शुण्ठी
शुण्ड
शुण्ठ्
शुठि शोषणे प्रतिघाते च
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शुण्ठति
अर्थ−
१. रोक्नु,
२. हिँड्न विघ्न हुनु,
३. खोच्याउनु,
४. सुक्नु, सुकाउनु ।
कृदन्तरूपमाला
- 1“शुठि खण्डनप्रमर्दनयोः” 2 ‘-- गतिप्रतिघाते’ इति क्षीरस्वामी।
- ‘शुठ--’ इति दुर्गः।
- पुरुषकारे तु “‘शूठ गति…’ इति क्षीरस्वामी” इत्युक्तम्;
- परं तु क्षीरतरङ्गिण्यां ‘शुठ’ इत्येव दृश्यते।
- शुण्ठकः-ण्ठिका, शुण्ठकः-ण्ठिका, शुशुण्ठिषकः-षिका, शोशुण्ठकः-ण्ठिका;
- इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिककुण्ठतिवत् 3 ऊह्यानि।
- शुण्ठी ओषधिमूलिकाविशेषः।
प्रासङ्गिक्यः
शुठि शोषणे
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शुण्ठयति–ते
अर्थ−
१. सुक्नु, सुकाउनु, शोषण गर्नु ।
कृदन्तरूपमाला
- 1“शुठि शोषणे” 2 ‘शुण्ठयेत् शुण्ठतीत्येवं शोषणे णौ शपि क्रमात्।’ 3 इति देवः।
- शुण्ठकः-ण्ठिका, शुशुण्ठयिषकः-षिका;
- शुण्ठयिता-त्री, शुशुण्ठयिषिता-त्री;
- इत्यादिकानि सर्वाण्यपि रूपाणि चौरादिककुण्ठयतिवत् 4 ऊह्यानि।
- कर्मणि क्तप्रत्यये 5 संशुण्ठितः।
प्रासङ्गिक्यः