शठोदरक
शडि
शठ्
शठ श्लाघायाम्
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शाठयते
अर्थ−
१. प्रशंसा गर्नु, स्तुति गर्नु ।
कृदन्तरूपमाला
- 1“शठ श्लाघायाम्” 2 आकुस्मीयः।
- 3 ‘… श्लाघायां शाठयेत णौ।’ 4 इति देवः।
- ‘शल--’ इति कौशिकः इति क्षीरतरङ्गिण्याम्।
- शाठकः-ठिका, शिशाठयिषकः-षिका;
- शाठयिता-त्री, शिशाठयिषिता-त्री;
- इत्यादीनि रूपाणि सर्वाणि चौरादिककाणयतिवत् 5 ऊह्यानि।
- यत्प्रत्यये 6 शाठ्यम्।
प्रासङ्गिक्यः
शठ असंस्कारगत्योः
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शाठयति–ते
अर्थ−
१. ठीक नबनाउनु,
२. पूरा नगर्नु, समाप्त नगर्नु, बीचमा छोड्नु,
३. जानु ।
कृदन्तरूपमाला
- 1“शठ असंस्कारगत्योः” 2 ‘गत्यसंस्कारधात्वर्थे शाठयेच्छ्वाठयेदिति।।’ 3 इति देवः।
- ‘-- संस्कारगत्योः’ इति मैत्रेय-काशकृत्स्न-कातन्त्रादयः।
- ‘-- संस्कारगत्योः--अनृतभाषणे गतौ च’ इति काशकृत्स्नः।
- ‘-- आलस्ये च’ इति धा।
- का।
- व्याख्यायाम् 4 ‘-- आलस्ये गत्यसंस्कृतसंस्कृते’ इति वोपदेवः।
- शाठकः-ठिका, शिशाठयिषकः-षिका;
- शाठयिता-त्री, शिशाठयिषिता-त्री;
- शाठयन्-न्ती, शिशाठयिषन्-न्ती, शाठयिष्यन्-न्ती-ती, शिशाठयिषिष्यन्-न्ती-ती;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककाणयतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः
शठ कैतवे हिंसाक्लेशनयोश्च
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शठति
अर्थ−
१. ठग्नु,
२. मार्नु, दुःख दिनु, सताउनु,
३. दुःख सहनु, पीडा सहनु ।
कृदन्तरूपमाला
- 1“शठ शाठ्ये कैतवे च” 2 ‘कैतवे शठतीति स्यात् श्लाघायां शाठयेत णौ।’ 3 इति देवः।
- ‘शठ कैतवे च’ चकारात्--4 ‘हिंसासंक्लेशनयोः’ इत्युक्तावर्थौ गृह्येते।’ इति पुरुषकारः।
- धातुवृत्तावपि एवमेव।
- क्षीरस्वामिशाकटा- यनादयः पुनश्चकारं नैव पठन्ति।
- काशकृत्स्नधातुपाठे तु ‘-- कैतवे च -- द्यूते स्पर्धायां च’ इति दृश्यते।
- ‘-- हिंसायां कैतवे च’ इति चन्द्रः।
- ‘-- वधक्लेशकैतवे’ इति वोपदेवः।
- शाठकः-ठिका, शाठकः-ठिका, शिशठिषकः-षिका, शाशठकः-ठिका;
- शठिता-त्री, शाठयिता-त्री, शिशठिषिता-त्री, शाशठिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककठतिवत् 5 ऊह्यानि।
- शठः = नैकृतिकः।
प्रासङ्गिक्यः
शठ सम्यग् अवभाषणे
गणः- चुरादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शठयति–ते
अर्थ−
१. दुर्भाषण गर्नु, दुर्वचन बोल्नु,
२. कटु वचन बोल्नु,
३. मौन धारण गर्नु, नबोल्नु, चूप लाग्नु ।
कृदन्तरूपमाला
- 1“शठ सम्यगवभाषणे” 2 कथादिः, अदन्तश्च।
- ‘शठयेत् श्वठयेदेते द्वे सम्यगवभाषणे।’ 3 इति देवः।
- ‘-- सम्यगाभाषणे सम्यग्वचनक्रियायामिति क्षीरस्वामी’ इति पुरुषकारः।
- क्षीरतराङ्गण्यां तु ‘-- प्रसम्यगाभाषणे’ इत्येव दृश्यते।
- शठकः-ठिका, शिशठयिषकः-षिका;
- शठयिता-त्री, शिशठयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः