संस्कृत-शब्दकोशः

श्लिषु श्लिष्ट

श्लिष्

श्लिष आलिङ्गने श्लेषणे च


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- श्लेषयति–ते

अर्थ−
१. आलिङ्गन गर्नु, अङ्कमाल गर्नु, गला मिलाउनु,
२. टाँसिनु,
३. एउटै हुनु, मिल्नु, मिलाप गर्नु ।
वि-
१. विश्लेषण गर्नु ।

कृदन्तरूपमाला

  • 1“श्लिष श्लेषणे” 2 सर्वाण्यपि रूपाणि चौरादिककीटयतिवत् 3 बोध्यानि।

प्रासङ्गिक्यः

  • (१७८७)
  • (१०-चुरादिः-१५७४। सक। सेट्। उभ।)
  • (१९४)


श्लिष आलिङ्गने श्लेषणे च


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- श्लिष्यति

अर्थ−
१. आलिङ्गन गर्नु, अङ्कमाल गर्नु, गला मिलाउनु,
२. टाँसिनु,
३. एउटै हुनु, मिल्नु, मिलाप गर्नु ।
वि-
१. विश्लेषण गर्नु ।

कृदन्तरूपमाला

  • 1“श्लिष आलिङ्गने” 2 ‘श्लिष्यत्यालिङ्गने, दाहे श्लेषति श्लेषते, णिचि।।
  • श्लेषयेत्--’ 3 इति देवः।
  • आश्लेषः--नक्षत्रविशेषः, आलिङ्गनं च।
  • संज्ञायां, करणे वा घञ् अत्र।
  • आश्लेषी--णिनिः।
  • 4 श्लेषः--अलंकारविशेषः।
  • आश्लिष्टः कन्यां देवदत्तः;
  • ‘गत्यर्थाकर्मक--’ 5 इत्यादिना कर्तरि क्तः।
  • श्लेष्मा--औणादिकः 6 मनिन्प्रत्ययः।
  • रोगविशेषस्य, तज्जनक- शारीरकपदार्थविशेषस्य च नाम।
  • इतराणि सर्वाण्यपि रूपाणि दैवादिक- तुष्यतिवत् 7 बोध्यानि।

प्रासङ्गिक्यः

  • (१७८६)
  • (४-दिवादिः-११८६। सक। अनि। पर।)
  • (श्लो। १७५-६)
  • १। ‘श्याद्व्यधाश्रुसंस्रूवतीणवसावहृलिहश्लिष--’ (३-१-१४१) इति कर्तरि णप्रत्ययः।
  • (३-४-७२)
  • (द। उ। ६-७३)
  • (७५८)


श्लिषु दाहे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- श्लेषति

अर्थ−
१. डढाउनु, जलाउनु, पोल्नु ।

कृदन्तरूपमाला

  • 1“श्लिषु दाहे” 2 ‘श्लिष्यत्यालिङ्गने दाहे श्लेषति श्लेषणे णिचि।।’ 3 इति देवः।
  • श्लेषकः-षिका, शिश्लेषिंषकः-शिश्लिषिषकः-षिका, शेश्लिषकः-षिका;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकपोषतिवत् 4 ऊह्यानि।

प्रासङ्गिक्यः

  • (१७८८)
  • (१-भ्वादिः-७०२। सक। सेट्। पर।)
  • (श्लो। १७५)
  • (१०२६)



Correction: