संस्कृत-शब्दकोशः

शर्वाणी शर्शरीक

शर्व्

शर्व हिंसायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शर्वति

अर्थ−
१. चोट पुऱ्याउनु, घाइते बनाउनु, घाउ लगाउनु,
२. मार्नु ।

कृदन्तरूपमाला

  • 1“शर्व हिंसायाम्” 2 शर्वकः-र्विका, शर्वकः-र्विका, शिशर्विषकः-षिका, शाशर्वकः-र्विका;
  • शर्विता-त्री, शर्वयिता-त्री, शिशर्विषिता-त्री, शाशर्विता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककर्वतिवत् 3 ज्ञेयानि।
  • शर्वः- 4 शर्वाणी।

प्रासङ्गिक्यः

  • (१६९०)
  • (१-भ्वादिः-५८५। सक। सेट्। पर।)
  • (१७३-आ)
  • १। शर्वति हिनस्तीति शर्वः शिवः। शर्वस्य स्त्री इत्यर्थे ‘इन्द्रवरुणभवशर्व--’ (४-१-४९) इति पुंयोगे ङीषानुगौ भवतः। ‘शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला’ इत्यमरः।



Correction: