संस्कृत-शब्दकोशः

शदक शद्रि

शद्

शद्लृ शातने


गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- शीयते

अर्थ−
१. जीर्ण हुनु, विस्तारै कम हुनु, वैलाउनु,
२. खस्नु, लड्नु,
३. जानु,
४. तल फ्याँक्नु, तल लडाउनु ।

कृदन्तरूपमाला

  • 1“शदॢ शातने” 2 शादकः-दिका, शादकः-दिका-शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः- दिका;
  • शीयमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकशीयतिवत् 3 ज्ञेयानि।
  • भौवादिकधात्वपेक्षया नास्य धातो रूपेषु भेदः।
  • ‘शदेः शितः’ 4 इति तङ्विधानात् नापि शताऽस्तीति प्रयोजनं कल्पयितुं शक्यते, येन ‘आच्छीनद्योर्नुम्’ 5 इति नुम्विकल्पः प्रयोजयितुं शक्येत।
  • ततश्च विफलत्वे सति यथाकथञ्चित् स्वरभेदः प्रयोजनत्वेन कल्प्यः इति प्राञ्चः।
  • वस्तुतस्तु शपः-शप्रत्ययस्य च प्रसक्त्यभावात्--शब्निमित्तकः पित्स्वरोऽनुदात्तः, शनिमित्तकः प्रत्ययस्वरोऽपि लक्ष्याभावादेव दुर्लभ इति नैतदपि प्रयोजनं वक्तुं शक्यमित्यास्तां तावत्।

प्रासङ्गिक्यः

  • (१६८२)
  • (६-तुदादिः-१४२८। सक। अनि। पर।)
  • (१६८१)
  • (१-३-६०)
  • (७-१-८०)


शद्लृ शातने


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- शीयते

अर्थ−
१. जीर्ण हुनु, विस्तारै कम हुनु, वैलाउनु,
२. खस्नु, लड्नु,
३. जानु,
४. तल फ्याँक्नु, तल लडाउनु ।

कृदन्तरूपमाला

  • 1“शदॢ शातने” 2 ज्वलादिः।
  • ‘-- अवशातने’ इति जैनः।
  • शातनम्-तनूकरणमिति क्षीरस्वामी।
  • ‘-- शातनम्-तीक्ष्णीभावः।
  • विशीर्णतायामित्येके।
  • 3 गतावप्यस्ति’ इति धा।
  • का।
  • व्याख्यायाम् 4
  • “‘-- विशातने’ विशीर्णतायां वर्तते, शातनं-विषयभावेन निर्दिश्यते प्रसिद्धत्वात्” इति मैत्रेयः-इति मा।
  • धा।
  • वृत्तिः।
  • शादकः-दिका, शादकः-दिका, पुष्पाणां 5 शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-दिका;
  • शत्ता-शत्री, शादयिता-शातयिता-त्री, शिशत्सिता-त्री, शाशदिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगत्यर्थकपतॢ 6 धातुवत् ऊह्यानि।
  • 7 शादः, शदः, शाद्वलम्, 8 शद्रुः, 9 शत्रुः।
  • 10 शीयमानः।

प्रासङ्गिक्यः

  • (१६८१)
  • (१-भ्वादिः-८५५। सक। अनि। पर।)
  • २। ‘शदेरगतौ तः’ (७-३-४२) इति गतिभिन्नार्थे तकारविधानाज्ज्ञाप्यते, धातोरस्य गतिरप्यर्थ इति।
  • (२-२४)
  • ३। णिजन्ते सर्वत्र ‘शदेरगतौ तः’ (७-३-४२) इति दकारस्य तकारः। गत्यर्थकत्वे तु ‘गाः शादयन् गोपालकः’ इत्यादिप्रयोगे न तकारः। ‘पुष्पाणि शातयन्’ इत्यादिषु तु भवत्येव। एवं सर्वत्र ज्ञेयम्।
  • (९६८)
  • ४। संज्ञायां घञ्। शादः = तृणविशेषः। शद इति तु आयुधविशेषः। संज्ञायामत्र घः। शाद्वलम् इति तु शादाः सन्त्यस्मिन् देशे इत्यर्थे ‘नडशादाद् ड्वलच्’ (४-२-८८) इति मत्वर्थीयो ड्वलच्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः।
  • [पृष्ठम्१२८५+ २८]
  • २। शातयतीति शत्रुः = अरिः। णिजन्तात् गतिभिन्नार्थे तकारान्तात् धातोः ‘रुशदिभ्यां त्रुन्’ (द। उ। १-१५९) इति त्रुन्प्रत्ययः; बाहुलकात् णेर्लोपः, वृद्ध्य- भावश्च। प्रत्ययलक्षणेन णिजाश्रिता वृद्धिः; इत्यादिकमूह्यम्।
  • ३। ‘शदेः शितः’ (१-३-६०) इति आत्मनेपदम्। शिद्भावी यः शदिधातुः स तङं लभते इति निष्कृष्टोऽर्थः। विस्तरस्तु न्यासपदमञ्जर्योर्द्रष्टव्यः। ‘पाघ्राघ्मास्था- म्नादाण्दृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः’ (७-३-७८) इति शिति प्रत्यये परे प्रकृतेः ‘शीय’ इति सर्वादेशः। एवञ्चास्य धातोः शता नेति अवधेयम्।



Correction: