संस्कृत-शब्दकोशः

शिञ्जिनी शिट

शिञ्ज्

शिजि अव्यक्ते शब्दे


गणः- अदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शिङ्क्ते

अर्थ−
१. स्पष्ट शब्द बोल्नु, भुनभुन, गुनगुन, खलखल आदि आवाज हुनु ।

कृदन्तरूपमाला

  • 1“शिजि अव्यक्ते शब्दे” 2 शिञ्जानः-शानच्।
  • ‘तालैः शिञ्जद्वलय--’ 3 इति तु ‘अनुदा- त्तेत्वप्रयुक्तमात्मनेपदमनित्यम्’ इति परिभाषया 4 साधुरिति माधवः।
  • ‘अव्यक्ते शब्दे’ इत्युक्तावपि भूषणध्वनावेवायं कविभिः प्रयुज्यते--यथाहामरसिंहः-- ‘भूषणानां तु शिञ्जितम्’ इति।
  • एतच्च शब्दशक्तिस्वाभाव्यादुपपद्यते।
  • 5 शिञ्जिनी--आवश्यकार्थे ‘आवश्यकाधमर्ण्ययोः--’ 6 इति णिनि- प्रत्यये तदन्तात् ङीष्।
  • शिञ्जा-पचाद्यचि टाप्।
  • इतराणि समस्तान्यपि रूपाणि आदादिकणिजिधातुवत् 7 बोध्यानि।

प्रासङ्गिक्यः

  • (१७०८)
  • (२-अदादिः-१०२७। अक। सेट्। आत्म।)
  • (मेघदूतम् २-१९)
  • (९८)
  • [पृष्ठम्१२९७+ २७]
  • (३-३-१७०)
  • (६७२)



Correction: