संस्कृत-शब्दकोशः

वॄञ् वेकट

वे

वेञ् तन्तुसन्ताने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- वयति–ते

अर्थ−
१. बुन्नु,
२. बाट्नु ।

कृदन्तरूपमाला

  • 1“वेञ् तन्तुसन्ताने” 2 यजादिः।
  • ‘वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
  • ‘व्याप्तौ छादने चाह भट्टिः’ इति धा।
  • का।
  • व्याख्या 4
  • 5 6 वायकः-यिका, 7 वायकः-यिका, 8 विवासकः-सिका, 9 वावायकः-यिका;
  • वाता-त्री, वाययिता-त्री, विवासिता-त्री, वावायिता-त्री;
  • 10 वयन्-न्ती, वाययन्-न्ती, विवासन्-न्ती;
  • -- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककायतिवत् 11 ज्ञेयानि।
  • 12 तन्तुवायः, 13 प्रवाणी-निष्प्रवाणिः, 14 उतम्-उतः-उतवान्, प्रोतः, 15 प्रवयणम्, उत्वा, 16 प्रवाय, 17 ऊतिः, 18 विः = पक्षी, वेमा।
  • 19 आवायः, 20 पटोत्।
  • 21

प्रासङ्गिक्यः

  • (१६४०)
  • (१-भ्वादिः-१००६। सक। अनि। पर।)
  • (श्लो। १०)
  • (२-४३)
  • [पृष्ठम्१२६३+ ३१]
  • १। ‘आदेच उपदेशे--’ (६-१-४५) इत्याकारः। ‘आतो युक्--’ (७-३-३३) इति युगागमः।
  • २। ण्यन्ते सर्वत्रादन्तलक्षणपुगपवादः ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमः।
  • ३। धातोरनिट्त्वात् रूपाण्येवम्। सन्नन्तेऽभ्यासस्येकारः।
  • ४। यङन्ते सर्वत्र औपदेशिकस्य एकारस्य आकार इति विशेषः। नच वाच्यम्। ‘ग्रहिज्यावयि--’ (६-१-१६) इत्यनेन यङन्ते ङित्त्वात् कथं न सम्प्रसारणमिति; यतोऽत्र ‘वयि’ ग्रहणात् ‘वेञो वयिः’ (२-४-४१) इति प्राप्तस्य वय्यादेशवि- शिष्टस्य वेञ एव ग्रहणम्; न त्वस्येति यङन्ते ङित्त्वेऽपि प्रत्ययस्य न सम्प्रसारण- मिति ज्ञेयम्। क्त्वादिषु तु यजादित्वात् सम्प्रसारणमिति विशेषः।
  • ५। ‘-- अशिति’ (६-१-४५) इत्युक्तत्वात् शतरि न आकारः। अयादेशः।
  • (२६३)
  • ६। तन्तून् वयति इति तन्तुवायः। ‘ह्वावामश्च’ (३-२-२) इति कर्मणि उपपदे अण् प्रत्ययः। ‘आतोऽनुपसर्गे कः’ (३-२-३) इत्यस्यापवादः। “आत्वभाविन एजन्तात् आकारान्तनिमित्तकः। प्रत्ययो ज्ञाप्यते सर्वो “ह्वावामश्चे” (३-२-२) त्यणा पुनः।।” इति पदमञ्जरी (६-१-४५)।
  • ७। नवं वासः प्रवयन्त्यस्यामिति प्रवाणी तन्तुवायशलाका। ‘ल्युट् च’ (३-३-११५) इति अधिकरणे ल्युट्। टित्त्वात् स्त्रियां ङीप्।
  • ८। निष्ठायाम् ‘वचिस्वपियजादीनाम् किति’ (६-१-१५) इति सम्प्रसारणे, पूर्वरूपे च रूपमेवम्। एवं क्त्वाप्रभृतिष्वपि ज्ञेयम्।
  • ९। प्रवयणम् इत्यत्र ल्युट्। ‘कृत्यचः’ (८-४-२९) इति णत्वम्।
  • १०। ‘न ल्यपि’ (६-१-४९) इति सम्प्रसारणनिषेधः।
  • ११। ‘ऊतियूति--’ (३-३-९७) इति क्तिन्नन्तो निपातितः। ऊतिः = वयनम्--इति क्षीरस्वामी। काशिकादिषु तु अवतेरूठि स्वरार्थं निपातनम् इत्युक्तम्।
  • १२। ‘वेञो डित्’ (द। उ। १-६२) इति इण्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः। नीडं--वयतीति विः पक्षी; तन्तुवायो वा।
  • १३। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति आर्ङ्पूवकादस्मात् घापवादो घञ्। आवयन्ति अस्मिन् इति आवायः = तन्तुवायवाटिका।
  • १४। पटं वयतीति पटोत्। ‘क्विप् च’ (३-२-७६) इति क्विप्। सम्प्रसारणे पूर्वरूपे च ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। इति प्रक्रियासर्वस्वम्।
  • [पृष्ठम्१२६४+ २८]



Correction: