संस्कृत-शब्दकोशः

व्यच व्यजन

व्यच्

व्यच व्याजीकरणे


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- विचति

अर्थ−
१. ठग्नु, फसाउनु, झुक्याउनु ।

कृदन्तरूपमाला

  • 1“व्यच व्याजीकरणे” 2 अत्र क्षीरतरङ्गिण्यां ‘व्यच संभवे’ इति पठित्वा ‘व्यज व्याजीकरणे’ इति पृथक् धातुत्वेन पठ्यते।
  • किं च ‘-- ‘व्याजीकरणे’ लिङ्गाद् घञि कुत्वाभावः- व्याजः’ इति च दृश्यते।
  • ‘-- व्याजीकरणे--निमित्ते’ इति काशकृत्स्नः।
  • मैत्रेयचन्द्रकाशकृत्स्नशाकटायनहेमादयः ‘व्यच--’ इत्येव पठन्ति।
  • ‘व्यच--’ इत्येव न्याय्यम् इति धा।
  • का।
  • व्या।
  • 3 दर्शनाज्ज्ञायते।
  • व्याचकः-चिका, व्याचकः-चिका, 4 विव्यचिषकः-षिका, वाव्य5चकः-चिका;
  • व्यचिता-त्री, व्याचयिता-त्री, विव्यचिषिता-त्री, वाव्य6चिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकक्लथतिवत् 7 ज्ञेयानि।
  • 8 विचन्-ती, 9 विचिता-त्री, 10 घञि- 11 व्याचः, 12 विचित्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • अस्य धातोः ण्यन्ते सर्वत्र व्याचयिता-त्री, इत्येवमादीनि ऊह्यानि।

प्रासङ्गिक्यः

  • (१६५२)
  • (६-तुदादिः-१२९३। सक। सेट्। पर।)
  • (२-७३)
  • ४। सनोऽकृत्त्वात् न सम्प्रसारणम्। ‘-- अनसि’ (वा। १-२-१) इति प्रसज्यप्रतिषेध इति वादिनां मते तु सनोऽपि कित्त्वेन ‘ग्रहिज्यावयिव्यधिवष्टिविचति--’ (६-१-१६) इत्यादिना सम्प्रसारणे, पूर्वरूपे च विविचिषकः-षिका, इत्यादीनि रूपाणीति बोध्यम्।
  • [वेवि]
  • [वेवि]
  • (२८०)
  • ५। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। तस्य ‘सार्वधातुकमपित्’ (१-२-४) इति अपित्सार्वधातुकत्वात् ङिद्वद्भावः। तेन चकारात् किति च संप्रसा- रणम् भवति। अतो गुणाभावश्च। तेन रूपमेवम्।
  • ६। ‘व्यचेः कुटादित्वमनसीति वक्तव्यम्’ (वा। १-२-१) इति ङिद्वद्भावात् संप्रसारण- मिति ज्ञेयम्। उरुव्यचाः इत्यत्र गतिकारकपूर्वस्यापि असुन्। ‘--अनसि’ (वा। १-२-१) इति पर्युदासात् न ङित्त्वम्। पदमञ्जर्याम् उद्विचिता इति। न्यासेऽपि एवमेव।
  • [पृष्ठम्१२६९+ २८]
  • १। घञि कुत्वाभावे रूपमेवम्।
  • २। ‘न क्त्वा सेट्’ (१-२-१८) इत्यकित्त्वेऽपि क्त्वः कृत्त्वाद् ‘व्यचेः कुटादित्वम्--’ (वा। १-२-१) इति ङित्त्वेन संप्रसारणं गुणाभावश्च। तेन रूपमेवम् इति ज्ञेयम्।



Correction: