संस्कृत-शब्दकोशः

व्ययित व्यर्थ

व्यय्

व्यय गतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- व्ययति–ते

अर्थ−
१. जानु ।

कृदन्तरूपमाला

  • 1“व्यय गतौ” 2 ‘वित्तत्यागे व्यययति व्ययति व्ययते गतौ।’ 3 इति देवः।
  • व्यायकः-यिका, व्यायकः-यिका, विव्ययिषकः-षिका, वाव्ययकः-यिका;
  • व्ययिता-त्री, व्याययिता-त्री, विव्ययिषिता-त्री, वाव्ययिता-त्री;
  • व्ययन् 4 -न्ती, व्याययन्-न्ती, विव्ययिषन्-न्ती, वाव्ययन्-न्ती;
  • -- व्ययिष्यन्-न्ती-ती, व्याययिष्यन्-न्ती-ती, विव्ययिषिष्यन्-न्ती-ती;
  • -- व्ययमानः, व्याययमानः, विव्ययिषमाणः, वाव्यय्यमानः;
  • व्ययिष्यमाणः, व्याययिष्यमाणः, विव्ययिषिष्यमाणः, वाव्ययिष्यमाणः;
  • 5 व्यत्-व्ययौ-व्ययः;
  • -- -- व्ययितम्-तः, व्यायितम्-तः, विव्ययिषितः, वाव्ययितः-तवान्;
  • व्ययः, प्रव्ययी, व्ययः, विव्ययिषुः, वाव्ययः;
  • व्ययितव्यम्, व्याययितव्यम्, विव्ययिषितव्यम्, वाव्ययितव्यम्;
  • व्ययनीयम्, व्यायनीयम्, विव्ययिषणीयम्, वाव्ययनीयम्;
  • व्याय्यम्, व्याय्यम्, विव्ययिष्यम्, वाव्यय्यम्;
  • व्यय्यमानः, व्याय्यमानः, विव्ययिष्यमाणः, वाव्यय्यमाणः;
  • ईषद्व्ययः-दुर्व्ययः-सुव्ययः;
  • -- -- व्ययः, व्यायः, विव्ययः, वाव्ययः;
  • व्ययितुम्, व्याययितुम्, विव्ययिषितुम्, वाव्ययितुम्;
  • 6 7 व्यतिः, व्यायना, विव्ययिषा, वाव्यया;
  • व्ययनम्, व्यायनम्, विव्ययिषणम्, वाव्ययनम्;
  • व्ययित्वा, व्याययित्वा, विव्ययिषित्वा, वाव्ययित्वा;
  • प्रव्यय्य, प्रव्याय्य, प्रविव्ययिष्य, प्रवाव्यय्य;
  • व्ययम् २, व्ययित्वा २, व्यायम् २, व्याययित्वा २, विव्ययिषम् २, विव्ययिषित्वा २, वाव्ययम् २;
  • वाव्ययित्वा २।

प्रासङ्गिक्यः

  • (१६५५)
  • (१-भ्वादिः-८८१। सक। सेट्। उभ।)
  • (श्लो। १५०)
  • C। ‘चाय्या व्ययद्दाशविलोकमेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २-२७।
  • ४। क्विपि वलिलोपे तुकि रूपमेवम्।
  • [पृष्ठम्१२७२+ २५]
  • १। क्तिनि वलिलोपे रूपमेवम्।


व्यय वित्तसमुत्सर्गे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- व्यययति–ते

अर्थ−
१. खर्च गर्नु, व्यय गर्नु, उडाउनु (पैसा) ।

कृदन्तरूपमाला

  • 1“व्यय वित्तसमुत्सर्गे” 2 अदन्तः।
  • ‘वित्तत्यागे व्यययति व्ययति व्ययते गतौ।’ 3 इति देवः।
  • ‘व्यय गतौ’ इति, ‘वित्तसमुत्सर्गे’ समुत्सर्गस्त्यागः।
  • वित्तयति, … व्यय वित्तसमुत्सर्गे इति सम्याः” इति क्षीरतरङ्गिण्यां दृश्यते।
  • इतः पूर्वं चुरादावग्रे ‘व्यय क्षये’ इति पठित्वा ‘व्यप व्यय इति कौशिकः, व्युदि व्यय इति नन्दी’ इति च तत्रोपात्तमपीहानुसन्धेयम्।
  • ‘षट्ट हिंसायाम्’ 4 इत्यत्र “इह ‘व्यय क्षये’ इति नन्दी पठति।
  • व्यपेत्यपरे।
  • मैत्रेयदेवादयस्तु उभयमपि न पठन्ति” इति धातुवृत्तौ दृश्यते।
  • काशकृत्स्नेनापि ‘व्यय क्षये’ ‘व्यय वित्तसमुत्सर्गे’ इति पृथक्त्वेन पठितम्।
  • व्ययकः-यिका, विव्यययिषकः-षिका, व्यययिता-त्री, विव्यययिषिता-त्री;
  • इत्येवमादीनि रूपाणि ऊह्यानि।
  • अस्य धातोः अदन्तपाठसामर्थ्यात् ण्यन्ते ण्यन्तप्रकृतिकसन्नन्ते च सर्वत्र अल्लोपस्य स्थानिवत्त्वात् उपधावृद्धिः नेति ज्ञेयम्।
  • बाहुलकात् णिजभावपक्षे शानचि- 5 अपव्ययमानः इति।

प्रासङ्गिक्यः

  • (१६५६)
  • (१०-चुरादिः-१९३२। सक। सेट्। उभ।)
  • (श्लो। १५०)
  • (चुरादौ)
  • आ। ‘पृष्टोऽपव्ययमानस्तु…।’ मनुः (८-६०)।



Correction: