संस्कृत-शब्दकोशः

शीकृ शीघसञ्चारिन्

शीक्

शीक भासायां भाषायाम् वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शीकयति–ते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु, भाषण गर्नु ।

कृदन्तरूपमाला


शीक आमर्षणे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शीकयति–ते, शीकति

अर्थ−
१. छुनु, स्पर्श गर्नु,
२. शान्त हुनु, सहनु ।

कृदन्तरूपमाला

  • 1“शीक आमर्षणे” 2 आधृषीयः।
  • ‘शीकरः’ इत्यादिषु जलसेचनार्थकलाभार्थं वोपदेवप्रभृतिभिः धातुरयं ‘सेके आमर्षे च’ इति पठितः।
  • तत्तु ‘शीकृ सेचने’ इति भ्वादिधातोः सम्पद्यत इति व्यर्थमेव।
  • तथा चोक्तम्-- ‘मर्षणे शीकयेत् शीकेत्;
  • सेचने शपि शीकते’ 3 इति देवेन।
  • आधृषीयत्वेन णिज्विकल्पः।
  • रूपाणि यथासम्भवं चौरादिकचीकयतिवत् 4 बोध्यानि।
  • चुरादिष्वेव ‘शीक भाषार्थः’ इति धात्वन्तरं अनाधृषीयं स्वामि- काश्यपादयः पठन्ति।
  • तस्य प्रायपाठविरलत्वात् नास्माभिरुल्लेखः कृतः।

प्रासङ्गिक्यः

  • (१७१५)
  • (१०-चुरादिः-१८२७। सक। सेट्। उभ।)
  • (श्लो। ४२)
  • (५२९)


शीकृ सेचने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शीकते

अर्थ−
१. भिजाउनु, छिटा हाल्नु, सिँच्नु,
२. सिँचाइ गर्नु ।

कृदन्तरूपमाला

  • 1“शीकृ सेचने” 2 गत्यर्थकोऽपि कश्चित् शीकृधातुः क्षीरस्वामिना भ्वादिषु पठितः।
  • “‘सीकृ’ 3 इति आर्याः” इति धनपालः।
  • 4 शीकायमानः।
  • अयम् अनृदित् इति केचित्।
  • सर्वाणि रूपाणि भौवादिकचीभतिवत् 5 ऊह्यानि।

प्रासङ्गिक्यः

  • (१७१६)
  • (१-भ्वादिः-७५। सक। सेट्। आत्म।)
  • [पृष्ठम्१२९९+ २८]
  • १। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये शीका इति सिद्ध्यति। शीकां करोति इत्यर्थे ‘अटाट्टाशीका--’ (वा। ३-१-१७) इत्यादिना क्यङ्। अयं च क्यङ् ‘तत्करोति’ (वा। ३-१-२६) इति णिचोऽपवादः। ‘णिजपीष्यते’ इति न्यास- कारः। क्यङन्तात् शानचि रूपमेवम्। शीकायमानः = सेचक इत्यर्थः।
  • (५३०)



Correction: