संस्कृत-शब्दकोशः

शिक्षिताक्षर शिखण्ड

शिक्ष्

शिक्ष विद्योपादाने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शिक्षते

अर्थ−
१. अभ्यास गर्नु, अध्ययन गर्नु, सिक्नु ।

कृदन्तरूपमाला

  • 1“शिक्ष विद्योपादाने” 2 3 शिक्षा।
  • ‘शिक्षेर्जिज्ञासायाम्’ 4 इति वार्त्तिकं नियमार्थम् इत्यभिप्रयन्तः, अयं धातुः शिक्षाभिन्नार्थे परस्मैपदी इति क्षीरस्वामिप्रभृतय आहुः।
  • 5 शकॢधातोः सन्नन्तस्य विध्यर्थत्वसम्भवात् नैतन्नियमार्थमिति कैयटन्यासपदमञ्जरीधातुवृत्त्यादिषु स्पष्टम्।
  • अतः सर्वत्रात्मनेपदमेवेति सिद्धान्तः।
  • सर्वाण्यपि रूपाणि यथासम्भवमूह्यानि।

प्रासङ्गिक्यः

  • (१७०५)
  • (१-भ्वादिः-६०५। सक। सेट्। आत्म।)
  • ३। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।
  • (वा। १-३-२१)
  • ४। शकॢधातोः सन्नन्ते ‘शिशिक्ष’ इति स्थिते ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। तेन ‘शिक्ष’ इति सन्नन्ता प्रकृतिः सम्पन्नेति ज्ञेयम्।



Correction: