शीकृ
शीघसञ्चारिन्
शीक्
शीक भासायां भाषायाम् वा
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शीकयति–ते
अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु, भाषण गर्नु ।
कृदन्तरूपमाला
शीक आमर्षणे
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शीकयति–ते, शीकति
अर्थ−
१. छुनु, स्पर्श गर्नु,
२. शान्त हुनु, सहनु ।
कृदन्तरूपमाला
- 1“शीक आमर्षणे” 2 आधृषीयः।
- ‘शीकरः’ इत्यादिषु जलसेचनार्थकलाभार्थं वोपदेवप्रभृतिभिः धातुरयं ‘सेके आमर्षे च’ इति पठितः।
- तत्तु ‘शीकृ सेचने’ इति भ्वादिधातोः सम्पद्यत इति व्यर्थमेव।
- तथा चोक्तम्-- ‘मर्षणे शीकयेत् शीकेत्;
- सेचने शपि शीकते’ 3 इति देवेन।
- आधृषीयत्वेन णिज्विकल्पः।
- रूपाणि यथासम्भवं चौरादिकचीकयतिवत् 4 बोध्यानि।
- चुरादिष्वेव ‘शीक भाषार्थः’ इति धात्वन्तरं अनाधृषीयं स्वामि- काश्यपादयः पठन्ति।
- तस्य प्रायपाठविरलत्वात् नास्माभिरुल्लेखः कृतः।
प्रासङ्गिक्यः
शीकृ सेचने
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शीकते
अर्थ−
१. भिजाउनु, छिटा हाल्नु, सिँच्नु,
२. सिँचाइ गर्नु ।
कृदन्तरूपमाला
- 1“शीकृ सेचने” 2 गत्यर्थकोऽपि कश्चित् शीकृधातुः क्षीरस्वामिना भ्वादिषु पठितः।
- “‘सीकृ’ 3 इति आर्याः” इति धनपालः।
- 4 शीकायमानः।
- अयम् अनृदित् इति केचित्।
- सर्वाणि रूपाणि भौवादिकचीभतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः