संस्कृत-शब्दकोशः

व्यधिक्षेप व्यध्व

व्यध्

व्यध ताडने


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- विध्यति

अर्थ−
१. चुट्नु, पिट्नु,
२. दुःख दिनु, सताउनु,
३. चोट पुऱ्याउनु ।

कृदन्तरूपमाला

  • 1“व्यध ताडने” 2 ‘-- ताडनं--प्रायेण विदारणपर्यन्तम्’ इति धा।
  • का।
  • व्या।
  • 3
  • व्याधकः-धिका, व्याधकः-धिका, विव्यत्सकः-त्सिका, 4 वेविधकः-धिका;
  • व्यद्धा-व्यद्ध्री, व्याधयिता-त्री, विव्यत्सिता-त्री, वेविधिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि प्लीधातुवत् 5 बोध्यानि।
  • 6 मृगावित्- 7 मर्मावित्-दैत्यावित्-हृदयावित्, व्यद्धा, 8 व्यधः, आव्याधः, 9 आविधम्, विध्यन्, 10 11 व्याधः, णमुलि-व्याधं-व्याधम् 12, 13 विधुः, 14 विधुरः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • यगन्ते 15 विध्यमानः आविद्धम्-आविद्धः, आविद्धवान्, विद्धिः, विद्ध्वा।

प्रासङ्गिक्यः

  • (१६५४)
  • (४-दिवादिः-११८१। सक। अनि। पर।)
  • (२-६३)
  • २। यङन्ते ‘ग्रहिज्यावयिव्यधि--’ (६-१-१६) इति सम्प्रसारणम्। तच्च ‘न सम्प्र- सारणे सम्प्रसारणम्’ (६-१-३७) इति निषेधात् पूर्वस्य वकारस्य न। यकारस्य सम्प्रसारणे पूर्वरूपादिकेषु च कृतेषु रूपमेवम्।
  • (१०८१)
  • ३। मृगं आविध्यतीति मृगावित्। ‘ग्रहिज्यावयिव्यधि--’ (६-१-१६) इति संप्रसारणे, ‘नहिवृतिवृषिव्यधिरुचि--’ (६-३-११६) इति क्विप्प्रत्ययान्तेषु उत्तर- पदेषु पूर्वपदस्य दीर्घः संहितायां विषये। दैत्यावित् इत्यादिष्वपि एवमेव प्रक्रिया ज्ञेया।
  • B। ‘तापिञ्छनीकाशरुचिप्रतीचि स्वर्वैरिमर्माविधि पुंसि रागात्।’ वा। वि। ३-२१।
  • ४। ‘व्यधजपोरनुपसर्गे’ (३-३-६१) इति अनुपसर्गे अप्प्रत्ययः। घञोऽपवादः। उपसर्गे तु आव्याधः इति।
  • ५। ‘घञर्थे कविधानं स्थास्नापाव्यधि--’ (वा। ३-८-५८) इति अकर्तरि च कारके संज्ञायाम् कप्रत्ययो भवति। घञोऽपवादः। सम्प्रसारणादिकम्। आविध्यन्ति अनेनेत्याविधम् शस्त्रम्।
  • [पृष्ठम्१२७१+ २८]
  • १। ‘श्याद्व्यध--’ (३-१-१४१) इत्यनुपसर्गे धातोः णप्रत्ययो भवति।
  • आ। ‘व्याधं व्याधममूढौ तौ यमसाच्चक्रतुर्विषौ।।’ भ। का। ५-३।
  • २। ‘पॄभिदिव्यधि--’ (द। उ। १-१०८) इति कुप्रत्यये संप्रसारणे च रूपमेवम्। विध्यतीति विधुः = आयुधः, विष्णुशशिवाय्वग्नयश्च।
  • ३। ‘विदिभिदि--’ (३-२-१६२) इत्यत्र ‘व्यधेः संप्रसारणं कुरच्च’ (वा। ३-२-१६२) इति कुरच्प्रत्यये संप्रसारणे च विधुरः इति रूपं भवति। प्रक्रियासर्वस्वे तु औणादिके कुरच्प्रत्यये रूपमिदं साधितम्।
  • B। ‘मर्माविद्भिस्तमस्काण्डैः विध्यमानोऽप्यनेकधा।।’ भ। का। ९-६६।



Correction: