिवत् 3 ज्ञेयानि।
- शुद्ध-तत्प्रकृतिकसन्नन्ते यङन्ते च सर्वाणि रूपाणि भौवादिक- गर्जतिवत् 4 बोध्यानि।
- 5 अपवृक्तः।
प्रासङ्गिक्यः
वृजी वर्जने
गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वृणक्ति
अर्थ−
१. छोड्नु, त्याग्नु ।
कृदन्तरूपमाला
- 1“वृजी वर्जने” 2 ‘-- त्यागे वृतौ च’ इति वोपदेवः।
- ‘--त्यागे’ इति काशकृत्स्नोऽपि।
- ‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 3 इति देवः।
- ‘-- वरणे’ इति धनपालशाकटायनौ।
- ‘वृजी--’ इति पठित्वा ‘वृची’ वरणे इति दौर्गाः--वर्कः 4’ इति क्षीरतरङ्गिण्यां दृश्यते।
- ‘वृचि वरणे इति दुर्गादयः पठन्ति’ इति मा।
- धा।
- वृत्तिः।
- काशकृत्स्नधातुपाठे ‘वृची हिंसायाम्’ इति स्वतन्त्रो धातुः दृश्यते।
- तत्र रुधादौ इतः पूर्वं ‘वृजी वर्जने’ इति च पठितम्।
- धातुकाव्यव्याख्याने 5 ‘वृची वरणे इति केचित्’ इत्युक्तम्।
- 6 वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका;
- वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री;
- 7 वृञ्जन्-ती, वर्जयन्-न्ती, विवर्जिषन्-न्ती;
- -- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
- 9 वृक्तः, 10 11 प्रवर्ग्यम्, 12 वर्जित्वा, 13 वृजिनम्, वर्णः, 14 इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः