संस्कृत-शब्दकोशः

व्यृद्धि व्येञ्

व्ये

व्येञ् संवरणे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- व्ययति–ते

अर्थ−
१. ढाक्नु, छोप्नु,
२. टाँका लगाउनु, सिउनु ।

कृदन्तरूपमाला

  • 1“व्येञ् संवरणे” 2 यजादिः।
  • ‘-- संवरणे--उपयोगितायाम्’ इति काशकृत्स्नः।
  • ‘-- संवरणम्--आच्छादनम्’ इति क्षीरस्वामी।
  • व्यायकः-यिका, 3 व्यायकः-यिका, विव्यासकः-सिका, 4 वेवीयकः-यिका;
  • व्याता-त्री, व्याययिता-त्री, विव्यासिता-त्री, वेवीयिता-त्री;
  • 5 इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकवयतिवत् 6 ज्ञेयानि।
  • शतरि व्ययन्-न्ती, 7 वीतम्-तः, क्विपि-संवीः-संव्यौ-संव्यः;
  • 8 दोषवीः, 9 संव्याय, 10 परिवीय-परिव्याय, संवीय-संव्याय, 11 नीवी 12, 13 नीविः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।

प्रासङ्गिक्यः

  • (१६५९)
  • (१-भ्वादिः-१००७। सक। अनि। उभ।)
  • १। णौ परतः ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमो भवति। आदन्तलक्षणपुकोऽपवादः।
  • २। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति यङि परतः संप्रसारणे पूर्वरूपत्वे, ‘हलः’ (६-४-२) इति दीर्घे द्विर्वचने च रूपमेवम्।
  • [पृष्ठम्१२७४+ ३१]
  • (१६४०)
  • १। निष्ठायाम् यजादित्वात् संप्रसारणे, दीर्घे च रूपमेवम्। ‘वपादेस्तु यवोब् विश्वोट् दोषवीश्च पटोत्तुकि।’ इति प्र। सर्वस्वे।
  • २। दोषान् व्ययते इति दोषवीः। क्विपि रूपमेवम्।
  • ३। ल्यपि ‘व्यश्च’ (६-१-४३) इति संप्रसारणनिषेधः। तेन एवं रूपम्।
  • ४। परिपूर्वकात् व्येञस्तु ‘विभाषा परेः’ (६-१-४४) इति ल्यपि सम्प्रसारणनिषेधबि- कल्पात् रूपद्वयमिति बोध्यम्। ‘समो वा इत्येके’ इति; तेन संवीय-- संव्याय इति प्र। सर्वस्वे।
  • ५। ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति ङीषि रूपमेवम्। नीवी मूलधनम् इति केचित्। नीवी-वस्त्रग्रन्थिः।
  • आ। ‘नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः।।’ कु। संभवे १-३८।
  • ६। ‘नौ व्यो यलोपः पूर्वपदस्य च दीर्घः’ (द। उ। १-६४) इति नावुपपदे धातोः इण्- प्रत्ययः, डिच्च यलोपः पूर्वपदस्य च दीर्घः। निवीयतेऽसाविति नीविः।



Correction: