संस्कृत-शब्दकोशः

शूर्पी शूर्म

शूर्प्

शूर्प माने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शूर्पयति–ते

अर्थ−
१. नाप्नु, जोख्नु, तौलनु,गन्नु ।

कृदन्तरूपमाला

  • 1“शूर्प माने” 2 दुर्गश्रीभद्रमैत्रेयादयः एवं पठन्ति।
  • तदनुसारेण धातुरयं लिखितः।
  • 3 शूर्पम्, 4 शौर्पम्-शौर्पिकम् इमानि रूपाणि विशेषः।
  • अन्यानि सर्वाण्यपि रूपाणि चौरादिकचूर्णयतिवत् 5 ऊह्यानि।
  • घञि-शूर्पः।
  • शूर्पसदृशं नखमस्या इति 6 शूर्पनखा 7

प्रासङ्गिक्यः

  • (१७४६)
  • (१०-चुरादिः-१६१२। सक। सेट्। उभ।)
  • १। एरचि पचाद्यचि वा णिलोपे रूपमेवम्। शूर्पम् = प्रस्फोटनम्।
  • २। शूर्पेण कीतं शौर्पम् शौर्पिकम्। अत्र ‘शूर्पादञ् अन्यतरस्याम्’ (५-१-२६) इति आर्हीयेष्वर्थेषु अञ्प्रत्ययः। ठञोऽपवादः। पक्षे सोऽपि भवति।
  • (५५०)
  • ३। ‘नखमुखात् संज्ञायाम्’ (४-१-५) इति ङीप्। ‘पूर्वपदात् संज्ञायामगः’ (८-४-३) इति णत्वं च संज्ञायामेवेति णत्वाभावष्टाप् च’ इति धा। का। व्याख्यायाम् (३-२२)। मल्लिनाथस्तु ‘शूर्पणखा’ इति णत्वविशिष्टमेव पठित्वा व्याचख्यौ। (रघुवंशव्याख्याने (१२-३२)।
  • आ। ‘संपालयेद् विमतलूष्यपशुल्बभूमा क्ष्मामेष राम इव शूर्पनखाविचोटी।।’ धा। का। ३-२२।



Correction: