Menu
Home
About
संस्कृत-नेपालीकोशः
संस्कृत-हिन्दीकोशः
Sanskrit-English Dictionary
संस्कृत-संस्कृतकोशः
Acknowledgement
Our Team
Contact
संस्कृत-शब्दकोशः
नेपाली
हिन्दी
English
संस्कृतम्
श्येनी
श्यैङ्
श्यै
श्यैङ्
गतौ
गणः-
भ्वादिः
कर्मकः-
सकर्मकः
इट्-
अनिट्
पदम्-
आत्मनेपदम्
कर्तरि लटि-
श्यायते
अर्थ−
१. जानु ।
कृदन्तरूपमाला
1
“श्यैङ् गतौ”
2
श्यायकः-यिका, श्यापकः-पिका, शिश्यासकः-सिका, शाश्यायकः-यिका;
श्याता-त्री, श्यापयिता-त्री, शिश्यासिता-त्री, शाश्यायिता-त्री;
इत्यादिकानि रूपाणि सर्वाणि वृद्ध्यर्थकभौवादिक ‘प्यैङ्’ धातुवत्
3
ज्ञेयानि।
4
प्रतिश्यायः-
5
अवश्यायः, शीतो वायुः,
6
शीनं घृतम्,
7
श्यानम्-नः,
8
प्रतिशीनः,
9
अभिशीनः, अभिश्यानः, अवशीनः, अवश्यानः, अभिसंशीनः, अवसंशीनः,
10
श्यामः-श्यामा, श्यामाकः, शिवः,
11
श्येनः,
12
श्येतः, शितिः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
↑
(१७६०)
↑
(१-भ्वादिः-९६३। सक। अनि। आत्म।)
↑
(१०६५)
↑
१। ‘श्याद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्ययः। आकारान्त त्वादेव णप्रत्यये सिद्धे सूत्रे पृथक् धातोः ग्रहणं सोपसर्गार्थम्--इति माधवीयादिषु स्पष्टम्।
↑
[पृष्ठम्१३२०+ ३०]
↑
१। ‘द्रवमूर्तिस्पर्शयोः श्यः’ (६-१-२४) इति द्रवस्य मूतौं काठिन्ये च वर्तमानस्य श्यायतेः निष्ठायां परतः सम्प्रसारणम्। ‘हलः’ (६-४-२) इति दीर्घः। ‘श्योऽ- स्पर्शे’ (८-२-४७) इति निष्ठानत्वम्। ‘शीतो वायुः’ इत्यत्र तु स्पर्शार्थकत्वात् न निष्ठानत्वम्।
↑
२। ‘श्यानो वृश्चिकः’ इत्यत्र द्रवमूर्तिस्पर्शाभ्यामन्यत्र सम्प्रसारणाभावात् ‘संयोगादे- रातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वमिति बोध्यम्।
↑
३। ‘प्रतेश्च’ (६-१-२५) इति प्रतेः परस्य श्यैङो निष्ठायां सम्प्रसारणम्। ‘श्यो ऽस्पर्शे’ (८-२-४७) इति निष्ठानत्वम्।
↑
४। ‘विभाषाऽभ्यवपूर्वस्य’ (६-१-२६) इति अभि, अव इत्युपसर्गात् परस्य श्यैङः सम्प्रसारणविकल्पः। सम्प्रसारणपक्षे ‘श्योऽस्पर्शे’ (८-२-४७) इति निष्ठानत्वम्। सम्प्रसारणाभावपक्षे ‘संयोगादेरातो धातोः--’ (८-२-४३) इति निष्ठानत्वमिति विशेषः। “-- ‘अभ्यवाभ्याम्’ इति वक्तव्ये सति(सूत्रे)पूर्वग्रहणं व्यवहितेऽपि यथा स्यात्-इति; तेन अभिसंशीनः, अवसंशीनः इत्याद्यपि सिद्ध्यति” इति माधवीयधातुवृत्तिः।
↑
५। ‘इषुयुधि--’ (द। उ। ८-२६) इति मक्प्रत्ययः।
↑
६। ‘श्यास्त्या--’ (द। उ। ५-१२) इत्यादिना इनन्प्रत्ययः। श्येनः = गृध्रः।
↑
७। ‘श्याभ्याम्--’ (द। उ। ६-१२) इतीतन्प्रत्यये श्येतः।
Correction:
Name
Email
Message:
Send