संस्कृत-शब्दकोशः

शमु शम्पा

शम्

शम् (अव्यय)


अर्थ−
समृद्धि, कुशलता वा प्रसन्नतालाई बुझाउने शब्द ।


शम आलोचने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शामयते

अर्थ−
१. प्रसिद्ध गर्नु, प्रष्ट रूपमा देखाउनु ।

कृदन्तरूपमाला

  • 1“शम आलोचने” 2 आकुस्मीयः।
  • ‘आलोचने शामयते शाम्यत्युपशमे श्यनि।’ 3 इति देवः।
  • शामकः-मिका, शिशामयिषकः-षिका;
  • शामयिता-त्री, शिशामयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककालयतिवत् 4 ऊह्यानि।
  • शामा-कृष्णवर्णा, शाकविशेषः।

प्रासङ्गिक्यः

  • (१६८६)
  • (१०-चुरादिः-१६९६। सक। सेट्। आत्म।)
  • (श्लो। १४९)
  • (१७५)


शमु उपशमे


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शाम्यति

अर्थ−
१. सान्त्वना दिनु, शान्त गर्नु,
२. शान्त हुनु,
३. मन अधीनमा राख्नु, स्वस्थ हुनु ।
णिच्- (शामयते)
१. सूक्ष्म रूपले हेर्नु ।
दर्शनातिरिक्त- (शमयति)
१. शान्त गर्नु ।
उप -
१. शान्त गर्नु ।
नि-
१. सुन्नु,
२. प्रतिबन्ध गर्नु, रोक्नु ।
प्र-
१. शान्त हुनु, स्थिर हुनु,
२. नष्ट गर्नु ।

कृदन्तरूपमाला

  • 1“शमु उपशमने” 2 शमादिः।
  • ‘आलोचने शमयते शाम्यत्युपशमे श्यनि।’ 3 इति देवः।
  • 4 शमकः-मिका, 5 निशामकः-मिका, शमकः-मिका, शिशमिषकः-षिका, शंशमकः, शम्शमकः-मिका;
  • शमिता-त्री, निशामयिता रूपम्, निशमयिता वचः, शिशमिषिता-त्री, शंशमिता-शम्शमिता-त्री;
  • 6 शाम्यन् 7 -न्ती, निशामयन् 8 -न्ती, निशमयन् वचः, शिशमिषन्-न्ती;
  • -- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकदाम्यतिवत् 9 ज्ञेयानि।
  • 10 शान्तः, 11 शान्तः 12 -शमितः 13, 14 प्रशान्, 15 शमी, 16 शमनः, 17 शान्तिः 18, 19 शमित्वा-शान्त्वा, 20 21 निशाम्य-निशम्य, 22 शमं शमं, 23 शण्ढः, 24 शमलम्, 25 शम्बलम्, 26 शङ्खः, शम्बुः, इत्यादीनि रूपाण्यधिकान्यत्रेति विशेषः।
  • णिजन्तात् ल्यपि-प्रशमय्य इति च विशेषः।

प्रासङ्गिक्यः

  • (१६८५)
  • (४-दिवादिः-१२०१। अक। सेट्। पर।)
  • (श्लो। १४९)
  • १। ण्वुलि ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।
  • २। धातोरमन्तत्वेन ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादिः) इति मित्त्वम्। तेन ‘मितां ह्रस्वः’ (६-४-९२) इति णौ सर्वत्र ह्रस्वः। ‘शमो दर्शने’ (ग। सू। भ्वादिः) इति दर्शनार्थे मित्त्वं निषिद्धम्। एवञ्च ‘निशामयति रूपम्’ इत्यत्र मित्त्वाभावात् दीर्घः, ‘निशमयति वचः’ इत्यत्र मित्त्वम्, इति बोध्यम्।
  • ३। शतरि, शपः श्यनि, ‘शमामष्टानां--’ (७-३-७४) इति दीर्घः।
  • आ। ‘अशाम्यदात्मापि तमी नमामि दमिप्रियं श्रान्तिहरं भवन्तम्।’ धा। का। २-६५।
  • B। ‘रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती।’ या। अ। १३-५८।
  • (८१९)
  • ४। निष्ठायां ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधः। ‘अनुनासिकस्य क्विझलोः--’ (६-४-१५) इति दीर्घः। अनुस्वारपरसवर्णौ।
  • ५। ण्यन्तात् निष्ठायां ‘वा दान्तशान्त--’ (७-२-२७) इति सूत्रे निपातनात् णिलुक्, अनिट्त्वं च पक्षे भवतः। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः। दीर्घोऽपि नित्यो निपातनादेव। पक्षे शमितः इति।
  • C। ‘दमितारिः प्रशान्तौजा नादापूरितदिङ्मुखः।’ भ। का। ९-२०।
  • ड्। ‘शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम्।’ शि। व। ६-३३।
  • ६। प्रशाम्यतीति प्रशान्। क्विपि ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारः। स्वरादिषु पाठात् अव्ययत्वम्।
  • ७। तच्छीलादिषु कर्तृषु ‘शमित्यष्टाभ्यो घिनुण्’ (३-२-१४१) इति घिनुण्प्रत्ययः। प्रत्ययस्य णित्त्वेऽपि धातोर्मान्तत्वात् न वृद्धिः।
  • ८। शमयतीति शमनः = यमः। बाहुलकात् नन्द्यादित्वात् कर्तरि ल्युप्रत्ययः।
  • ९। क्तिचि, ‘तितुत्र--’ (७-२-९) इतीण्निषेधः। दीर्घानुस्वारपरसवर्णाः।
  • E। ‘प्रायोपासनया शान्तिं मन्वानो वालिसम्भवः।’ भ। का। ७-७३।
  • १०। उदित्त्वात् क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घानुस्वारपरसवर्णादिकं यथाशास्त्रमूह्यम्।
  • [पृष्ठम्१२८८+ २८]
  • आ। ‘रतौ ह्रिया यत्र निशाम्य (निशम्य) दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः।’ शि। व। ३-४५।
  • B। ‘शमं शमं नभस्वन्तः पुनन्ति परितो जगत्।’ भ। का। १८-२७।
  • १। औणादिके (द। उ। ५-११) ढप्रत्यये रूपमेवम्। शान्तमस्य स्पर्शनेन्द्रियमिति शण्ढः = नपुंसकः।
  • २। औणादिके (द। उ। ८-११२) कलप्रत्यये रूपम्। शमयति शाम्यते वा तत् प्राय- श्चित्तादिभिरिति शमलम् = दुरितम्।
  • ३। औणादिके (द। उ। ८-११४) कलप्रत्यये रूपम्। अस्य बुगागमश्च निपातनात्। शाम्यते मार्गपरिश्रान्तोऽनेनेति शम्बलम् = पाथेयम्, सञ्चयश्च।
  • ४। औणादिके (द। उ। १०-१५) इति खप्रत्यये रूपमेवम्। शाम्यतीति शङ्खः = प्रसिद्धः।



Correction: