संस्कृत-शब्दकोशः

वेपन वेम

वेप्

टुवेपृ कम्पने


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वेपते

अर्थ−
१. हल्लनु, काँप्नु ।

कृदन्तरूपमाला

  • 1“टु वेपृ कम्पने” 2 ‘-- चलने’ इति जैन-कातन्त्र-शाकटायन-हेमादयः।
  • वेपकः-पिका, वेपकः-पिका, विवेपिषकः-षिका, वेवेपकः-पिका;
  • वेपिता-त्री, वेपयिता-त्री, विवेपिषिता-त्री, वेवेपिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककेपतिवत् 3 ज्ञेयानि।
  • शानचि 4 5 प्रवेपमानः, 6 वेपथुः 7, 8 प्रवेपनम् 9, 10 विपिनम् इमानि रूपाण्यधिकान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • (१६४३)
  • (१-भ्वादिः-३६७। अक। सेट्। आत्म।)
  • (२६१)
  • [पृष्ठम्१२६५+ २६]
  • आ। ‘प्रवेपमानो नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच।।’ कु। स। ९। ६।
  • १। ‘द्वितोऽथुच्’ (३-३-१९) इति अथुच्प्रत्यये रूपमेवम्।
  • B। ‘विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर्विभङ्गं स्तनयुग्मवल्गितम्।’ भ। का। ११। ३७।
  • २। ‘न भाभूपूकमिगमिप्यायीवेपाम्’ (८-४-३४) इति निषेधात् कृत्स्थस्य नकारस्य णकारादेशो न भवति।
  • C। ‘नातिप्रवेपनं वायोर्मया गोपायिते वने।।’ भ। का। ९-१०७।
  • ३। ‘वेपितुह्योः--’ (द। उ। ५-१८) इति इनन्प्रत्ययः, किच्च, प्रकृतेः ह्रस्वश्च भवति। विपिनम् = गहनम् अब्जं वा। ‘अटव्यरण्यं विपिनं गहनं काननं वनम्’ इत्यमरः।



Correction: